________________
ज्ञेयमीमांसा।
मवेत् ? यतः 'अकुण्डलश्चैत्रः' इति न कुण्डलं प्रतिषिध्यते तस्य अन्यदेशादौ विद्यमानस्य प्रतिषेद्धमशक्यत्वात्, अत एव न चैत्रः ततश्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते । एवं 'कुण्डली चैत्रः' इत्यत्रापि चैत्र-कुण्डलयोर्नान्यतरस्य विधिः तयोः सिद्धत्वात् । ततः पारिशेष्याद् अप्रतीतस्य तत्संयोगस्यैव विधिरिति संयोगादिर्वास्तवः समस्त्येव यद्वशाद् विभक्तविधि-प्रतिषेधप्रवृत्तिः 'चैत्रः कुण्डली' इत्यादिप्रयोगेषु । किञ्च, यदि संयोगः अर्थान्तरं न भवेत् तदा बीजादयः-अविशिष्टत्वात् ५ -सर्वदैव स्वकार्यमङ्कुरादिकं विदध्युः न चैवम् सर्वदा तेषां कार्यानारम्भात् ; अतो बीजादयः स्वकार्यनिर्वर्तने कारणान्तरसव्यपेक्षाः मृत्पिण्ड-दण्ड-चक्र-सूत्रादय इव घटादिकरणे; योऽसौ अपेक्ष्यः स संयोगः" [
] इति उद्योतकरः। ___ अत्र प्रतिविधीयते-यत् तावदुक्तम् ‘पदार्थविशेषणभावेन संयोगोऽध्यक्षतः प्रतीयते' इति, तदयुक्तम्; यतः न संयुक्तपदार्थार्थान्तरभूतः संयोगः कदाचित् प्रतिपत्तुर्दर्शनपथमवतरति, न १० तदर्शनाद विशिष्टे द्रव्येऽसावाहरति किं तर्हि ? प्राग्भाविसान्तरावस्थातो विशिष्टे निरन्तरावस्थे ये समुत्पन्ने वस्तुनी; ते एव 'संयुक्त'प्रत्ययविषये तच्छब्दवाच्ये, अवस्थाविशेषे संकेतितत्वात् 'संयुक्त'शब्दस्य । ततो यत्र तथाविधे वस्तुनी 'संयोग'शब्दविषयतामुपगते निश्चिनोति तत्र ते एव आहरति नान्ये न हि प्रेक्षावान् शब्दात् तदप्रेरिते अर्थे प्रवृत्तिमारचयति । वस्त्वन्तरमेव च तथा तथोत्पद्यमानं 'निरन्तरमिदं वस्तु' 'सान्तरमिदम्' इति च बुद्धिभेदनिबन्धनं भविष्यति संयोग-विभागयोव्यार्था-१५ न्तरभूतयोरभावेऽपि इति अनैकान्तिको 'विशेषप्रत्ययत्वात्' इति हेतुः । तथाहि-विच्छिन्नं यदुत्पन्नं वस्तु तत् सान्तरबुद्धेनिमित्तभावमुपयात्येव हिमवत्-विन्ध्याद्रिवत् , अविच्छिन्नोत्पत्तिकं च निरन्तरबुद्धिविषयः निरन्तरोपरचितदेवदत्त-यज्ञदत्तगृहवत् न हि गृहयोः परेणापि संयोगगुणाश्रयत्वमभ्युपगम्यते निर्गुणत्वाद् गुणानाम् तयोश्च संयोगात्मकत्वेन गुणत्वात् । नापि हिमवत्-विन्ध्ययोविभागाश्रयत्वम् प्राप्तिपूर्विकाया अप्राप्तेर्विभागलक्षणायास्तयोरभावात् । न च सर्वा मिथ्याबुद्धिः२०
१“पारिशेष्यात् संयोगस्यैवाप्रतीतस्य विधेञ्जयते तस्मादस्त्येव संयोगादिर्वास्तवः यशाच्चैत्रः कुण्डली न भवतीयादिनिषेधविधानादि प्रविभक्कमेव प्रतीयते । आदिशब्देन विशेषणवेनोपादानमित्यादिपूर्वोक्तपरिग्रहः"-तत्त्वसं० पञ्जि. पृ० २२० पं०३
२ "बीजोदकेत्यादिना उद्योतकरमतोपदर्शनाद हेतोरसिद्धतामाशङ्कतेबीजोदकपृथिव्यादि सर्वदा कार्यकारकम् । प्रसक्तं निर्विशेषलात् संयोगासंभवेन तु ॥ क्षेत्र-बीज-जलादीनि सापेक्षाणीति गम्यते । खकार्यकरणान्नित्यं दण्डचक्रोदकादिवत् ॥
यस्तैरपेक्ष्यते भावः स संयोगो भविष्यति । सविशेषणभावाच भिन्न एवेति गम्यते" ॥-तत्त्वसं• का०६५४६५६ पृ० २१८ ।
३ पृ. ६७७ पं० २०।
४ "प्राप्तावस्थाविशेषे हि नैरन्तर्येण जातितः । ये पश्यत्याहरत्येष वस्तुनी ते तथाविधे" ॥-तत्त्वसं० का० ६६६ पृ० २२१ ।
५अत्र द्वितीयाद्विवचनस्य समुचितलेन प्रकृतिभावस्य साधुवात् 'द्रव्ये असा'-इत्येव पाठः सुचारुः । “नहि संयुक्तपदार्थान्तरभूतः संयोगः प्रतिपत्तुर्दर्शनपथमवतरति येन तद्दर्शना(त)द्विशिष्टे द्रव्ये आहरति"-तत्त्वसं. पत्रि. पृ. २२१५० १५।
विच्छिन्नमन्यथा चैव जातमेति निमित्तताम् । सान्तरानन्तरज्ञाने गेह-विन्ध्य-हिमाद्रिवत्" ॥-तत्त्वसं. का० ६६७ पृ० २२१ ।
"गेह-विन्ध्य-हिमाद्रिवत् इति । अनयोरेव यथायोगमुदाहरणम् । न हि अविच्छेदेनोत्पन्नयोः खयं संयोगात्मनोर्गेहयोरपरः संयोगो निरन्तरबुद्धेर्निबन्धनमस्ति परमतेऽपि, नापि विच्छेदेनोत्पन्नयोस्तयोरेव विभागः सान्तरप्रत्ययनिमित्तमस्ति निर्गुणत्वाद् गुणानामित्युक्तमेतत् । न हि हिम-विन्ध्ययोरपि विभागः सान्तरबुद्धेहेतुरस्ति प्राप्तिपूर्विका ह्यप्राप्तिर्विभाग इति समयात्"-तत्त्वसं० पजि. पृ० २२१ पं० २५-।
८ "मिथ्याबुद्धिर्न सर्वैव प्रधानार्थानुसारिणी। साधर्म्यनिरपेक्षाऽपि काचिदन्तरुपप्लवात् ॥
अन्यत्र गतचित्तस्य द्विचन्द्रादिमतिर्यथा। अविच्छिन्नादिजातं वा प्रधानमिह विद्यते"॥-तत्त्वसं. का. ६६८-६६९ पृ. २२२।