________________
ज्ञेयमीमांसा । तदभावे तस्या अपि अभावात् । तथाहि-ये यदाश्रितास्ते तस्याऽभावे अवस्थितिं न प्रतिलभन्ते, यथा कुड्याभावे चित्रादयः, आश्रिताश्च परेण आत्मनि संस्कारादयोऽभ्युपगम्यन्ते इति व्यापकविरुद्धोपलब्धिः। स्थितंस्थापकस्तु संस्कारः अत्यन्तमसंगत एव । तथाहि-असौ किं खयमस्थिरस्वभावं भावं स्थापयति, उत स्थिरस्वभावमिति पक्षद्वयम् । यदि अस्थिरस्वभावम् तदा क्षणादूर्ध्वं तस्य स्वयमेव अभावात् कस्य असौ स्थापकः स्यात् ? अथ द्वितीयः पक्षः तदा स्थिरे स्वभावेऽवस्थितानां भावानां ५ ताद्रुप्यादेव अवस्थानात् किमकिञ्चित्करस्थापकप्रकल्पनया? न च क्षणिकत्वेऽपि भावानामेकक्षणावस्थितानु(बु)त्तरकालं स्थापकस्य सामर्थ्यमङ्गीक्रियते यतः स्वरूपप्रतिलम्भलक्षणैव भावानां स्थितिरुच्यते न पुनर्लब्धात्मसत्ताकानाम् आत्मरूपसंधारणलक्षणोत्तरकालं स्वयं चलात्मन उत्तरकालमवस्थानासंभवात् संभवे वा न कदाचिदपि निवृत्तिः स्यात् पूर्ववत पश्चादपि अविशिष्टत्वात् अतः त्स्वभावत्वप्रसङ्गाच्च । न च क्षणस्थितिप्रवन्धेऽपि स्थापकस्य सामर्थ्य सिद्धिः, पूर्वपूर्वकारणसामर्थ्य-१० कृतस्य उत्तरोत्तरकार्यप्रसवस्य संस्कारमन्तरेणापि सिद्धः, अक्षणिकस्य तु अन्यथात्वासंभवात् स्वत एव स्थितिरिति न तत्रापि स्थापकोपयोगः । न च संस्कारस्य क्षणोत्पादनेऽपि सामर्थ्यम् प्राक्तनक्षणमन्तरेण अपरस्य तत्राऽपि सामर्थ्यानवधारणात् । तथाहि-प्रमाणाधीना प्रमेयव्यवस्था । न च प्रसिद्धकारणव्यतिरेकेण वस्त्रादिषु प्रत्यक्षाऽनुपलम्भाभ्यां चक्षुरादिवद वा कार्यव्यतिरेकतोऽपरस्य सामर्थ्यावधारणम् । न च अदृष्टसामर्थ्यस्यापि हेतुत्वकल्पना अतिप्रसङ्गात् तदपरापरहेतुप्रकल्पनाया १५ अनिवृत्तेः । न च संस्कार उत्पादकहेतुरिष्टः परैः किन्तु उत्पन्नस्य वस्त्रादेरुत्तरकालं स्थापको गुणः, तत्र च अस्य अकिञ्चित्करत्वमेवेति प्राग व्यवस्थापितम्।
"कर्तृफलदायी आत्मगुण आत्म-मनःसंयोगजः स्वकार्यविरोधी धर्माऽधर्मरूपतया भेदवान् अदृष्टाख्यो गुणः” [
] इति वैशेषिकैः परोक्षाऽदृष्टस्वरूपमुपवर्णितम् । कर्तुः प्रियहित-मोक्षहेतुर्धर्मः अधर्मस्तु अप्रिय-प्रत्यवायहेतुः" [प्रशस्तपा० भा० पृ० २७२ पं० ८ तथा २० पृ० २८० पं० ४] इति, एतच्च तत्समवायिकारणस्य आत्मनो मनसः आत्म-मनःसंयोगस्य च निमित्ताऽसमवायिकारणत्वेन अभ्युपगतस्य निषेधात् कारणाभावे कार्यस्यापि अभावात् सर्वमनुपपन्नम् ।
शब्दस्तु आकाशगुणत्वेन अभिमतः तस्य च आकाशगुणत्वं प्रार निषिद्धमिति न चतुर्विंशतिरपि गुणाः प्रमाणोपपत्तिकाः॥
[निरूपणपुरस्सरं कर्मपदार्थस्य खण्डनम् ] उत्क्षेपणादीनि पञ्च कर्माणि । तथा च सूत्रम्-"उत्क्षेपणम् अपक्षेपणम् आकुञ्चनम् प्रसारणम्
१ “स्थितस्थापकरूपस्तु न युक्तः क्षणभङ्गतः। स्थितार्थासंभवाद् भावे ताद्रूप्यादेव संस्थितिः" ॥
-तत्त्वसं० का० ६८७ पृ० २२९ । २-तानामुत्तरका-आ० हा० वि० । “अथापि स्यात् क्षणिकलेऽपि सर्वभावानामेकक्षणावस्थितौ प्रबन्धेन चानुवृत्तौ तस्य सामर्थ्यमुच्यत इति"-तत्त्वसं० पजि० पृ. २३० पं० १।
३"क्षणं खेकमवस्थानं खहेतोरेव जातितः। पूर्वपूर्वप्रभावाच प्रबन्धेनानुवर्तनम्"।-तत्त्वसं० का०६८८पृ०२३०। ४ "नान्यथोदयवानेष कस्यासौ स्थापकस्ततः । न चास्य दृष्टं हेतुलं संस्कारोऽन्योऽपि वा भवेत् ॥
उत्पन्नस्यैव चेष्टोऽयं वस्त्रादेः स्थापको गुणः । गुणसंस्कारनामैवं सर्वथापि न संभवी"।-तत्त्वसं० का० ६८९-६९० पृ. २३० ।
५“अथ अदृष्टसामर्थ्यस्यापि हेतुवं कल्प्यते तदा संस्कारः अन्योऽपि वा शुक-बकादिरुत्पत्तेर्हेतुर्भवेत्" इत्यादि-- तत्त्वसं० पञ्जि.पृ. २३. पं० २० ।
६"कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः खकार्यविरोध्यदृष्टम् । तच्च द्विविधं धर्माऽधर्मभेदात् । तत्र धर्मः कर्तुः प्रियहितमोक्षहेतुः अधर्मस्वप्रियाहितप्रत्यवायहेतुरिति परोक्कादृष्टलक्षणम्"-तत्त्वसं० पजि. पृ० २३१ पं०५-1
७ “मनोयोगात्मनां पूर्व विस्तरेण निबन्धनात् । परोक्कलक्षणोपेतं नादृष्टमुपपद्यते" ॥-तत्त्वसं. का० ६.१ पृ० २३१।
८पृ० १३६ पं० १३। ९ “उत्क्षेपणमपक्षेपणमाकुच्चनं प्रसारणं गमनमिति कर्माणीति सूत्रम्" इत्यादितत्त्वसं० पजि. पृ०२३१ पं० १४ ।