________________
६८०
तृतीये काण्डेइति पराभ्युपगमप्रदर्शनपूर्वकः तद्विशेषप्रतिषेधप्रदर्शनमार्गः प्रदर्श्यते-तंत्र सामान्यं द्विविधम्-परम् अपरं च । परं सत्ताख्यम् तच्च त्रिषु द्रव्य-गुण-कर्मसु पदार्थेषु अनुवृत्तिप्रत्ययस्यैव कारणत्वात् सामान्यमेव न विशेषः । अपरं तु द्रव्यत्व-गुणत्व-कर्मत्वादिलक्षणम् तच्च स्वाश्रयेषु द्रव्यादिषु
अनुवृत्तिप्रत्ययहेतुत्वात् सामान्यमित्युच्यते, स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तप्रत्ययहेतुतया ५विशेषणात् सामान्यमपि सद् विशेषसंज्ञां लभते । तथाहि-द्रव्यादिषु 'अगुणः' इत्यादिका या इयं व्यावृत्तबुद्धिरुत्पद्यते तां प्रति एषामेव हेतुत्वं नान्यस्य न हि अगुणत्वादिकमपरमस्ति, अपेक्षाभेदाच एकस्य सामान्यविशेषभावो न विरुध्यते यद्वा सामान्यरूपता मुख्यतः विशेषसंशा तु उपचारतः विशेषाणामिव द्रव्यत्वादीनामपि व्यावृत्तबुद्धिनिवन्धनत्वात् । सामान्यस्य चेन्द्रियान्वयव्यतिरेकानुविधाय्यनुगताकारप्रत्ययग्राह्यत्वाद अध्यक्षतः प्रसिद्धिः । तथा, अनुमानाच्च । तथाहि-व्यावृत्तेषु १० खण्ड-मुण्ड-शावलेयादिषु अनुगताकारः प्रत्ययः तद्व्यतिरिक्तानुगताकारनिमित्तनिवन्धनः, व्यावृ. त्तेषु अनुगताकारप्रत्ययत्वात्, यो यो व्यावृत्तेषु अनुगताकारः प्रत्ययः स स तद्व्यतिरिक्तानुगत
यथा चम-चीर-कम्बलेषु नीलप्रत्ययः, तथा चायं शाबलेयादिषु 'गौः' 'गौः' इति प्रत्ययः, तस्मात् तद्व्यतिरिक्तानुगत निमित्तनिवन्धन इति । तथाहि-नेदमनुस्यूताकारज्ञानं पिण्डेषु निर्हेतुकम् , कादाचित्कत्वात् । न शाबलेयादिपिण्डनिवन्धनम् , तेषां व्यावृत्तरूपत्वात् अस्य च अनु. १५ गतरूपत्वात् । यदि चेदं पिण्डमात्रप्रभवं स्यात् तदा शावलेयादिग्विव कर्कादिष्वपि 'गौः' 'गौः'
इति उलेखेन उत्पद्येत पिण्डरूपतायास्तप्वपि अविशेषात । अथ वाह-दोहाद्यर्थक्रियानिबन्धनेष्वेव तेषु 'गौः' 'गौः' इतिप्रत्ययहेतुता, न; तदर्थक्रियाऽभावेऽपि वत्सादौ गोबुद्धिप्रवृत्तेः महिष्यादौ तत्सद्भावेऽपि च अप्रवृत्तेः । किञ्च, अर्थक्रियाया अपि प्रतिव्यक्तिभेदे कुतोऽनुगताकारज्ञानहेतुता?
