________________
ज्ञेयमीमांसा। असौ युक्ता, यत एकरूपं हि सर्वदा वस्तु अक्षणिकमुच्यते न च तस्य आकाशवत् सर्वदाऽविशिष्टत्वात् क्रियासमावेशो युक्तः । तथाहि-यत् सर्वदा अविशिष्टं न तस्य क्रियासंभवः, यथा आकाशस्य, अविशिष्टं च वस्तु अक्षणिकाभिमतं सर्वदा इति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न च अक्षणिकस्य अविशिष्टत्वेऽपि प्रकृत्यैव गन्तरूपत्वात् क्रियावत्त्वं भविष्यतीत्यनैकान्तिकता हेतोराशङ्कनीया, येतो यदि प्रकृत्यैव उत्क्षेपणादिक्रियायोगिनो भावा भवेयुस्तदा नैषां कदाचिन्निश्चलता भवेत् सर्वदा एक-५ रूपत्वात् । अथ अगन्तुरूपताऽप्येषामङ्गीक्रियते तथासति सर्वदा एकरूपत्वाद् आकाशवद् अगन्तारो भवेयः । एवं च गत्यवस्थायामपि अचलत्वमेषां प्रसक्तम् अपरित्यक्ताऽगतिरूपत्वात निश्चलावस्थावत् । अथ उभयरूपत्वाद् एषामयमदोषः, नैवम् ; गन्तृत्वाऽगन्तृत्वविरुद्धधर्माध्यासादेकत्वव्याहतिप्रसक्तेः क्षणिकतैव आपद्येत भिन्नखभावयोरचलाऽनिलयोरिव अत्यन्तभेदात् । अनुमानविरोधवद् अध्यक्षविरोधोऽपि प्रतिज्ञायाः। तथाहि-यद् उपलब्धिलक्षणप्राप्तं सद् नोपलभ्यते न तत् १० प्रेक्षावता 'सत्' इति व्यवहर्तव्यम्, यथा क्वचित् प्रदेशविशेषेऽनुपलभ्यमानो घटः, नोपलभ्यते च विशिष्टरूपादिव्यतिरेकेण कर्मेति खभावानुपलब्धिः । तेथा, तथादेशान्तरावष्टम्भोत्पादिरूपादिव्यतिरेकेण इन्द्रियज्ञाने कर्मणः प्रतिभासानुपलक्षणात् उत्क्षेपणादिबुद्धस्तु साभिजल्पत्वात् अनध्यक्षत्वम् । नचेयं कर्मपदार्थानुभवसामर्थ्यभाविनी, यथासंकेतं तथोत्पद्यमानरूपादिवशेन उत्पत्तेः 'नित्याऽनित्ययोर्गत्ययोगात्' इति प्रतिपादनात्, गतिव्यवहारस्तु लोके अपरापरनैरन्तर्योत्पत्तिमत्पदार्थोपलब्धेः१५ 'स एवायं गच्छति' इति भ्रान्त्युत्पत्तेः प्रदीपादौ गमनव्यवहारवद् उपपद्यत एव न हि प्रदीपादिः स एव देशान्तरमाकामति षट्रक्षणस्थायित्वेन तस्य परैरभ्युपगमात् "स्वकारणसंबन्धकालः प्रथमः ततः स्वसामान्याभिव्यक्तिकालः ततः अवयवकर्मकालः ततः अवयवविभागकालः ततः स्वारम्भकावयवसंयोगविनाशकालः ततः द्रव्यविनाशकालः" [
] इति प्रक्रियोपवर्णनात् । अथ च तत्रापि स एव प्रदीपादिर्गच्छति' इति व्यवहारप्रवृत्तिरिति नान्यथासिद्धाद् व्यवहारमात्राद् द्रव्य-२० व्यतिरिक्तकर्माभ्युपगमः श्रेयानिति स्थितम् ॥
[निरूपणपुरस्सरं सामान्यपदार्थस्य खण्डनम् ] पराऽपरभेदभिन्नं सामान्यमपि द्रव्य-गुण-कर्मात्मकपदार्थत्रयाश्रितत्वाभ्यपगमात तन्निरा. सान्निरस्तमेव आश्रयमन्तरेण आश्रितानां सद्भावेऽनाश्रितत्वप्रसङ्गात् । तथापि परेषां त
१ "यदि गन्त्रादिरूपं तत्प्रकृत्या गमनादयः । सदा स्युः क्षणमप्येवं नावतिष्ठेत निश्चलम् ॥ यस्माद् गत्याद्यसत्त्वेऽपि प्राप्नुवन्त्यस्य ते ध्रुवम् । अत्यतपूर्वरूपत्वाद् गत्याद्युदयकालवत्" ॥
-तत्त्वसं० का० ६९९-७०० पृ० २३३ । २“अथागन्त्रादिरूपं तत्प्रकृत्याऽगमनादयः। सदा स्युः क्षणमप्येकं नैव प्रस्सन्दवद् भवेत् ॥ यस्माद् गत्यादिभावेऽपि निश्चलात्मकमेव तत् । अत्यतपूर्वरूपत्वाद् निश्चलात्मककालवत्" ॥
-तत्त्वसं० का० ७०१-७०२ पृ. २३४ । ३“यदि तु स्यादगन्ताऽयमेकदा चान्यथा पुनः । परस्परविभिन्नात्मसंगतेर्मिनता भवेत् ॥ अत्यन्तभिन्नावात्मानौ ताविति व्यवसीयते । विरुद्धधर्मवृत्तित्वात् चलनिश्चलवस्तुवत्" ॥
-तत्त्वसं० का० ७०३-७०४ पृ० २३४ । ४ "दृश्यवाभिमतं कर्म न वस्तुव्यतिरेकि च । दृश्यते सोऽपि नैवास्य सत्ता युक्त्यनुपातिनी ॥ अस्थिरे वा स्थिरे वैवं गत्यादीनामसंभवः । प्राक्तनाऽपरदेशाभ्यां विभागप्राप्ययोगतः” ॥
-तत्त्वसं० का० ७०५-७०६ पृ० २३४-२३५। ५ तथा देशा-भां• मां० । “न हि रूपादेस्तथादेशान्तरावष्टम्भेनोत्पद्यमानस्य व्यतिरेकेण"-तत्त्वसं० पजि. पृ० २३५ पं०३। ६ "देशान्तरोपलब्धेस्तु नैरन्तर्येण जन्मनः । समानापरवस्तूनां गतिभ्रान्तिः प्रदीपवत्" ॥
-तत्त्वसं० का० ७०७ पृ. २३५ । ७“द्रव्यादिषु निषिद्धेषु जातयोऽपि निराकृताः। पदार्थत्रयवृत्ता हि सर्वास्ताः परिकल्पिताः"॥
-तत्त्वसं० का० ७०८पृ० २३६ ।