________________
झेयपीमांसा।
६८९ 'गौः' 'गौः' इति विकल्पज्ञानेनापि त एव समानाकाराः शाबलेयादयो बहिर्व्यवस्थिता अवसीयन्ते अन्तश्च शब्दोल्लेखः; न पुनस्तद्भिन्नमपरं गोत्वम् । तन्न निर्विकल्पकेन सविकल्पकेन वाऽध्यक्षेण सामान्य व्यवस्थापयितुं शक्यम् । यदपि 'कार्यभूतानुगतप्रत्ययेन अनुमानतः सामान्यव्यवस्थापनम् , तदप्यसंगतम्। तस्य प्रत्ययहेतुत्वेन प्रमाणतोऽनिश्चयात्, तथा हि अनुगताकारज्ञानस्य निर्निमित्तस्य असंभवात् केनचिन्निमित्तेन भाव्यम् इत्येतावन्मात्रं सिध्यति । तच्च सामान्यम् अन्यद् वेति न निश्चयो५ भवताम् । कार्यान्वय-व्यतिरेकाभ्यां च कारणत्वावधारणम्, पिण्डानां च विज्ञानजन्मनि ततः सामर्थ्य विशेषप्रत्यये सिद्धमिति इहापि तेषामेव सामर्थ्यप्रकल्पनम् , न; सामान्यस्य तस्य क्वचिदपि सामर्थ्यानवधारणात् । तथाहि-पिण्डसद्भावे अनुगताकारं ज्ञानमुपलभ्यते तदभावे न इति वरमध्यक्षप्रत्ययावसेयानां तेषामेव तन्निमित्तता कल्पनीया । यदपि पिण्डानामविशिष्टत्वात् प्रतिनियमो न स्यात् तज्जन्मनि' इत्यभिधानम् , तदपि असंगतम् । यतो यथा पिंडादिरूपतयाऽविशेषेऽपि तन्तू-१० नामेव पटजन्मनि हेतुत्वम् न कपालादीनाम् तथा शावलेयादीनामेव 'गौः' 'गौः' इति ज्ञानोत्पादने सामर्थ्य भविष्यति कयाचिद् युक्त्या न कर्कादीनाम् , यथा वा गुडूच्यादेरेव ज्वरादिशमने सामर्थ्य प्रतीयते न दध्यादेर्वस्तुरूपतयाऽविशेषेऽपि तथा प्रकृतेऽपि भविष्यतीति न पर्यनुयोगो युक्तः। किञ्च; सामान्यं परेण मूर्तमभ्युपगम्यते, अमूर्त वा ? यदि अमूर्तम् न सामान्यं स्याद् रूपवत् । अथ मूर्तम् तथा च न सामान्यं घटादिवत् । तथा, यदि अनंशं सामान्यमभ्युपगम्यते तर्हि न सामान्यम् अनंश-१५ त्वात् परमाणुवत्, सांशत्वेऽपि न सामान्यम् घटवत् । किञ्च, यदि पिण्डेभ्यो भिन्नं सामान्यम भेदेन एव उपलभ्येत घटादिभ्य इव पटः । न च एकान्ततो व्यक्तिभ्यः सामान्यस्य भेदे 'गोर्गोत्वम्' इति व्यपदेशोपपत्तिः संवन्धाभावात्, समवायस्य तत्संवन्धत्वेन निषेत्स्यमानत्वात् । व्यक्तिभ्यस्तस्थाऽभेदे अन्यत्राऽननुयायित्वाद न सामान्यरूपता पिण्डस्वरूपवत् । न च भेदेन व्यक्तिभ्यस नुपलक्षणं भिन्नप्रतिभासविषयत्वाद असिद्धम् , वुद्धिभेदस्य व्यक्तिनिमित्तत्वेन प्रतिपादनात् । किञ्च,२० यदि सामान्यबुद्धिर्व्यक्तिभिन्नसामान्यनिवन्धना भवेत् तदा व्यक्त्यग्रहणेऽपि