Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 280
________________ ज्ञेयमीमांसा । ६९१ वृत्तिर्वाच्या । अथ समवाथलक्षणा वृत्तिस्तत्र तस्य उक्तैव, न; तस्याः स्वरूपानिर्देशात् । अथ आश्रयाऽऽश्रयिभावस्तस्याः स्वरूपम्, न; अस्य पर्यायमात्रत्वात्-वृत्तिमात्रम् समवायः आश्रयाश्रयिभावः इति च पर्यायशब्दाः । एतेन तु कात्रुयैकदेशवृत्तिव्यतिरेकेण लोकप्रसिद्धाऽपरवृत्तिप्रदर्शनं कृतम् । या तु समवायलक्षणा स्वशास्त्रपरिभाषिता वृत्तिः सा तु तद्राहकप्रमाणाभावात् सामान्यवद् असिद्धस्वरूपैव यदि च पिण्डेभ्यो व्यतिरिक्तम्-कुण्डव्यतिरिक्तबदरवत्-सामान्यं प्रमाणत उपलभ्येत५ तदा तेषु तस्य वृत्तिप्रकल्पना स्यात् न च तत् तथोपलभ्यत इत्युक्तं प्राक् । अपि च, उत्पन्ने पिण्डे सामान्यं वर्तते, आहोखिद् अनुत्पन्ने, उत उत्पद्यमाने इति विकल्पाः । न तावद् अनुत्पन्ने, तदा पिण्डस्याऽसत्त्वात् । नापि उत्पन्ने, अगोरूपे अश्वपिण्ड इव तत्र तस्य वृत्त्ययोगात् इत्युक्तत्वात् । नापि उत्पद्यमाने, अनिष्पन्नस्य आधारत्वायोगात् विद्यमानस्वरूपाणामेव कुण्डबदाणामाश्रयाश्रयिभावदर्शनात् अतः 'य एव पिण्डोत्पत्तिकालः स एव तत्सामान्यसंबन्धसमयः' इति अयुक्तम्, १० अन्यत्र एवमदर्शनात् । किञ्च, उत्पद्यमानेन पिण्डेन सह सामान्यं संवन्ध्यमानं किमन्यत आगत्य संबध्यते उत पिण्डेन सह उत्पादात्, आहोस्वित् पिण्डोत्पत्तेः प्रागेव तद्देशावस्थानात् इति विकल्पाः । तत्र न तावद अन्यत आगत्य संबध्यत इति पक्ष आश्रयितुं युक्तः यतः प्राक्तनपिण्डपरित्यागेन तत् तत्र आगच्छति, उत अपरित्यागेन इति वाच्यम् । यदि परित्यागेन इति पक्षः स न युक्तः प्राक्तनपिण्डस्य गोत्वपरि-१५ त्यक्तस्य अगोरूपताप्रसक्तेः। अथ अपरित्यागेन तदा अपरित्यक्तप्राक्तनपिण्डस्य निरंशस्य रूपादेरिव गमनासंभवः न हि अपरित्यक्तप्राक्तनाधाराणां रूपादीनामाधारान्तरसंक्रान्तिः क्वचिदपि उपलब्धा, न च प्राक्तनाधारापरित्यागेऽपि आधारान्तरसंक्रमः सादेरिव सामान्यस्य भविष्यतीति वक्तव्यम् , सामान्यस्य अमूर्तत्वाभ्युपगमात् अमूर्तस्य च रूपादिवद् गमनासंभवात् । न च सर्पवत् पूर्वाधारापरित्यागेन आधारान्तरकोडीकरणे सामान्यरूपता, सदेशस्य घटवत् सामान्यरूपतानुपपत्तेः । न च २० पिण्डोत्पत्तेः प्राक् तद्देशे तस्य अवस्थानाद उत्पद्यमाने पिण्डे तस्य वृत्तिरित्यभ्युपगमोऽपि युक्तः निराधारस्य सामान्यस्य तत्र अवस्थानासंभवात् अवस्थाने वा आकाशवत् सामान्यरूपताविरहात् । न च पिण्डेनैव सह उत्पद्यत इति पक्षप्रकल्पनाऽपि संगता, उत्पत्तिमत्त्वेन तस्य अनित्यताप्रसक्तः अनित्यस्य च ज्वालादिवत् सामान्यरूपताऽयोगात् । न च शाबलेयादिपिण्डस्य सामान्यसंबन्धविकलस्यैव परेण अवस्थानमभ्युपगतमिति सामान्यप्रकल्पना अनेकदोषदुष्टत्वाद् असंगतैव । तदुक्तम्-२५ "न याति न च तत्रासीदस्ति पश्चान्न वांऽशवत् । जहाति पूर्व नाधारमहो! व्यसनसंततिः" ॥ [ तथा “यत्रासौ वर्तते भावस्तेन संबध्यते न च । तद्देशिनं च व्याप्नोति किमप्येतद् महाद्भुतम्" ॥ [ न च गमनादिधर्मविकलस्यापि सामान्यस्य उत्पद्यमानपिण्डसंबन्धो 'गौः' 'गौः' इत्यनुस्यूताकारप्रत्ययात् प्रतीयत एवेति प्रमाणप्रतिपन्ने वस्तुनि विरोधाद्युद्भावनमसंगतमेवेति वाच्यम् , 'गौः' 'गौः' इत्यनुगताकारप्रत्ययस्य प्रागभावादिषु अभावप्रत्ययवत सामान्यसंबन्धमन्तरेणाऽपि सिद्धत्वात । किञ्च, पिण्डेभ्यो व्यतिरिक्तं यदि अनुस्यूतमेकं सामान्यमभ्युपगम्येत तदा एकपिण्डोपलम्मे तस्य अविभक्तत्वात् पिण्डान्तरालेऽपि उपलब्धिः स्यात् न हि तस्य एकत्राभिव्यक्तस्य अन्यत्र अनभिव्यक्त-३५ खरूपता विरुद्धधर्माध्यासतो भेदप्रसक्तेः तथापि अभेदे न किञ्चिद् भिन्नं स्याद् इति सर्वत्र भेदव्यवहारनिवृत्तेः तदपेक्षस्य अमेदव्यवहारस्याऽपि विरहात् सर्वाभावप्रसक्तिः। अथ अन्तराले संयुक्तसमवायसंबन्धस्य उपलम्भहेतोश्चक्षुषोऽभावाद् अनुपलम्भः, असदेतत् तत्र तत्सद्भावे प्रमाणाभावात्-यदि हि पिण्डद्वयान्तराले सामान्यस्य कुतश्चित् प्रमाणात् सद्भावः सिद्धः स्यात् तदा ग्रहण १-अत्र सामान्यगोचरा चर्चाऽवगन्तव्या-पृ० २३९ पं० ३-पृ० २४१ पं० १ । हेतुबिन्दुतोऽप्येषाऽवधारणीया लि. पृ० ३१ ब०-३५ अ०।। २'तदुक्तम्' इत्युल्लिख्यायं श्लोकः स्याद्वादरत्नाकरे उद्धृतो वर्तते-पृ. ९५५ पं० १८। ८९स०प्र०

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456