________________
तृतीये काण्डेपतनक्रियानिबन्धनम्, द्रवत्वं तु पृथिव्युदक-ज्वलनवृत्ति स्प(स्य)न्दनहेतुः पृथिव्यनलयोनैमित्तिकम् अपां सांसिद्धिकम् , स्नेहस्तु अम्भसि एव स्निग्धप्रत्ययहेतुः' इत्यादिप्रक्रिया पृथिव्यादीनामाधारत्वनिषेधात् तद्गतरूपादिनिषेधाच्च निषिद्धैव, तन्न्यायस्य अत्रापि समानत्वात्।।
संस्कारस्तु त्रिविधः-वेगः भावना स्थितस्थापकश्चेति-अभ्युपगतः। तत्र वेगाख्यः पृथिव्यप्५ तेजो-वायु-मनस्सु मूर्तिमद्रव्येषु प्रयत्नाभिघातविशेषापेक्षात् कर्मणः समुत्पद्यते नियतदिक्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविरोधी च, तत्र शरीरादिप्रयत्नविशेषाविर्भूतकर्मविशेषनिमित्तःयद्धशाद् इषोः अन्तराले अपातः स च नियतदिक्रियाकार्यसंबन्धोन्नीयमानसद्भावः लोष्टाद्यभिघातोत्पन्नकर्मोत्पाद्यस्तु शाखादी वेगाख्यः संस्कारः। भावनासंज्ञः पुनः आत्मगुणः शानजः ज्ञानहेतुश्च दृष्टाऽनुभूतश्रुतेष्वर्थेषु स्मृति-प्रत्यभिज्ञानकार्योन्नीयमानसद्भावः । मूर्तिमद्रव्यगुणः स्थित१० स्थापको घनावयवसंनिवेशविशिष्टं स्वमाश्रयं कालान्तरस्थायिनमन्यथा व्यवस्थितमपि प्रयत्नतः
पूर्ववद् यथावस्थितं स्थापयतीति कृत्वा, दृश्यते च तालपत्रादेः प्रभूततरकालसंवेष्टितस्य प्रसार्यमुक्तस्य पुनस्तथैव अवस्थानं संस्कारवशात् एवं धनुः-शाखा-शृङ्ग-दन्तादिषु भुग्नापवर्तितेषु च वस्त्रादिषु तस्य कार्य परिस्फुटमुपलभ्यत एवेति ततस्तत्सद्भावः सिद्धः । असदेतत् , क्षण
भङ्गसिद्धौ वेगाख्यसंस्कारकार्यस्य कर्मप्रवन्धस्य असिद्धेः । न हि उत्पत्त्यनन्तरं भावानां नाशे नियत१५दिक्रियाप्रबन्धस्य तद्धेतोश्च संस्कारस्य उत्पत्तिः । न च खोपादानदेशाऽनन्तरदेशोत्पाद एव
भावानां क्रियाप्रबन्धः, हेतोरनैकान्तिकत्वप्रसक्तः । तथाहि-ततःप्राक्तनस्वहेतव एव सिद्धिमासादयन्ति न यथोक्तः संस्कारः तेन सह क्वचिदपि अन्वयासिद्धेः । यदि च तथाविधसंस्कारवशाद् इष्वादीनामपातस्तदा च न कदाचिदपि पातः स्यात् पातप्रतिबन्धकस्य वेगस्य सर्वदा अवस्थानात् ।