अभेदे सिद्धमनुगतनिमित्तनिवन्धनत्वमस्य ज्ञानस्य । न चास्य बाधितत्वम्, सर्वदा सर्वत्र सर्वप्रमातॄणां २० शाबलेयादिषु अनुस्यूतप्रत्ययोत्पत्तेः । न च दुटकारणप्रभवत्वम्, विशदनेत्राणामप्यनुस्यूताकारस्य अक्षजप्रत्यये प्रतिभासनात् । न च संशय-विपर्ययाऽनध्यवसायरूपतयाऽस्योत्पत्तिः, तद्वैपरीत्येन अस्य प्रतिभासनात् । न चैवंभूतस्याऽपि प्रत्ययस्य अप्रमाणता स्वलक्षणविषयस्यापि तस्य अप्रमाणताप्रसक्तेः। न च प्रतीयमानस्यापि अनुगतप्रत्ययस्य अपलापः शक्यते कर्तुम् , सर्वप्रत्ययापलापप्रसक्तेः।
तस्माद् अनुगतप्रत्ययनिमित्तत्वात् सामान्यसद्भावः सिद्धः। २५ अत्र प्रतिविधीयते-यत तावदक्तम 'अध्यक्षप्रत्ययादेव सामान्यं प्रतीयते इति तदयुक्तमः
शाबलेयादिव्यतिरेकेण अपरस्य अनुगताकारस्य अक्षजप्रत्यये सामान्यस्य अप्रतिभासनात् । न हि अक्षव्यापारेण शाबलेयादिषु व्यवस्थितं सूत्रकण्ठे गुण इव भिन्नमनुगताकारं सामान्यं केनचिल्लक्ष्यते
१ "तत्रेयं द्विविधा जातिः परैरभ्युपगम्यते । सामान्यमेव सत्ताख्यं समस्तेष्वनुवृत्तितः ॥ द्रव्यत्वादि तु सामान्यं सदुविशेषोऽभिधीयते । खाश्रयेष्वनुवृत्तस्य चेतसो हेतुभावतः ॥ विजातिभ्यश्च सर्वेभ्यः खाश्रयस्य विशेषणात् । व्यावृत्तिबुद्धिहेतुलं तेषामेव ततः स्थितम्" ॥
-तत्त्वसं० का० ७०९-७११ पृ० २३६ । "प्रत्यक्षतः प्रसिद्धास्तु सत्त्व-गोलादिजातयः । अक्षव्यापारसद्भावे सदादिप्रत्ययोदयात् ॥"
-तत्त्वसं. का० ७१४ पृ० २३७ ॥ ३ "अनुमानबलेनापि सत्त्वमासां प्रतीयते । विशेषप्रत्ययो येन निमित्तान्तरभाविकः" ।
-तत्त्वसं० का० ७१५पृ० २३७ । ४ अतः परं भाविविक्तोद्योदकरादिमतमालम्ब्य तत्त्वसंग्रहकारिकाभिः (का० ७१६-८१२ पृ०२३८-२६२) तत्पञ्जिकया च विहितया समग्रया सामान्यपदार्थपरीक्षया नैषा टीका सर्वशः साम्यं बिभर्ति तथापि अन्तराऽन्तरा साम्यं वर्तते तच्च यथास्थानं निर्देक्ष्यते, भावार्थस्तु समानो भाति । सविस्तर विज्ञातुकामैस्तु ताः सर्वा अपि कारिका विलोकनीयाः।
५ कर्मादि-भां० मां०।६ प्र. पृ. पं. ९। ७-तं भूतकण्ठे भां० मा० विना । श्लोकवार्तिकमूलेऽपि अयं 'भूतकण्ठ'-शब्दः प्रयुकः । तद्यथा"भूतकण्ठंगुणादेश्च प्रतिपिण्डं समाप्तितः"।"कण्ठगुणः कण्ठभूषणं हारादि"-श्लो. वा. वनवा० श्लो. ३५ पृ० ६२२।
"भूतकण्ठगुणवत् सक्सूत्रवद् वा"-श्लो० वा. पार्थ० व्या० पृ. ६२१५० २२ । स्याद्वादरत्नाकरे तु सामान्यविचार एव एष शब्दो बहुशः प्रयुको दृश्यते । तद्यथा “भूतकण्ठे गुण इव" इत्यादि
पृ० ९५१५० २०-२१-२२,२४ ॥ "सूत्रकण्ठः खजरीटे द्विजन्मनि कपोतके"-है. अनेका० ४-७०।