Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 287
________________ ६९८ तृतीये काण्डेब्राह्मणत्वं न स्यात् । न च अदृश्ये वस्तुनि निर्णयो विधातुं शक्यः 'शूद्राद्युत्पाद्यत्वमस्य नास्ति' इति, अनादिगोत्रपद्धतौ च कामार्तत्वात् सर्वदा प्रमदानां कस्याश्चिद् व्यभिचारसंभवात् कुतो योनिनिबन्धनब्राह्मण्यनिश्चयात् संस्कारस्य अध्ययनादेश्च अविपर्ययस्तत्त्वनिश्चयः? आगमस्य च तन्निश्चयनिवन्धनत्वेन कल्पितस्य रागादियुक्तपुरुषप्रणीतत्वेन अप्रामाण्यात् न निश्चयहेतुता अपौरुषेयस्य च ५ प्रतिव्यक्ति एवंभूतार्थप्रतिपादनपरस्य अनुपलम्भान्न ततोऽपि तन्निश्चयः । न च अविगानतस्त्रै वर्णिकप्रवादोऽत्र वस्तुनि प्रमाणम् तस्यापि व्यभिचारित्वोपलब्धेः-दृश्यन्ते च बहवस्त्रैवर्णिकरविगानेन ब्राह्मणत्वेन व्यवहियमाणा विपर्ययभाजः इत्यलमतिनिर्बन्धेन वचनमात्रगम्येऽर्थे । इति व्यवस्थितमेतत्-असत् सामान्यम्, तत्साधकप्रमाणाभावात् बाधकोपपत्तश्च । [निरूपणपुरस्सरं विशेषपदार्थस्य खण्डनम् ] १० नित्यद्रव्यवृत्तयः परमाण्वाकाश-काल-दिगात्ममनस्सु वृत्तेः अत्यन्तव्यावृत्तबुद्धिहेतवो वि शेषाः ते च-परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात् मुक्तात्मनाम् मुक्तमनसां च संसारपर्यन्तरूपत्वाद् अन्तत्वं तेषु भवा-अन्त्या इत्युच्यन्ते तेषु स्फुटतरमालक्ष्यमाणत्वात्, वृत्तिस्त्वेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये विद्यत एव अत एव 'नित्यद्रव्यवृत्तयः' 'अन्त्याः' इत्युभयपदोपादा नम् । अपरे तु उत्पाद-विनाशलक्षणान्तरहितेषु द्रव्येषु भवा अन्त्या इत्यस्य व्याख्यानं 'नित्यद्रव्य. १५वृत्तयः' इति पदं वर्णयन्ति । व्यावृत्तबुद्धिहेतुत्वं च विशेषाणां सद्भावप्रतिपादकं प्रमाणम् । यथा हि अस्मदादीनां गवादिषु आकृति-गुण-क्रियाऽवयव-संयोगनिमित्तोऽश्वादिभ्यो व्यावृत्तः प्रत्ययो दृष्टःतद्यथा-'गौः' 'शुक्लः' 'शीघ्रगतिः' 'पीनककुदः' 'महाघण्टः' इति यथाक्रमम् -तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याऽऽकृति-गुण-क्रियेषु परमाणुषु मुक्तात्म-मनस्सु च अन्यनिमित्ताभावे प्रत्या धारं यद्बलाद् 'विलक्षणोऽयम्' 'विलक्षणोऽयम्' इति प्रत्ययवृत्तिः देश-कालविप्रकर्षापलब्धे च 'स २० एवायम्' इति प्रत्यभिज्ञानं च यतो भवति ते योगिनां विशेषप्रत्ययोनीतसत्त्वा अन्त्या विशेषाः सिद्धाः । योगिनां तु एते प्रत्यक्षत एव सिद्धाः। ____एते च लक्षणासंभवादेव असन्तः। तथाहि-यद् एषां नित्यद्रव्यवृत्तित्वादिकं लक्षणमभिहितम्, तत् असंभवदोषदुष्टत्वाद् अलक्षणमेव । यतः न किञ्चिन्नित्यं द्रव्यमस्ति, तस्य पूर्वमेव निरस्तत्वात् । तभावे च तद्वृत्तित्वं लक्षणमेषां दूरोत्सारितमेव । यच्च योगिप्रभवविशेषप्रत्ययबलाद् एषां सत्त्वं २५साध्यते, तद् असंगतमेव; हेतोरनैकान्तिकत्वात् । तथाहि-परमाण्वादीनां स्वस्वभावव्यवस्थितेः स्वरूपं परस्परासंकीर्णरूपं वा भवेत्, संकीर्णस्वभावं वेति कल्पनाद्वयम् । आद्यकल्पनायां स्वत एव असंकीर्णपरमाण्वादिरूपोपलम्भात् योगिनां तेषु वैलक्षण्यप्रत्ययोत्पत्तिर्भविष्यतीति व्यर्थमपरविशेषपदार्थकल्पनम् । द्वितीयायामपि विशेषाख्यपदार्थान्तरसन्निधानेऽपि परस्परव्यतिमिश्रेषु परमाण्वादिषु तद्बलाद् व्यावृत्तप्रत्ययो योगिनां प्रवर्तमानः कथमभ्रान्तो भवेत् स्वरूपतोऽव्यावृत्तखरूपेषु १ "नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः। ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद् विशेषा एवं"-प्रशस्त. कं० पृ. १३ पं०२०। "विशेषा एव केचित्तु व्यावृत्तेरेव हेतवः । नित्यद्रव्यस्थिता येऽन्त्या विशेषा इति वर्णिताः"॥ -तत्त्वसं० का० ७१२ पृ० २३६ । २“अन्तेषु भवा अन्त्याः खाश्रयविशेषकखाद विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः"-इत्यादि-प्रशस्त० के० पृ. ३२१ पं० १२-1 ३ यद्वर्णाद् बृ० आ० हा० वि० । “यद्वलात् परमाण्वादौ जायन्ते योगिनां धियः । विलक्षणोऽयमेतस्मादिति प्रत्येकमाश्रिताः" ॥ -तत्त्वसं० का० ७१३ पृ० २३७ । ४ "ये पुनः कल्पिता एते विशेषा अन्त्यभाविनः । नित्यद्रव्यव्यपोहेन तेऽप्यसंभविताः क्षणाः ॥ अण्वाकाशदिगादीनामसंकीर्ण यदा स्थितम् । वरूपं च तदैतस्माद् वैलक्षण्योपलक्षणम् ॥ मिश्रीभूतापरात्मानो भवेयुर्यदि ते पुनः । नान्यभावेऽप्यविभ्रान्तं वैलक्षण्योपलक्षणम् ॥ कथं तेषु विशेषेषु वैलक्षण्योपलक्षणम् । खत एवेति चेन्नैवमण्वादावपि किं मतम्"। -तत्त्वसं० का०८१३-८१६ पृ. २६३॥

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456