________________
ज्ञेयमीमांसा ।
६८१ एव । तथाहि-यो संयुक्ताकारा बुद्धिः सा भवत्परिकल्पितसंयोगानास्पदवस्तुविशेषमात्रप्रभवा, 'संयुक्तौ प्रासादौ' इति बुद्धिवत् , संयुक्ताकारा च 'चैत्रः कुण्डली' इत्यादिवुद्धिः इति स्वभावहेतुः । यद्वा-या अनेकवस्तुसन्निपाते सति समुत्पद्यते सा भवत्परिकल्पितसंयोगविकलानेकवस्तुविशेषमात्रभाविनी, यथा विरलावस्थितानेकतन्तुविषया वुद्धिः, तथा च विमत्यधिकरणभावापन्ना संयुक्तबुद्धिः इति स्वभावहेतुः। एतदेव प्रयोगद्वयं विभागप्रतिषेधेऽपि वाच्यम् । तथाहि-मेषादिषु विभक्त-५ बुद्धिः विभागरहितपदार्थविषयमात्रनिबन्धना, विभक्तबुद्धित्वात् अनेकपदार्थाऽसन्निधानायत्तोदयत्वाद् वा, देवदत्तयज्ञदत्तगृहविभागबुद्धिवत् हिमवत्-विन्ध्यविभागबुद्धिवद्वा । साध्यविपर्यये हेतोर्बाधकं प्रमाणम्-एकस्यानेकवृत्त्यनुपपत्तिः इति ज संयोग-विभागगुणद्वयसद्भावः। ___'इदं परम्' 'इदमपरम्' इति यतोऽभिधानप्रत्ययौ भवतः तद् यथाक्रमं परत्वम् अपरत्वं च सिद्धम् । प्रयोगश्चात्र-योऽयं 'परम्' 'अपरम्' इति च प्रत्ययः स घटादिव्यतिरिक्तार्थान्तरनिबन्धनः, १० तत्प्रत्ययविलक्षणत्वात् , सुखादिप्रत्ययवत् । तथाहि-एकस्यां दिशि स्थितयोः ‘परम्' 'अपरम्' इति च प्रत्ययोत्पत्तेन तावदयं दिग्निबन्धनः, एकस्मिन्नपि वर्तमानकाले वर्तमानयोर्युव-स्थविरयोरनियतदिग्देशसंयुक्तयोः 'परम्' 'अपरम्' इति च प्रत्ययोत्पत्ते प्ययं कालनिबन्धनः तदविशेषेऽपि प्रत्ययविशेषात् । न चान्यद् अस्य निबन्धनमभिधातुं शक्यम् तस्माद् यन्निबन्धनोऽयं प्रत्ययः तत् परत्वम् अपरत्वं चाभ्युपगन्तव्यम् । एतच्च द्वितयमपि दिकृतम् कालकृतं च । दिकृतस्य तावदि-१५ यमुत्पत्तिः-एकस्यां दिश्यवस्थितयोः पिण्डयोरेकस्य द्रष्टुः संनिकृष्टमवधिं कृत्वा एतस्माद् विप्रकृष्टोऽयम्' इति परत्वाधारे बुद्धिरुत्पद्यते ततस्तामपेक्ष्य परेण दिक्प्रदेशेन योगात् परत्वमुत्पद्यते; विप्रकृष्टं वाऽवधिं कृत्वा एतस्मात् संनिकृष्टोऽयम्' इत्यपरत्वाधारे बुद्धिरुत्पद्यते तामपेक्षा(क्ष्या परेण दिक्प्रदेशेन योगाद् अपरत्वस्य उत्पत्तिः। कालकृतयोस्तु अयमुत्पत्तिक्रमः । तथाहि-वर्तमानकालयोः अनियतदिग्देशसंयुक्तयोर्युव-स्थविरयोर्मध्ये यस्य वली-पलित-रूढश्मश्रुतादिना अनुमितमादित्यो-२० दयानां