________________
६८०
तृतीये काण्डे -
साधर्म्यग्रहणादुत्पद्यते कस्याश्चित् तदन्तरेणापि इन्द्रियवैगुण्यमात्रादेव उत्पत्त्युपलब्धेः अन्यगतचेतसस्तैमिरिकस्य द्विचन्द्राद्यविकल्पबुद्धिवत् । न च प्रधानार्थानुसारित्वेऽपि मिथ्याबुद्धेः परस्य इष्टसिद्धिः विच्छिन्नाऽविच्छिन्नरूपतया उपजातस्य वस्तुनः प्रधानभूतस्य तद्बुद्धि निबन्धनस्य सिद्धावपि तदर्थान्तरभूतसंयोग-विभागलक्षणगुणाप्रसिद्धेः, यथा च चैत्र - कुण्डलयोर्विशिष्टावस्थाप्राप्तौ ५ संयोगः प्रादुर्भवति न सर्वदा तथा 'चैत्रः कुण्डली' इति मतिरपि तदवस्थाविशेषनिबन्धना कदाचिदेव भविष्यति न सर्वदा इति किमर्थान्तरभूतसंयोगकल्पनया ? यदपि 'यदेव क्वचिद् उपलब्धम्' इत्याद्यभिधानम्, तदपि असंगतम् ; विशिष्टावस्थायाः प्रदर्शितमिति निबन्धनाया उपलभ्यस्वभावायाः अन्यत्रानुपलम्भतः प्रतिषेधोपपत्तेः परपरिकल्पितस्य च संयोगस्य संयोगिपदार्थविवेकेन क्वचिदपि प्रत्यये अप्रतिभासनात् कुतः प्रतिषेधः विधिर्वा संभवी ? यदि च देवदत्त कुण्डलयोदेशान्तरादौ १० सत्त्वान्न निषेधः असत्त्वेऽपि तदानर्थक्यम् तदा नञर्थाभाव एव स्यात् । संयोगप्रतिषेधेऽपि चैतद् दूषणं समानम् तस्यापि विद्यमानत्वे प्रतिषेधानुपपत्तेः अविद्यमानत्वे तदानर्थक्यात् । यदपि 'बीजादयोऽविशिष्टत्वात् सर्वदैव कार्य विदध्युः' इत्याद्युक्तम् तंत्र बीजादीनामविशिष्टत्वमसिद्धम् सर्वभावानां प्रतिक्षणविशरारुतया विशिष्टावस्थाप्राप्तौ जनकत्वात् बीजादीनां स्वकार्यजनने सापेक्षत्वमात्रसाधने च सिद्धसाध्यता अव्यवधानाद्यवस्थान्तरसापेक्षाणां वीजादीनामङ्करादिखकार्य निर्वर्तनस्य १५ अस्माभिरभ्युपगमात् । अथ संयोगाख्यपदार्थान्तरसापेक्षत्वं तेषां साध्यते तदा तथाविधेन धर्मेण तोरन्वयासिद्धेरनैकान्तिकता दृष्टान्तस्य च साध्यविकलताप्रसक्तिः । अथ अवस्थान्तरविशेषापेक्षा बीजादयः स्वकार्योत्पत्तिहेतवः न पुनरर्थान्तरभूतसंयोगापेक्षा इति कुतः सिद्धं येन सापेक्षत्वमात्रे साध्ये सामान्येन सिद्धसाध्यतादोष उद्भाव्यते ? यदि हि संयोगमात्र सापेक्षा एव ते तदारम्भकस्तदा प्रथमोपनिपात एव अङ्कुरादिकार्यप्रसवो बीजादिभ्यो भवेत् पश्चाद्वद् अविकलकारणत्वात् । अथ २० प्रथमोपनिपाते न तदुदयः पश्चादपि न स्यात् पूर्ववद् विकलकारणत्वाविशिष्टत्वात् । न च बीजादेः संयोगे अनुपकारिणि अपेक्षा युक्ता अतिप्रसङ्गात् । न च तत्कारणानां क्षिति-बीजादीनामेकस्वभावतया नित्यसन्निहितत्वात् संयोगानां कादाचित्कत्वं युक्तम् । अथ क्षित्यादीनां संयोगेऽपि जन्ये कर्मादिसापेक्षत्वात् संयोगस्य कादाचित्कत्वम् नः तत्रापि तुल्यपर्यनुयोगत्वात् । तथाहि कर्मापि कस्मात् सर्वदा न जनयति ? इति पर्यनुयोगस्य अव्यावृत्तिरेव । न च तत्कारणाभावात् इत्युत्तरं २५ संगतम् नित्यकारणाभ्युपगमे तस्यापि नित्यभावः इति पर्यनुयोगस्य सर्वत्र तुल्यत्वात् । क्षणिकवादिनस्तु नायं दोषः पूर्वपूर्वहेतु प्रतिबद्धत्वात् तदुत्तरोत्तरकार्याणां युगपत् कारणवैकल्येन सर्वे - षामसन्निधानात्, अतः परेषामङ्कुरादिकार्यहेतुत्वं बीजादीनां न सर्वदा प्रसज्यत इति नार्थान्तरसंयोगसापेक्षास्ते इति व्यवस्थितम् । संयोगसद्भावबाधकं च प्रमाणं प्रत्यक्षवद् अनुमानमपि विद्यत
१ “कुण्डलीति मतिश्चेयं जातावस्थाविशेषयोः । चैत्र कुण्डलयोरेव संयोग इव जायते " ॥ - तत्त्वसं ० का ० ६७०
पृ० २२२ ।
२ पृ० ६७८ पं० ९ टि० ४ । ३ पृ० ६७८ पं० ११।
४ “सोऽवस्थातिशयस्तादृग् दृष्टोऽन्यत्र निषिध्यते । चैत्रे कुण्डल इत्यादौ न संयोगस्त्वदृष्टितः” ॥—तत्त्वसं० का० ६७१ पृ० २२२ ।
५- तमतिबन्ध - भ० मां० । “यदवस्थाविशेषनिबन्धनेयं मतिरुपवर्णिता तस्योपलब्धिलक्षणप्राप्तस्य " - तत्त्वसं ० पञ्जि० पृ० २२३ पं० १
६ पृ० ६७९ पं० १। ७ पृ० ६७९ पं० ५ ।
८ “उच्यते क्षणिकत्वेन नाविशेषा जलादयः । सत्त्वेऽप्यव्यवधानादि तेऽपेक्षन्ते दशान्तरम् ” ॥ - तत्त्वसं ० का ० ६६४
पू० २२० ।
९ “संयोगमात्रसापेक्षा यदि तु स्युर्जलादयः । योगानन्तरमेव स्यात् कार्यमेतेन वा भवेत् " ॥ - तत्त्वसं ० का ० ६६५ पृ० २२० ।
१० " तस्माद्भवत एव दर्शनेऽङ्कुरादिकार्यप्रसवहेतुत्वं क्षित्यादीनां सर्वदा प्रसज्यत इति न संयोगार्थान्तरसापेक्षाः क्षित्यादय इति सिद्धम् " - तत्त्वसं० पञ्जि० पृ० २२१ पं० ९- ।