भवेत् अश्वबुद्धिवद् गोपिण्डाग्रहणे, न च कदाचित् तथा भवेत् । ततो न व्यक्तिव्यतिरिक्तसामान्यसद्भावः। अथ आधारप्रतिपत्तिमन्तरेण आधेयप्रतिपत्तिर्न भवतीति तनहे एव तहहः नाऽभावात् अन्यथा कुण्डाद्याधारप्रतिपत्तिमन्तरेण बदराधेयस्य अप्रतिपत्तेः तस्याप्यभाव एव स्यात्, न; बदरादेः प्रतिनियता. धारमन्तरेणापि स्वरूपेणोपलब्धेर्नाभावः गोत्वादेस्तु प्रतिनियतपिण्डोपलम्भमन्तरेण स्वरूपेण कदा-२५ चनाऽपि अनुपलब्धेरभाव एव, तेन 'तदग्रहे तद्वद्ध्यभावात् इत्यत्र सामान्याभिव्यञ्जकपिण्डग्रहण एव तदभिव्यङ्ग्यसामान्यबुद्धिसद्भावात्-प्रकाशग्रहण एव गृह्यमाणघटादिसत्त्ववत्-सामान्यस्यापि सत्त्वम्' इति यदुक्तम् तन्निरस्तं भवति घटनिमित्तघटवुद्धिवत् सामान्यनिबन्धनत्वेन तद्बुद्धेरसिद्धेः । किञ्च, सामान्यं निराधारं वा अभ्युपगम्येत, आधारवद् वा ? यदि निराधारम् न सामान्यं स्यात् अनाधारत्वात् शशशृङ्गवत् । आधारवत्त्वेऽपि तस्य तत्र वृत्त्यनुपपत्तिः तथाहि-तस्य एकदेशेन वा ३० तत्र वृत्तिर्भवेत् सर्वात्मना वा ? सर्वात्मना वृत्तौ एकस्मिन्नेव पिण्डे सर्वात्मना परिसमाप्तत्वाद् यावन्तः पिण्डाः तावन्ति सामान्यानि स्युः, न वा सामान्यम् एकपिण्डवृत्तित्वाद रूपादिवत् । एकदेशवृत्तावपिन सामान्यं स्यात् सामान्यस्य निरंशत्वेन एकदेशासंभवात् संभवेऽपि ते ततो भिन्ना वा स्युः, अभिन्ना वा ? यदि भिन्नास्तदा तेषु सामान्यं वर्तते, उत नेति ? यदि वर्तते तदा किं सर्वात्मना, उत एकदेशेन ? यदि सर्वात्मना तावत्सामान्यप्रसक्तिः प्रत्येकमेकदेशे तस्य परिसमाप्तत्वात् , ३५ न वा सामान्यम् प्रदेशवृत्तित्वाद घटवत् । अथ एकदेशेन, एकदेशेषु वृत्तिस्तदा तेऽपि एकदेशा यदि ततो भिन्नास्तदा तेष्वपि अपरैकदेशवशाद् वृत्तिरिति अनवस्थाप्रसक्तिः । अथ अभिन्नास्तदा तेषां सामान्यरूपत्वात् तावन्ति सामान्यानि स्युः । न च सामान्यात्मकानां तेषां करणरूपता युक्ता येन तैः पिण्डेषु सामान्य वर्तेत नहि घटत्वादिसामान्यं गोत्वस्य पिण्डवृत्ती करणत्वेन उपलब्धम् ।
१ अतश्च बृ. आ० । २ पृ. ६८८ पं० १०। ३ पृ. ६८८ पं० १५-१६ । ४ यथा घटादि-भां. मां०। यथा यदि रू-वृ० आ. हा०वि०। ५ वा गडू-वा० बा०।
६ “यद्यनेकानुवृत्ति गोलं तत् किं प्रतिपिण्डं परिसमाप्त्या वर्तते अथैकदेशेनेति?" इत्यादि सामान्यविषयिणी चर्चा न्यायवार्तिकतोऽवबोद्धव्या-२-२-६५ पृ. ३१७-३१९ ।