________________
तृतीये काण्डेनिमित्तं यथोपवर्णितमुपपद्येताऽपि, न च तत्सद्भावः सिद्ध इति असकृद् आवेदितम् । नच खव्यक्तिसर्वगतत्वात् सामान्यस्य अयमदोषः, अन्तराले तस्य अभावे स्वव्यक्तिषु च सद्भावे अनेकत्वप्रसक्तेः तदन्तरेण अन्तराले विच्छिन्नस्य सकलखव्यक्तिसंबद्धत्वानुपपत्तेः । यदपि 'अत्र 'अन्तराल' शब्देन किं पिण्डान्तरमश्वादिरूपमभिधीयते, आहोस्विद् मूर्तद्रव्याभावः, उत आकाशादिप्रदेश इति ५विकल्पाः । यदि अश्वादिपिण्डान्तराभिधानं तदा तत्र गोत्वसामान्यस्य अवृत्तेरग्रहणमुपपन्नमेव न हि यद् यत्र नास्ति तत् तत्र गृह्यत इति परस्याभ्युपगमः अथ आकाशादिदेशस्तदा तत्रापि सामान्यस्य वृत्तेरग्रहणमेव । एवं मूर्तद्रव्याभावेऽपि अग्रहणमभावादेव' इति दूषणाभिधानम्, तदपि असंगतमेव । एवं दूषणाभिधाने सर्वत्र तदभिधानानिवृत्तेः । तथाहि-'घटद्वयान्तराले पटादि
द्रव्यस्य अग्रहणाद् अभावः' इत्यत्रापि विकल्पौत(कल्प्यैत)दोषाभिधानस्य अभिधातुं शक्यत्वात् । १० अथ अत्र 'अन्तराल'शब्दस्य लोकप्रसिद्ध एवार्थः प्रकल्प्यते तर्हि एतद् अन्यत्रापि समानमिति न पर्यनुयोगावकाशः।
किञ्च, यदि उपलभ्यस्वभावं सामान्यमभ्युपगम्यते तदा सास्नाद्यवयवानामिव शाबलेयादौ तद्रुझ्या ग्रहणं स्यात्, अग्रहणात् तद् असदित्यत्र किं सास्नादिबुद्ध्याऽग्रहणात् सामान्यस्य असत्त्वम्,
आहोस्वित् स्वबुद्ध्या इति कल्पनाद्वयम् । न तावत् सानादिबुद्ध्या अगृह्यमाणत्वात् तस्य असत्त्वम् १५ रूपादेरपि रसादिबुद्ध्यग्रहणाद असत्त्वप्रसक्तेः। अथ स्वबुद्ध्या अगृह्यमाणत्वाद् असत्त्वम्, तदयुक्तम्। विरोधात्-न हि 'सामान्यबुद्धिः सामान्यस्य च अग्राहिका' इत्यभिधानमविरुद्धम् 'माता च मे वन्ध्या च' इत्यभिधानवत् । न च अनुगताकारबुद्ध्या सामान्यं न गृह्यते, व्यावृत्तबुद्धेरपि विशेष प्रत्यग्राहकत्वप्रसक्तेः । अतः 'तद्बुद्ध्या अगृह्यमाणत्वात् असत् सामान्यमित्ययुक्तम्' इत्यपि अभिधानम
संगतम् यतो भवद्भिप्रायेण समानाकारशावलेयादिबुद्धिः सामान्यबुद्धिः तया च देश-कालव्यापि २० सामान्यं न गृह्यते तथाभूतस्य वुद्ध्यजनकत्वेन तबाह्यत्वायोगात् अत एव अनुगताकारबुद्धेरव्यापक