भूयस्त्वम् तत्रैकस्य द्रष्टुर्युवानमवधिं कृत्वा स्थविरे विप्रकृष्टबुद्धिरुत्पद्यते तामपेक्ष्य परेण कालप्रदेशेन योगात् परत्वस्योत्पत्तिः, स्थविरं चावधिं कृत्वा यस्य अरूढश्मश्रुतादिना अनुमितमादित्योदयाऽस्तमयानामल्पत्वम् तत्र यूनि संनिकृष्टबुद्धिरुत्पद्यते तामपेक्ष्य अपरेण कालप्रदेशेन योगात् अपरत्वस्योत्पत्तिरिति । . अत्र च परत्वसाधनमनैकान्तिकम् साध्यविपक्षेऽपि हेतोवृत्तेः । तथाहि-यथा क्रमेण उत्पादाद २५ नीलादिषु कालोपाधिः क्रमेण च व्यवस्थानाद् दिगुपाधिश्च 'परं नीलम् अपरं च' इति प्रत्ययोत्पत्तिः असत्यपि परत्वापरत्वलक्षणे गुणे-गुणानां निर्गुणत्वात्-तथा पटादिष्वपि भविष्यतीति यद्यर्थान्तरनिमित्तत्वमात्रं परेण इह साधयितुमिष्टं तदा कथं न अनैकान्तिकता हेतोः ? अथ नित्यदिक्-कालपदार्थहेतुकगुणविशेषनिबन्धनत्वं प्रकृतप्रत्ययस्य तदा दृष्टान्ताभावः अनुमानबाधा च प्रतिज्ञायाः। तथाहि-यः पराऽपरादिप्रत्ययः स परपरिकल्पितगुणरहितार्थमात्रकृतक्रमोत्पादव्यवस्थानिबन्धनः,३० परापरप्रत्ययत्वात् , रूपादिषु परापरप्रत्ययवत्, परापरप्रत्ययश्चायं घटादिषु इति स्वभावहेतुः । न च
१ "न पराभिमताद् योगाजायते युक्तवस्तुधीः । युक्तबुद्धितया यद्वत् प्रासादादिषु युक्तधीः ॥ अनेकवस्तुसद्भावे जायमानतयाऽथवा । विभक्तानेकतन्त्वादिविषया इव बुद्धयः ॥
विभागेऽपि यथायोगं वाच्यमेतत् प्रमाद्वयम् । एकस्यानेकवृत्तिश्च न युक्तेति प्रवाधकम्” ॥-तत्वसं. का. ६७२६७४ पृ. २२३ ।
२ "परापराभिधानादिनिमित्तं यच्च कल्प्यते । परखमपरत्वं च दिकालावधिक न तत्" ॥-तत्त्वसं० का० ६७५ १२२३ । ' ३ "एकस्यां दिश्यवस्थितयोः पिण्डयोरेकस्य द्रष्टुः संनिकृष्टमवधिं कृला एतस्माद विप्रकृष्टोऽयमिति परत्वाधारे बुद्धिरुत्पद्यते ततस्तामपेक्ष्य परेण दिकप्रदेशेन संयोगात् परलमुपजायते । विप्रकृष्टं चावधिं कृत्वा एतस्मात् सन्निकृष्टोऽयमित्यपरखाधारे बुद्धिरुत्पद्यते तामपेक्ष्यापरेण दिक्प्रदेशेन संयोगादपरत्वस्योत्पत्तिः"-तत्त्वसं० पजि. पृ० २२४ पं० ११
४ “यस्य वलीपलितरूढश्मश्रुतादिनाऽनुमितमादित्योदयास्तमयानां बहुवम्”-तत्त्वसं० पञ्जि. पृ० २२४ पं० १६॥ ५ "यथा नीलादिरूपाणि क्रमभावव्यवस्थितेः। अन्योपाधिविवेकेऽपि तथोच्यन्ते तथापरे (परापरे)"॥
-तत्त्वसं० का० ६७६ पृ० २२३ ।