________________
ज्ञेयमीमांसा ।
६९१
वृत्तिर्वाच्या । अथ समवाथलक्षणा वृत्तिस्तत्र तस्य उक्तैव, न; तस्याः स्वरूपानिर्देशात् । अथ आश्रयाऽऽश्रयिभावस्तस्याः स्वरूपम्, न; अस्य पर्यायमात्रत्वात्-वृत्तिमात्रम् समवायः आश्रयाश्रयिभावः इति च पर्यायशब्दाः । एतेन तु कात्रुयैकदेशवृत्तिव्यतिरेकेण लोकप्रसिद्धाऽपरवृत्तिप्रदर्शनं कृतम् । या तु समवायलक्षणा स्वशास्त्रपरिभाषिता वृत्तिः सा तु तद्राहकप्रमाणाभावात् सामान्यवद् असिद्धस्वरूपैव यदि च पिण्डेभ्यो व्यतिरिक्तम्-कुण्डव्यतिरिक्तबदरवत्-सामान्यं प्रमाणत उपलभ्येत५ तदा तेषु तस्य वृत्तिप्रकल्पना स्यात् न च तत् तथोपलभ्यत इत्युक्तं प्राक् । अपि च, उत्पन्ने पिण्डे सामान्यं वर्तते, आहोखिद् अनुत्पन्ने, उत उत्पद्यमाने इति विकल्पाः । न तावद् अनुत्पन्ने, तदा पिण्डस्याऽसत्त्वात् । नापि उत्पन्ने, अगोरूपे अश्वपिण्ड इव तत्र तस्य वृत्त्ययोगात् इत्युक्तत्वात् । नापि उत्पद्यमाने, अनिष्पन्नस्य आधारत्वायोगात् विद्यमानस्वरूपाणामेव कुण्डबदाणामाश्रयाश्रयिभावदर्शनात् अतः 'य एव पिण्डोत्पत्तिकालः स एव तत्सामान्यसंबन्धसमयः' इति अयुक्तम्, १० अन्यत्र एवमदर्शनात् ।
किञ्च, उत्पद्यमानेन पिण्डेन सह सामान्यं संवन्ध्यमानं किमन्यत आगत्य संबध्यते उत पिण्डेन सह उत्पादात्, आहोस्वित् पिण्डोत्पत्तेः प्रागेव तद्देशावस्थानात् इति विकल्पाः । तत्र न तावद अन्यत आगत्य संबध्यत इति पक्ष आश्रयितुं युक्तः यतः प्राक्तनपिण्डपरित्यागेन तत् तत्र आगच्छति, उत अपरित्यागेन इति वाच्यम् । यदि परित्यागेन इति पक्षः स न युक्तः प्राक्तनपिण्डस्य गोत्वपरि-१५ त्यक्तस्य अगोरूपताप्रसक्तेः। अथ अपरित्यागेन तदा अपरित्यक्तप्राक्तनपिण्डस्य निरंशस्य रूपादेरिव गमनासंभवः न हि अपरित्यक्तप्राक्तनाधाराणां रूपादीनामाधारान्तरसंक्रान्तिः क्वचिदपि उपलब्धा, न च प्राक्तनाधारापरित्यागेऽपि आधारान्तरसंक्रमः सादेरिव सामान्यस्य भविष्यतीति वक्तव्यम् , सामान्यस्य अमूर्तत्वाभ्युपगमात् अमूर्तस्य च रूपादिवद् गमनासंभवात् । न च सर्पवत् पूर्वाधारापरित्यागेन आधारान्तरकोडीकरणे सामान्यरूपता, सदेशस्य घटवत् सामान्यरूपतानुपपत्तेः । न च २० पिण्डोत्पत्तेः प्राक् तद्देशे तस्य अवस्थानाद उत्पद्यमाने पिण्डे तस्य वृत्तिरित्यभ्युपगमोऽपि युक्तः निराधारस्य सामान्यस्य तत्र अवस्थानासंभवात् अवस्थाने वा आकाशवत् सामान्यरूपताविरहात् । न च पिण्डेनैव सह उत्पद्यत इति पक्षप्रकल्पनाऽपि संगता, उत्पत्तिमत्त्वेन तस्य अनित्यताप्रसक्तः अनित्यस्य च ज्वालादिवत् सामान्यरूपताऽयोगात् । न च शाबलेयादिपिण्डस्य सामान्यसंबन्धविकलस्यैव परेण अवस्थानमभ्युपगतमिति सामान्यप्रकल्पना अनेकदोषदुष्टत्वाद् असंगतैव । तदुक्तम्-२५
"न याति न च तत्रासीदस्ति पश्चान्न वांऽशवत् ।
जहाति पूर्व नाधारमहो! व्यसनसंततिः" ॥ [ तथा
“यत्रासौ वर्तते भावस्तेन संबध्यते न च ।
तद्देशिनं च व्याप्नोति किमप्येतद् महाद्भुतम्" ॥ [ न च गमनादिधर्मविकलस्यापि सामान्यस्य उत्पद्यमानपिण्डसंबन्धो 'गौः' 'गौः' इत्यनुस्यूताकारप्रत्ययात् प्रतीयत एवेति प्रमाणप्रतिपन्ने वस्तुनि विरोधाद्युद्भावनमसंगतमेवेति वाच्यम् , 'गौः' 'गौः' इत्यनुगताकारप्रत्ययस्य प्रागभावादिषु अभावप्रत्ययवत सामान्यसंबन्धमन्तरेणाऽपि सिद्धत्वात । किञ्च, पिण्डेभ्यो व्यतिरिक्तं यदि अनुस्यूतमेकं सामान्यमभ्युपगम्येत तदा एकपिण्डोपलम्मे तस्य अविभक्तत्वात् पिण्डान्तरालेऽपि उपलब्धिः स्यात् न हि तस्य एकत्राभिव्यक्तस्य अन्यत्र अनभिव्यक्त-३५ खरूपता विरुद्धधर्माध्यासतो भेदप्रसक्तेः तथापि अभेदे न किञ्चिद् भिन्नं स्याद् इति सर्वत्र भेदव्यवहारनिवृत्तेः तदपेक्षस्य अमेदव्यवहारस्याऽपि विरहात् सर्वाभावप्रसक्तिः। अथ अन्तराले संयुक्तसमवायसंबन्धस्य उपलम्भहेतोश्चक्षुषोऽभावाद् अनुपलम्भः, असदेतत् तत्र तत्सद्भावे प्रमाणाभावात्-यदि हि पिण्डद्वयान्तराले सामान्यस्य कुतश्चित् प्रमाणात् सद्भावः सिद्धः स्यात् तदा ग्रहण
१-अत्र सामान्यगोचरा चर्चाऽवगन्तव्या-पृ० २३९ पं० ३-पृ० २४१ पं० १ । हेतुबिन्दुतोऽप्येषाऽवधारणीया लि. पृ० ३१ ब०-३५ अ०।। २'तदुक्तम्' इत्युल्लिख्यायं श्लोकः स्याद्वादरत्नाकरे उद्धृतो वर्तते-पृ. ९५५ पं० १८।
८९स०प्र०