क्षणिकशाबलेयादिपदार्थप्रभवत्वात् तद्राहकत्वमेव न सामान्यग्राहकत्वम् । किञ्च, अक्षणिक-व्यापकैकस्वभावत्वे सामान्यस्य किं येनैव स्वभावेन एकस्मिन् पिण्डे वर्तते सामान्यं तेनैव पिण्डान्तरे, आहोस्वित् स्वभावान्तरेण? यदि तेनैव ततः सर्वपिण्डानामेकत्वप्रसक्तिः एकदेश-काल-स्वभावनियतपिण्डवृत्त्यभिन्नसामान्यस्वभावक्रोडीकृतत्वात् सर्वपिण्डानाम् प्रतिनियतदेश-काल-स्वभावैक२५पिण्डवत् । अथ स्वभावान्तरेण, तदा अनेकस्वभावयोगात् सामान्यस्य अनेकत्वप्रसक्तिः स्वभावभेदस्य
भावभेदकत्वात् अन्यथा भेदायोगात् । न च एकस्य अनेकवृत्तित्वं रूपादेरिव युक्तम् । अथ यथा एकस्य रूपादेरेकवृत्तित्वं-तथैवोपलम्भात्-अभ्युपगम्यते तथा एकस्य सामान्यस्य अनेकवृत्तित्वमनेकत्रोपलम्भात् किं नाऽभ्युपगम्यते अबाधितोपलम्भस्य भावरूपव्यवस्थानिबन्धनत्वात् ? भवेद् एतत् यदि अनेकवृत्तितया एकं सामान्यं स्वरूपतोऽध्यक्षे प्रतिभासेत न चैवम् व्यक्तिव्यवस्थितस्य एकस्य ३० व्यक्तिभ्यो भिन्नस्य कुत्रचित् प्रत्यये अप्रतिभासनात् । न च देशव्याप्तिः कालव्याप्तिर्वा कस्यचिद् भावस्य केनचित् प्रमाणेन प्रतिपत्तुं शक्येति प्राक् प्रतिपादितम् । न च परस्परव्यावृत्तात्मानो भावा अनगतनिमित्तमन्तरेण कथमभिन्नाकारप्रत्ययनिबन्धनं भवन्तीति वक्तव्यम् यतो यथा गुडच्यादयो भावाः परस्परविविक्ता अपि सह प्रत्येकं च एकसामान्यमन्तरेणापि एकं ज्वरादिशमनलक्षणं कार्य निर्वर्तयन्ति-न हि तत्र एकं सामान्यं तदर्थक्रियासंपादनसमर्थमस्ति अन्यथा तेषां चिर-क्षिप्रादिभेदेन ३५व्याध्युपशमसामथ्यापलीब्धन स्यात् सामान्यस्य सर्वत्र एकरूपत्वात्, न च सरस
संपाद्यशीघ्रव्याध्युपशमादिभेदोपलब्धिश्च स्यात् सामान्यस्य नित्यस्वभावतया परैरनाधेयातिशयस्य सर्वत्र सर्वदा एकरूपत्वात् । गुडूच्यादिभावनिबन्धनत्वे तु नायं दोषः तस्य प्रतिक्षणं भिन्नत्वे भिन्नशक्तित्वात्-तथा इहापि केचिद् भावाः प्रकृत्यैव एकाकारपरामर्शहेतवो भविष्यन्तीति न तदर्थ सामान्यप्रकल्पनं युक्तम् । यदपि 'अनुगतप्रत्ययः पिण्डव्यतिरिक्तानुगतनिमित्तनिबन्धनः' इत्याद्य४० नुमानम् तत्र प्रतिज्ञाया अनुमानबाधा । तथाहि-अनुगतप्रत्ययानां पिण्डव्यतिरिक्तमनुगतं निमित्तमालम्बनभूतं साधयितुमभिप्रेतम् तच्चायुक्तम् तस्य तत्र अप्रतिभासनात् वर्णाऽऽकृत्यक्षराकारस्यैव
१२-२-६५ न्यायवा० पृ. ३१५ पं० २१-। २-कल्पैत-बृ० । ३-मित्यभिधान-वा. बा० । ४-क्षणिकाव्या-वा० बा०।-क्षणिके व्या-बृ०। ५०६८८ पं०१०।