________________
तृतीये काण्डे -
गमनमिति कर्माणि " [ वैशेषिकद० १-१-७] इति । तंत्र उत्क्षेपणं यद् ऊर्ध्वाधः प्रदेशाभ्यां संयोगविभागकारणं कर्म उत्पद्यते । यथा - शरीरावयवे तत्संबन्धे वा मूर्तिमति मुशलादौ द्रव्ये ऊर्ध्वभाग्भिः आकाशदेशाद्यैः संयोगकारणम् अधोदिग्भागावच्छिन्नैश्च तैर्विभागकारणं प्रयत्नादिवशात् कर्म तद् उत्क्षेपणमुच्यते, एतद्विपरीतसंयोग-विभागकारणं च कर्म अपक्षेपणम्, ऋजुद्रव्यस्य कुटिलत्वकारणं ५ च कर्म आकुञ्चनम् यथा - ऋजुनोऽङ्गुल्यादिद्रव्यस्य ये अग्रावयवास्तेषामाकाशादिभिः स्वसंयोगिभिर्विभागे सति मूलप्रदेशैश्च संयोगे सति येन कर्मणा अङ्गुल्यादिरवयवी कुटिलः संपद्यते तद् आकुञ्चनम्, एतद्विपर्ययेण तु संयोग-विभागोत्पत्तौ येन अवयवी ऋजुः संपद्यते तत् कर्म प्रसारणम्, अनियत दिग्देशैर्यत् संयोग-विभागकारणं तद् गमनम् । चतुष्प्रकारमपि उत्क्षेपणादिकं कर्म नियतदिग्देशसंयोग-विभागकारणम् । अनियत दिग्भिस्तु भावैः संयोग-विभागकारणं तु कर्म गमनम् तेन १० भ्रमण - स्पन्दन - रेचनादीनामपि गमन एव अन्तर्भावात् पञ्चैव कर्माणि । मूर्तिमन्द्रव्यसंयोग-विभागकार्योपलम्भात् पञ्चविधस्यापि कर्मणोऽनुमानात् प्रसिद्धिः । तथा, अध्यक्षतोऽपि उत्क्षेपणादेः कर्मणः प्रतिपत्तिः इन्द्रिय व्यापारेण 'गच्छति' इत्यादिप्रतिपत्युत्पत्तेः । तथाच - "संख्याः परिमाणानि पृथक्त्वम् संयोग-विभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुपाणि” [ वैशेषिकद० ४-१-११] इति सूत्रमपि उपपन्नम् ।
१५
६८६
अत्र संयोग - विभागलक्षणं तावत् तत्कार्यम सिद्धम् तयोः पूर्वमेव निषेधात् । न च नैरन्तर्योत्पादादिमात्र लक्षणो तत्कार्यतया संयोग विभागौ हेतुत्वेन वाच्यौ, तथाविधेन कर्मणा तयोः क्वचिद् अन्वयासिद्धेः अनैकान्तिकताप्रसक्तेः । साध्यविपर्ययेण च हेतोर्व्याप्तेर्विरुद्धताऽपि वक्तव्या । सिद्धसाध्यता च कारणमात्राऽस्तित्वे साध्ये तथाविधसंयोग-विभागकारणत्वेन वाय्वादेरभीष्टेः । कारणविशेषास्तित्वे च साध्ये अनुमानबाधः प्रतिज्ञायाः । तथाहि पदार्थानां क्रिया भवन्ती क्षणिकानां २० भवेत्, अक्षणिकानां वा ? नं तावत् क्षणिकानाम् उत्पत्तिदेशे एव तेषां ध्वंसाद् देशान्तरप्राप्त्यसंभवात् । तथाहि यो यत्र देशे ध्वंसते स न तदन्यदेशमाक्रामति, यथा प्रदीपादिः, जन्मदेशे एव च ध्वंसन्ते सर्वभावा इति व्यापकविरुद्धोपलब्धिः । न च असिद्धताऽस्य हेतोः अन्यस्य क्षणिकत्वायोगात् । अथ यदि नाम भावानां क्षणिकता इष्यते तथापि उत्पत्तिकाल एव किं नैषां क्रिया भवति ? नैतत् । यतः पाश्चात्यदेशविश्लेषे पुरोवर्तिदेशश्लेषे च सति गन्ता भावो भवति नाकाशादिः । न च एकः २५ क्षणमात्रभाविनः क्रियाकालविलम्बः संभवति येन प्राक्तनदेशपरिहारेण अपरदेशमाक्रामेत् सत्ताकाल एव ध्वंसवशीकृतत्वात् । तन्न जन्मकालभाविनी क्रिया, नाऽपि पूर्वोत्तरयोः कोट्योः, तस्यैव तदानीमभावात् । अतः उत्पत्तिक्षणात् परतः क्षणमपि यो न व्यवतिष्ठेत तस्य आस्तां विदूरतरदेशवक्रमणसंभवः परमाणुमात्र प्रदेश संक्रमणमपि नास्तीति कुतः क्षणिकस्य क्रिया । नाँपि अक्षणिकस्य
१ “तत्रोत्क्षेपणं शरीरावयवेषु तत्संबद्धेषु च यदूर्ध्वभाग्भिः प्रदेशैः संयोगकारणमघोभाग्भिश्च प्रदेशैः विभागकारणं कर्म उत्पद्यते गुरुत्व-प्रयत्न - संयोगेभ्यस्तदुत्क्षेपणम्" इत्यादि - प्रशस्त० कं० पृ० २९१ पं० १० पृ० २९२ ।
२ “तत्संबद्धे वा”—–तत्त्वसं० प० पृ० २३१ पं० १५ ।
३ “रूपिद्रव्यसमवायाच्चा” — वैशेषिकद० ४-१-११ ।
४ पृ० ६७९ पं० १०
५ " क्षणक्षयिषु भावेषु कर्मोत्क्षेपाय संभवि । जातदेशे च्युतेरेव तदन्यप्राप्त्यसंभवात् ॥ जन्मातिरिक्तकालं हि क्रियाकालं परे जगुः । इष्टाशुतरनाशेषु दीपादिष्वपि वस्तुषु ॥ तथाहि कारण श्लेषः सामान्यस्याभिव्यञ्जनम् । खावयवे ततः कर्म विभागस्तदनन्तरम् ॥ संयोगस्य विनाशश्च ततो द्रव्यस्य संक्षयः । षट्क्षणस्थायितैवेष्टा दीपादावपि वस्तुनि ॥ पश्चिमाग्रिमदेशाभ्यां विश्लेषाऽऽश्लेषसंभवे । गन्ताऽपरो वा सर्वश्व कर्माधारः प्रकल्पितः ॥ यो जनः क्षणमध्यास्ते नैव जातु चलात्मकः । तस्याण्वन्तरमात्रेऽपि देश संक्रान्त्यसंभवः” ॥ - तत्त्वसं० का० ६९२-६९७ पृ० २३१-२३२-२३३ । ६- शाचंक्रम - वा० बा० आ० । “अतो यः क्षणमपि नास्ते तस्यास्तां तावद् विदूरतर देशान्तरावक्रमण (णा)संभवः " - तत्त्वसं० पञ्जि० पृ० २३३ पं० ११।
७ " स्थैर्ये तु वस्तुनः सर्वे दुर्घटा गमनादयः । सुतरामेव सर्वासु दशाखस्याविशेषतः " ॥ - तत्त्वसं ० का ० ६९८ पृ० २३३ ॥