________________
६८२
तृतीये काण्डे
नीलादिकेषु एकार्थसमवायाद् उपचरितोऽयं परापरत्वादिप्रत्ययः इति अनैकान्तिकता भवत्प्रयुक्तस्यापि हेतोः पारंपर्येण च नीलादिष्वपि परत्वादेनिमित्तभावोपगमात् साध्यविकलता च दृष्टान्तस्येति वक्तव्यम् , अस्खलढत्तित्वेन अस्य उपचरितत्वाभावात् स्वाश्रयेऽपि च तयोरुपलब्ध्यभावाद् न तद्बलेन प्रत्ययो युक्त इति कुतो रूपादिषु तन्निवन्धनो भविष्यति ? सुखादिषु वा पूर्वोत्तरकालभाविषु ५ किंनिबन्धनोऽयं भवेत् ? न चैवं तत्रैकार्थसमवायादेस्तन्निबन्धनस्याभावात् । किञ्च, दिक्-कालयोः पूर्वमेव प्रतिषिद्धत्वात् तद्धेतुकयोः परत्वाऽपरत्वयोरभाव इति कुतस्तन्निमित्तत्वाशङ्का येन हेतोरनैकान्तिकता स्यात् ? न च परमार्थतो दिक्-कालयोः प्रदेशाः सन्ति यतस्तत्संयोगादपेक्षाबुद्धिसहिताद् उत्पत्तिस्तयोर्भवेत् । दिक्-कालयोरेकात्मकत्वेन निरवयवत्वाद् न चार्थक्रियानिबन्धन
उपचरितोऽवयवभेदो युक्तः अर्थक्रियाया वस्तुखभावप्रतिबद्धत्वात् उपचारस्य च अपारमार्थिकत्वात्। १० तत् कुतः अनैकान्तिकता प्रकृतहेतोः? असिद्धता च परोपन्यस्तहेतोः पूर्ववद् वाच्या।
'ने संख्यादयो गुणा द्रव्याद् अव्यतिरेकिणः, तेषां तद्व्यवच्छेदहेतुत्वात् , यो हि यद्यवच्छेदकः नासौ तव्यतिरेकी देवदत्तव्यवच्छेदकदण्डादिवत्, तथा च संख्यादयो द्रव्यव्यवच्छेदकाः, तस्माद् न तदव्यतिरेकिणः' इत्यत्र प्रयोगे यदि द्रव्याद् अव्यतिरेकत्वनिषेधमात्रं साध्यं तदा सिद्धसाध्यता
सर्वसंवृतिमतामवस्तुतया तत्त्वाऽन्यत्ववाच्यत्वेन अनिष्टेः । अर्थ 'समूह-संतानादयः तत्त्वाऽन्यत्वा१५भ्यामवचनीया न भवन्ति, प्रतिनियतधर्मयोगित्वात् , रूपादिवत्' अत्रापि यदि पारमार्थिकनियत
धर्मत्वं हेतुत्वेनेष्टं तदा असिद्धो हेतुः, न हि संतानादीनां पारमार्थिकनियतधर्मयोगित्वं सौगतं प्रति सिद्धम् । अथ सामान्येन हेतुः तदा शशशृङ्गादावपि कल्पितनियतधर्मयोगित्वस्य अभावत्वाऽमूर्तत्वादेः सद्भावाद् अनैकान्तिकः । अथ न द्रव्यादव्यतिरेकप्रतिषेधमात्रं साध्यम् किं तर्हि ? ,व्या(व्याद्) व्यतिरेकित्वम् प्रतिषेधद्वयेन प्रकृतार्थगतेः, असदेतत्; संख्यादेव्याद् व्यतिरेकेण अनुपलम्भाद् २० अभावतो हेतोराश्रयासिद्धत्वप्रसक्तेः । न च द्रव्यात्मकत्वेन प्रतीयमानस्यापि संख्यादेर्भेदः
साधयितुं शक्यः तदात्मनस्ततो भेदे तस्य निःस्वभावताप्रसक्तेः । तन्न संख्यादयः परत्वाऽपरत्वपर्यन्ता द्रव्याद् व्यतिरेकिणः कुतश्चित् प्रमाणादवसीयन्ते इति न तथा ते सद्व्यवहारविषयाः।
१-भाविषु तन्निबन्धनोऽयं भवेत् तत्रैकार्थसमवायादेस्तन्निबन्धनस्याभावात् वा० बा० । "सुखादिषु वा पूर्वोत्तरकालभाविषु किं कल्प्येत, न हि तत्रैकार्थसमवायोऽस्ति"-तत्त्वसं० पजि. पृ. २२५ पं०७॥ २ “सङ्ख्यायोगादयः सर्वे न द्रव्याव्यतिरेकिणः । तस्यवच्छेदकलेन दण्डादिरिव चेन्मतम् ॥
तेषां संवृतिसत्त्वेन वर्णनादिष्टसाधनम् । तत्त्वान्यखेन निर्वाच्यं नैव संवृतिसद् यतः"॥-तत्त्वसं. का. ६७७-६७८ पृ० २२५।
३ द्रव्या व्यति-वा. बा. भां० मां० । “तदत्र द्रव्यादव्यतिरेकित्खनिषेधमात्रे साध्ये सिद्धसाध्यता दोषः प्रतिज्ञायाः"-तत्त्वसं० पञ्जि. पृ० २२५५० २१ ।
४ “अथेत्यादिनानाविद्धकर्णस्योत्तरमाशङ्कतेअथानिर्वचनीयवं समूहादेनिषिध्यते । यस्मानियतधर्मलं रूप-शब्द-रसादिवत्"॥-तत्त्वसं. का०६७९ पृ०२२५। ५ "निःस्वभावतया तस्य तत्त्वतोऽम्बरपद्मवत् । न सिद्धा नियता धर्माः कल्पनारोपितास्तु ते ॥
तथैवोक्तावनेकान्तो वियत्पद्मादिभिर्यतः । अमेदो व्यतिरेकश्च वस्तुन्येव व्यवस्थितः"॥-तत्त्वसं. का० ६८०-६८१ पृ० २२६ ।
६ "संख्यादेव्यतोऽन्यखमेवं चेत् प्रतिपाद्यते । आश्रयासिद्धता हेतोः संख्यादीनामसिद्धितः ॥
समुच्चयादिभिन्नं तु द्रव्यमेव तथोच्यते । खरूपादेव भेदश्च व्याहतः साधितो भवेत्" ॥-तत्त्वसं० का० ६८२-६८३ पृ० २२६।
___“किं तर्हि द्वौ प्रतिषेधौ विधिमेव गमयत इति प्रतिषेधद्वयेन द्रव्याद् व्यतिरेकित्वमेव साध्यत इति"-तत्त्वसं० पजि० पृ. २२६ पं० १७ ॥
• "एवं तावत् परत्वान्ता गुणाः प्रतिषिद्धाः"-तत्त्वसं० पनि पृ० २२६ पं० २७ ।