________________
तृतीये काण्डेन च सामान्यस्य अनुवृत्त्येकरूपत्वात् कालर्यैकदेशशब्दयोस्तत्राऽप्रवृत्तिः, निरवयवैकरूपेऽपि व्याप्त्यव्याप्तिशब्दयोर्भवतैव प्रवृत्त्यभ्युपगमात् तत्र च कृत्स्नैकदेशवृत्तिपक्षोक्तदोषाणां समानत्वात् अपरस्य चात्र वक्तव्यस्य पूर्वमेव निषिद्धत्वात् । तन्न वृत्त्यनुपपत्तेः सामान्यस्य सत्त्वमभ्युपगन्तुं युक्तम्।
किञ्च, पिण्डोत्पत्तिकाले किं गवात्मकेन पिण्डेन गोत्वं संबंध्यते, उत अगवात्मकेन ? यदि ५आद्यः पक्षस्तदा गोत्वसंबन्धात् प्राक् पिण्डस्य यद्यपरगोत्वसंबन्धाद् गोरूपता तदा अनवस्थाप्रसक्तिः । अथ तत्संबन्धमन्तरेणाऽपि तस्य गोरूपता तदा गोत्वसंवन्धवैयर्थ्यम् तमन्तरेणापि गोपिण्डस्य प्रागेव गोरूपत्वात् । अथ अगोरूपेण तदाऽगोरूपत्वाविशेषात् अश्वादिपिण्डैरपि गोत्वसंबन्धप्रसक्तिः इति अश्वादयोऽपि गोरूपाः स्युः । न च अगोरूपत्वाविशेषेऽपि गोत्वसंबन्धात् प्राक्
शाबलेयादिभिरेव गोत्वं संबध्यते न कर्कादिभिरिति वक्तव्यम् , नियमहेतोरभावात् । अथ उप१० लक्षणभेदो नियमहेतुः । तथाहि-यत्र ककुदादीनि उपलक्षणानि पिण्डे तत्रैव गोत्वं वर्तते न केसराधुपलक्षणवति, असदेतत् ; गोत्वादेरचेतनत्वेन निरभिप्रायस्य प्रदर्शितोपलक्षणप्रत्यभिज्ञानवशाद् अन्यपरिहारेण प्रतिनियताधारवृत्तित्वानुपपत्तेः । न च ककुदाधुपलक्षणयोगिनः पिण्डादेः स्वात्मनि गोत्वाधारसामर्थ्य प्रतिनियतं निमित्तं कल्पयितुं युक्तम् , यतो यया शक्त्या ककुदादिमन्तः पिण्डविशेषा गोत्वसामान्य विजातीयपिण्डव्यवच्छेदेन खात्मनि व्यवस्थापयन्ति तयैव 'गौः' 'गौः' इत्यनु. १५ गताकारज्ञानहेतवोऽपि भविष्यन्तीति किमन्तर्गडुसामान्यप्रकल्पनया। न च अदृष्टं गोत्वादेः सामान्यस्य प्रतिनियतव्यक्तिवृत्तिनिमित्तं कल्पनीयम्, तत्रापि अस्य दूषणस्य समानत्वात् । यदपि 'अनु. गताकारं ज्ञानं सामान्यमन्तरेण असंभव' इति, तत्रापि किं यत्रानुगतं ज्ञानं तत्र सामान्यसंभवः प्रतिपाद्यते, आहोवित् यत्र सामान्यसंभवस्तत्र अनुगतं ज्ञानमिति ? तत्र यदि आद्यः पक्षः, स न
युक्तः, यतो गोत्वादिसामान्येषु बहुषु 'सामान्यम्' 'सामान्यम्' इति अनुगताकारप्रत्ययप्रवृत्तेः अपर२० सामान्यप्रकल्पनाप्रसक्तिः स्यात् । तथा, प्रागभावादिष्वपि अभावेषु 'अभावः' 'अभावः' इत्यनुगत
