________________
क्षेयमीमांसा।
६८३ ये चै बुद्ध्यादयः प्रयत्नान्ता आत्मसमवेतत्वेन तहुणा अभ्युपगताः ते तथाभूतात्मनिषेधादेव प्रतिषिद्धाः । तथाहि-आत्मा एषामुत्पत्तिकारणत्वेन वा आश्रयोऽभ्युपगम्येत, स्थितिनि वा ? न तावद् आद्यः पक्षः, अविकलकारणतया वुद्ध्यादेः सर्वदैव सर्वस्योत्पत्तिप्रसक्तः अनाधेयातिशयस्य सहकार्यपेक्षाऽयोगात् । न च क्रम-योगपद्यव्याप्तकार्योत्पादनसामर्थ्यस्य नित्ये संभवः तत्र क्रम-योगपद्याभ्यामर्थक्रियाविरोधस्य प्रतिपादितत्वात् । न च द्वितीयोऽपि पक्षो युक्तः, स्थितेः५ स्थातुरव्यतिरेकात् तस्य तद्धेतुत्वे तहेतुत्वमेव स्यात् तच्च प्राक्तनन्यायेन असंगतम् । न च परिनिष्ठितात्मरूपत्वात् स्थातुः कश्चिद्धेतुः संभवी, तत्र तस्य अकिञ्चित्करत्वात् । व्यतिरेकेऽपि स्थितेः स्थातुर्न तेन किञ्चित् कृतं स्यात् स्थितेरर्थान्तरभूतायाः करणात् । एवं च अकिञ्चित्करः कथमाश्रयो बुद्ध्यादेरसौ भवेत् ? न च स्थितेस्तत्संबन्धितया करणात् तस्याऽसावुपकारकत्वाद् आश्रयः तस्यास्तत्संबन्धित्वासिद्धेः भिन्नायास्तदुपकागभावे संवन्धायोगात् तत उपकारकल्पनायामनवस्थाप्रसक्तेः१० समवायसंवन्धस्य च असिद्धेः । न च तस्य स्थितिं प्रति हेतुत्वमपि युक्तम् नित्यस्य क्वचिदपि सामर्थ्यायोगात् । किञ्च, स्थाप्यमानो वुढ्यादिः स्थितिस्वभावो वा नेन स्थाप्येत, अस्थितिस्वभावो वा? यदि अस्थितिस्वभावः नासो केनचित् स्थापयितुं शक्यः तत्स्वभावाव्यतिक्रमात् । अथ स्थितिस्वभावः तदा तत्स्वभावस्य स्वयमेव तत्स्वभावतया तस्य स्थितिसिद्धः किमकिश्चित्करस्थापक कल्पनया? अथ स्थातुः पाताभावं कुर्वन् म्थापकः न अकिञ्चित्करः, न; पाताभावस्व प्रसज्यप्रतिषेध-१५ रूपत्वे कारकव्यापाराविषयत्वान्, पर्युदासम्पन्वेऽपि किमसी पात एव, उत पाताद् अन्यत् पदार्थान्तरम् ? यदि पात एव तदा 'स्थापकः स्थातुः पानं करोति' इति प्राप्तम् तथा च कथमसौ स्थापको भवेत् ? अथ पदार्थान्तरं पाताद अन्यद अमा करोतिः नन्वेवं पदार्थान्तरकरणेऽपि स्थाता पतेदेव पदार्थान्तरोत्पादेऽपि तस्य त्राणासंभवात् । न च पदार्थान्तरेण स्थापकोत्पादितेन स्थातुः पातप्रतिबन्धः क्रियत इति वक्तव्यम, तम्याऽपि पातादनन्यत्वे पात एव कृतः स्यात्, अन्यत्वे तेन २० तत्संबन्धासिद्धेस्तत्करणेऽपि स्थातुस्तदवस्थ एव पातो भवेतः तेनापि अपरपातप्रतिवन्धकरणे