Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 289
________________ तृतीये काण्डे [निरूपणपुरस्सरं समवायपदार्थस्य खण्डनम् ] समवायस्तु 'इह तन्तुषु पटः' इत्यादीहबुद्धिविशेषाद् द्रव्यादिभ्यो अर्थान्तरत्वेन अभ्युपगम्यते "अयुतसिद्ध"-[प्रशस्त० कं० पृ० १४ तथा ३२४ ] इत्यादिलक्षणोपेतः । यथा हि सत्ता-द्रव्यत्वादीनामात्मानुरूपप्रत्ययकर्तृत्वात् स्वाधारेषु तेभ्यः परस्परतश्च अर्थान्तरभावस्तथा समवायस्यापि ५पञ्चसु पदार्थेषु 'इह तन्तुषु पटः' 'इह पटद्रव्ये गुण-कर्मणी' 'इह द्रव्य-गुण-कर्मसु सत्ता' 'इह द्रव्ये द्रव्यत्वम्' 'इह गुणे गुणत्वम्' 'इह कर्मणि कर्मत्वम्' 'इह द्रव्येषु अन्त्या विशेषाः' इत्यादिविशेषप्रत्ययदर्शनात् पञ्चभ्यः पदार्थभ्य अन्तिरता तस्य अवसीयते । तथा च प्रयोग:-येपु यदाका विलक्षणो यः प्रत्ययः तद्व्यतिरिक्तार्थान्तरनिवन्धनः सोऽभ्युपगन्तव्यः, यथा 'पुरुषे दण्डी इति प्रत्ययः, तथा चायं पञ्चसु पदार्थेषु 'इह' प्रत्यय इति स्वभावहेतुप्रतिरूपकः प्रयोगः । निवन्धनमन्तरेण अस्य १० सद्भावे नित्यं सत्त्वमसत्त्वं वा स्यादिति विपर्यये बाधकं प्रमाणम् । एवम् 'इह' वुद्धिलिङ्गावसेयः समवायः। अध्यक्षबुद्ध्यवसेयत्वमपि तस्य केचन मन्यन्ते । तथाहि-अक्षव्यापारे सति 'इह तन्तुषु पटः' इत्यादिप्रत्ययोत्पत्तेर्विशेषा भूतस्य तस्य 'इह' बुझ्यध्यक्षावसेयता । समवायश्च न संयोगवद् भिन्नः किन्तु तल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाञ्च सत्तावत् सर्वत्र एक एव, अकारणत्वाच्च तद्वदेव नित्यः । अकारणत्वं च तत्कारणानुपलब्धेः सिद्धम् । १५ . अत्र प्रतिविधीयते-'इंह तन्तुषु पटः' इत्यादिका बुद्धिः स्खसमयाहितवासनाप्रकल्पितैव न तु लोके तथोत्पद्यमानत्वेन सिद्धेति धर्म्यसिद्धराश्रयासिद्धो हेतुः । ताहि-यत्र नानात्वमुपलक्षित भवेत् तत्र आधाराधेयभावे सति 'इह' बुद्धिरुत्पद्यमाना लोके संवेद्यते, यथा 'इह कुण्डे दधि' इति । न च नानात्वं तन्तु-पटयोरुपलब्धिगोचरः इति कथं तत्र 'इह'बुद्धयुत्पादः ? न च खमतिप्रकल्पि तस्य कार्यस्य कारणपर्यनुयोगः परं प्रति विधेयः। न चेच्छायाः पदार्थरूपानुरोधः तस्याः स्वातव्य२० वृत्तित्वात् ततोऽपि वस्तुव्यवस्थापने तेषामव्यवस्थाप्रसक्तेः भवत्परिकल्पितस्यापि वस्तुनोऽन्यथाऽ. न्यस्य प्रकल्पयितुं शक्यत्वात् न केवलम् 'इह तन्तुषु पटः' इत्यादिका बुद्धिर्लोके न संवेद्यते किन्तु विपर्ययेणैव तस्या उत्पादानुभवः । तथाहि-'वृक्षे शाखा' 'पर्वते शिला' इत्यादिका बुद्धिलॊके उत्प. १"तन्तुष्वेव पटोऽमीषु वीरणेषु कटः पुनः । इत्यादीहमतेर्भावात् समवायोऽवगम्यते" ॥-तत्त्वसं. का. ८२३ पृ. २६५। २"अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स समवायः"-प्रशस्त० के० । ३ "तस्याभावे स चेत् किं हि मतेरस्या निबन्धनम् । न विशेषमतिदृष्टा निमित्तान्तरवर्जिता ॥ इहबुद्धय विशेषाच योगवन्न विभिद्यते । सर्वस्मिन् भाववत्त्वेष एक एव प्रतीयते ॥ कारणानुपलब्धेश्च नित्यो भाववदेव सः। न ह्यस्य कारणं किश्चित् प्रमाणेनोपलभ्यते"॥ -तत्त्वसं० का० ८२४-८२६ पृ. २६५ । "एवं तावद् वैशेषिकाणां मतेन इहबुद्धिलिङ्गानुमेयः समवायः । नैयायिकमतेन तु इहबुद्धिप्रत्यक्षगम्य एवं" -तत्त्वसं० पजि० पृ. २६५ पं० २४-। ५ "तदेतदिहविज्ञानं परेषामेव वर्तते । खसिद्धान्तानुरागेण न दृष्टं लौकिकं तु तत्" ॥ -तत्त्वसं० का० ८२७ पृ. २६६। ६ "नानात्वलक्षणे हि स्यादाधाराधेयभूतयोः । इदमत्रेति विज्ञानं कुण्डादौ श्रीफलादिवत् ॥ नैव तन्तुपटादीनां नानात्वेनोपलक्षणम् । विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः" ॥ -तत्त्वसं• का० ८२८-२९ पृ. २६६ । ७ "खेच्छया रचिते वाऽस्मिन् कल्पितेष्विव वस्तुषु । न कारणनियोगोऽयं परं प्रत्युपपद्यते"॥ -तत्त्वसं. का. ८३० पृ. २६६। ८ "वृक्षे शाखाः शिलाश्चाग इत्येषा लौकिकी मतिः। अगाख्यपरिशिष्टाङ्गनरन्तर्योपलम्भनात् ॥ तौ पुनस्ताखिति ज्ञानं लोकातिक्रान्तमुच्यते । घटे रूपं क्रियादीति तादात्म्यं ववगच्छति ॥ रूपकुम्भादिशब्दा हि सर्वावस्थाभिधायकाः । तद्विशेषाभिधानाय तथा ते विनिवेशिताः ॥ तानाश्रित्यैषु विज्ञानं तेनाकारेण वर्तते । समवायान्न भेदस्य सर्वेषामप्यनीक्षणात्"॥ -तत्त्वसं. का. ८३१-८३४ पृ. २६७ । उत्पाघ-बा.बा. भ. मा

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456