एवं च आकाशप्रसर्पिणः शरस्य अकस्मात् पातोपलब्धिर्न स्याद् भवदभ्युपगमेन । न च मूर्तिमद्वा२० य्वादिसंयोगाद्युपहतशक्तित्वाद् वेगस्य पतनम् प्रथममेव पातप्रसक्तेः वाय्वादिसंयोगस्य तद्विरोधिनस्तदैव सद्भावात् । न च प्राग वेगस्य बलीयस्त्वाद् विरोधिनमपि मूर्तद्रव्यसंयोगमपास्य स्वाधारं देशान्तरं प्रापयति, पश्चादपि तस्य बलीयस्त्वात् तथैव तत्प्रापकत्वप्रसक्तेः । न हि वेगस्य पश्चाद् अन्यथात्वम् अन्यथोत्पत्तिकारणाभावात् तत्समवायिकारणस्य इष्वादेः सर्वत्र अविशिष्टत्वात् । न च कर्माख्यं कारणं पश्चाद् विशिष्यत इति वक्तव्यम् तस्यापि तुल्यपर्यनुयोगत्वात्, अन्यत्वेऽपि च २५प्रतिक्षणं कर्मणः वेगस्य प्राक्तनस्यैव अवस्थानाद विनाशकारणाभावात् शरस्य अपात एव स्यात् । न
च वायुसंयोगस्तस्य विनाशकारणम् प्रथममेव तत्संयोगाद् वेगविनाशाद् इषोः पातप्रसङ्गात् सर्वत्र वायोरविशेषेण तत्संयोगस्यापि अविशेषात् । न च प्रभूताकाशदेशसंयोगोत्पादनात् संस्कारप्रक्षयाद् इषोः पातः, संस्कारस्यैकस्वभावत्वेन अवस्थितस्य प्रागिव पश्चादपि प्रक्षयानुपपत्तेः । न च
आकाशदेशाः परेणाऽभ्युपगम्यन्ते येन तत्संयोगानां भूयस्त्वं संस्कारक्षयहेतुत्वं वा युक्तियुक्तं ३०भवेत् । कल्पनाशिल्पिघटितानां तु आकाशदेशानां संयोगभेदकत्वमनुपपन्नम् तदायत्तभेदानां च संयोगानां संस्कारक्षयहेतुत्वं दूरोत्सारितमेव इषोस्तु पातोऽन्यथासिद्ध इत्यलमतिप्रपञ्चेन।
स्मृत्यादिकार्यात् तु सामान्येन यदि भावनामात्रं साध्यते तदा सिद्धसाध्यता पूर्वानुभवाऽऽहितसामर्थ्यलक्षणाया ज्ञानस्यात्मभूतायास्तस्याः स्मृतिहेतुत्वेन अस्माभिरपि अभ्युपगमात् । अथ
आत्मगुणस्वरूपा भावना साधयितुमभिप्रेता तदा तया तथाभूतया स्मृत्यादेः क्वचिदपि अन्वयासिद्धे३५ रनैकान्तिकता हेतोः, प्रतिज्ञायाश्च अनुमानबाधितत्वम् तदाधारस्य आत्मनः पूर्वमेव निराकृतत्वात्
१ "वेगाख्यो भावनासंज्ञः स्थितस्थापकलक्षणः । संस्कारनिविधः प्रोक्तः"-तत्त्वसं. का. ६८४ पृ० २२७ ।
"त्रिविधः संस्कारो वेगो भावना स्थितस्थापकश्चेति"-तत्त्वसं० पजि. पृ० २२८ पं०३ । “संस्कारनिविधो वेगो भावना" स्थितिस्थापकश्च "स्थितस्थापकः-पा० पु.।"-प्रशस्त० के० पृ० २६६ पं० २३-1 २"नासौ संगच्छतेऽखिलः॥ क्षणिकखात् पदार्थानां न काचिद् विद्यते क्रिया। यत्प्रबन्धस्य हेतुः स्यात् संस्कारो वेगसंज्ञकः" ॥
-तत्त्वसं० का० ६८४-६८५ पृ० २२७-२२८ । ३ "भावनाख्यस्तु संस्कारश्चेतसो वासनात्मकः । युक्तो नारमगुणश्चेदं युज्यते तन्निराकृतेः" ॥-तत्त्वसं० का० ६८६ पृ० २२९ ।