प्रत्ययप्रवृत्तिरस्ति, न च परैः अभावसामान्यमभ्युपगतमिति व्यभिचारः । न च सामान्यादिषु अनुगतप्रत्ययस्य गौणत्वान्न व्यभिचारः, अस्खलवृत्तित्वेन गौणत्वस्य असिद्धेरित्युक्तत्वात् । अथ यत्र सामान्यं तत्रानुगतप्रत्ययकल्पना, न; पाचकादिषु तद्भावेऽपि अनुगतप्रत्ययप्रवृत्तेः । न च तत्रापि पचनक्रियानिमित्तोऽयं प्रत्ययः तस्याः प्रतिव्यक्ति भिन्नत्वात् तत्सामान्यनिमित्तत्वे प्रागेव तत्प्रत्यय२५प्रसूतिर्भवेत् सामान्यस्य नित्यत्वेन तदापि तद्धेतो वात् । अभिव्यञ्जकक्रियाभावात् प्राक् अनभिव्यक्तत्वात् तत्सामान्यस्य न तत्प्रत्ययोत्पत्तिरिति चेत्, पचनक्रियानिवृत्तावपि अभिव्यञ्जकाभावेन अनभिव्यक्तात् तत्सामान्यात् तत्प्रत्ययोत्पत्तिर्न स्यात् अनुत्पन्नवद् विनष्टस्यापि अभिव्यञ्जकस्य अभिव्यञ्जकत्वायोगात् । अथ एकदा अभिव्यक्तस्य तत्सामान्यस्य नित्यत्वेन सर्वदा अभिव्यक्तत्वाद् उत्तर
कालं तत्प्रत्ययोत्पत्तिस्तर्हि पचनक्रियायाः प्रागपि तत्सामान्यस्य एकरूपतया अभिव्यक्तत्वात् ततस्त३० त्प्रत्ययोत्पत्तिः स्यात् । अथ प्राग न तस्याऽभिव्यक्तिस्तर्हि अभिव्यक्ताऽनभिव्यक्तस्वभावद्वययोगात् तस्य
नैकत्वम् स्वभावभेदलक्षणत्वाद् वस्तुमेदस्य । अथ व्यक्तिप्रतिभाससमय एव सामान्यस्य प्रतिभास इति न ततःप्राक् पश्चाद् वा अभिव्यक्तैकरूपस्यापि तस्य ग्रहणं तर्हि व्यक्तिप्रतिभासकाले अपरप्रतिभासस्याऽसंवेदनाद् अनुगतप्रतिभासस्य च तदा व्यक्तिनिबन्धनत्वात् सामान्यस्य अभाव एवेति प्राप्तम्।
तेन 'यत्र सामान्यसद्भावाद् अनुगताकारं ज्ञानं प्रवर्तते तत्र तद् मुख्यम् यत्र तु तदभावात् तत् तद् ३५गौणम्' इत्येतदपि निरस्तम् सामान्यनिबन्धनत्वेन अनुगतज्ञानस्य क्वचिदपि असिद्धेः मुख्याभावे गौणकल्पनाया दुरापास्तत्वात् । यदपि 'किमनेन प्रसङ्ग आपाद्यते परस्य, आहोस्वित् स्वतन्त्रसाधनमिति, न तावत् प्रसङ्गसाधनम् पराभ्युपगमेनैव तस्य वृत्तेः, न च परस्य कायेन एकदेशेन वा निरंशस्य वृत्तिः सिद्धा किन्तु वृत्तिमात्रं समवायखरूपं सिद्धम् तच्च विद्यत एव समवायस्य प्रमाणतः सिद्धेः । तन्न प्रसङ्गसाधनमेतत् । स्वतन्त्रं तु साधनं न भवति सामान्यलक्षणस्य धर्मिणोऽसिद्धेर्हेतोरा४० श्रयासिद्धिप्रसङ्गात्, धर्मिसिद्धौ वा तत्प्रतिपादकप्रमाणबाधितत्वात् तदभावसाधकप्रमाणस्य अप्रवृत्तिरेव' इत्यभिधानम्, तदप्यसंगतम् ; यतो नास्माभिः किञ्चिदत्र सामान्यस्य साध्यते किन्तु येन सामान्य व्यक्त्याश्रितमभ्युपगम्यते तेन तत्र तस्य एकदेशेन सर्वात्मना वा-अन्यथा वृत्तेरसंभवात्
१-बन्ध्यते भा० मा० । २ पृ० ६८८ पं० १३-१४ । ३-चनादि-भां. मां० ।