तद्धिभाऽभिन्नविकल्पद्वयानतिवृत्तिद्वारेण अनवस्थादिप्रसक्तिः । नन्न कश्चित् कस्यचित् स्थापकः । किञ्च, भवेन्नाम बदरादेर्मूर्तद्रव्यस्य अधोगमनप्रतिवन्धकत्वेन कुण्डादिगश्रयः । वुझ्यादेस्तु अमूर्तस्य अधोगत्यभावात् किं कुर्वाण आत्मादिगश्रयो भवेत् ? अपि च, नोत्पन्नानां वुढ्यादीनां कश्चिद् आश्रयः, संतां निराशंसतया आश्रितत्यानुपपत्तः । नापि अनुत्पन्नानाम् निरुपाख्यतया तेषां तत्त्वा-२५ योगात् । किञ्च, "बुद्धिः उपलब्धिः शानम् इति अनर्थान्तरम्" [ न्यायद० १-१-१५] इति वचनाद् बुद्धानरूपता परैरभ्युपगता । न च तम्याः स्वसंविदितत्वमभ्युपगतम् वुढ्यन्तरग्राह्यतयाऽभ्युपगमात् । न च तथाभूनायास्तस्या रूपादिवद् बुद्धित्वं युक्तमिति प्राक् प्रतिपादितम् । सुख-दुःखेच्छा-द्वेषादीनां च अज्ञानरूपत्वे रूपादिवन्नात्मविशेषगुणता अभ्युपगन्तुं युक्ता । ज्ञानरूपत्वे बुद्धे देन अभिधानमसंगतमेव, कश्चिद् विशपमुपादाय शानात्मकानामपि ततो भेदेन अभिधाने ३० अभिमानादीनामपि मेदेन अभिधानं कार्यमित्यलमतिजल्पितेन ।
गुरुत्व-द्रवत्व-स्नेहानां तु रूपादिवद् गुणरूपता प्रतिपेध्या । 'गुरुत्वं हि पृथिव्युदकवृत्ति
१"बुद्धयादयस्तु प्रयत्नान्ता आत्माधितखेन तद्गणा इटाः। ते चात्मनिषेधादेव निषिद्धा द्रष्टव्याः। न चैषामात्माऽऽश्रयो युक्तः । तथाहि-उत्पत्तिहेतुतया चामीषामात्माऽऽश्रयो भवेत् स्थितिहेतुनया वा! न तावदुत्पत्तिहेतुतया सर्व. देवाविकलकारणतया सुखादीनामुत्पत्तिप्रमहात्" इत्यादि । “नापि स्थितिहेतुनया युक्तः स्थितेः स्थातुरव्यतिरिच्यमानरूपलात्" इत्यादि-तत्त्वसं० पजि. पृ. २२७ पं०१
२"सदसतोश्च निराशंसत(या)नुपाख्यखेन चाश्रयणानुपपत्तिरिति"-तत्त्वसं० पजि० पृ. २२७ पं० १८। ३ “यथोक्तम्-बुद्धिरुपलब्धिनिमित्यनथीन्तरमिति"-तत्त्वसं० पजि.पृ. २२७ पं० २० । "बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः"-प्रशस्त. कं० पृ. १७१ पं० १६ । ४ "गुरुख-द्रवल-स्नेहानां तु रूपादिवत् प्रतिषेधो विधेयः"-तत्त्वसं० पजि. पृ. २२७ पं० २५।
५ "गुरुलं जल-भूम्योः पतनकर्मकारणम् । x x x द्रवलं स्यन्दनकर्मकारणम् विद्रव्यवृत्ति । तत् तु द्विविधम् सांसिद्धिकम् नैमित्तिकं च । सांसिद्धिकमपां विशेषगुणः नैमित्तिकं पृथिवी-तेजसोः सामान्यगुणः । xxx बेहोऽपां विशेषगुणः संग्रह-मृजादिहेतुः"-प्रशस्त. क. पृ. २६३ पं० २५-पृ. २६६ ।
८८ स.प्र.