________________
तृतीये काण्डेकिञ्चिद् आहरेत् । एतद् विभागसाधनेऽपि विपर्ययेण सर्व समानम् । किञ्च, यदि अर्थान्तरभृतौ संयोग-विभागौ वस्तुनो न स्याताम् तदा वस्तुमात्रनिबन्धनौ 'सान्तरमिदम्' 'निरन्तरम्' इति च प्रत्ययौ नोत्पद्येयाताम् न हि विशेषप्रत्ययौ वस्तुविशेषमन्तरेण संभविनौ सर्वदा सर्वत्र भावप्रसङ्गात्।
अपि च, दूरदेशवर्तिनः प्रमातुः सान्तरावस्थितेऽपि धव-खदिरादौ निरन्तरावसायिनी बुद्धिर्योत्पद्यते ५यो च शाखिशिखरावसक्ते बलाकादौ सान्तरत्वाध्यवसायिनी समुपजायते; द्विविधाऽपि इयम 'अतस्मिंस्तत्' इति प्रवृत्तेर्मिथ्याबुद्धिः। न च असौ मुख्यपदार्थानुभवमन्तरेण क्वचिद् उपजायमाना संलक्ष्यते न हि अननुभूतरजतस्य शुक्तिकायाम् 'रजतम्' इति विभ्रमः इति कश्चित् मुख्यो भावो विभ्रमधियो निमित्तमभ्युपगन्तव्यः; तदभ्युपगमे च संयोग-विभागसिद्धिः तद्व्यतिरेकेण अन्यस्य
एतद्बुद्धेर्निबन्धनस्य असंभवात् । तथा, 'कुण्डली देवदत्तः' इति मतिः किंनिबन्धना उपजायते इति १०वक्तव्यम् । न पुरुष-कुण्डलमात्रनिबन्धना, सर्वदा तयोस्तस्या उत्पत्तिप्रसङ्गात् । अपि च, यदेव क्वचित् केनचित् उपलब्धं सत्त्वेन; तस्यैव अन्यत्र विधिः प्रतिषेधो वा दृष्टः । यदि च संयोगो न कदाचिद् उपलब्धः कथं विभागेन अस्य 'चैत्रोऽकुण्डलः कुण्डली वा' इत्येवं प्रतिषेधः विधिश्च
मुपादेयम् । न तावत् कुण्डलनिमित्ता नापि देवदत्तनिमित्ता। न च भवता निमित्तान्तरं प्रतिपाद्यते, निमितान्तरं चान्तरेण यथा कथंचिद् व्यवस्थिताभ्यां देवदत्त-कुण्डलाभ्यां कुण्डलीति बुद्ध्या भवितव्यम् । तस्मादवश्यं विधीयमानं प्रतिषिध्यमानं वा निमित्तान्तरमभ्युपगन्तव्यम् । यदि प्रतिषिध्यमानं यदन्यत्र भवति तदन्यत्र प्रतिषिध्यत इति प्रतिषिध्यमानस्य विषयो वक्तव्यः । तस्मान्न कथञ्चन संयोगः प्रतिषेढुं शक्यते । इहबुद्धिनिमित्तवाच्च-इयमिहबुद्धिः प्रवर्तमाना नर्ते संबन्धात् प्रवतते-यथेह कुण्डे बदराणीति-नेयं बदरमात्रनिमित्ता न कुण्डमात्रनिमित्तेति । यदस्या निमित्तं स संयोग इति। x x x तस्माद् उपपन्नमर्थान्तरं संयोग इति"-पृ० २१९ पं० १-पृ० २२५ पं० १।
प्रमेयकमलमार्तण्डे तु तत् तन्मतमित्थं वर्तते
"ननु संयोगो नामार्थान्तरं न स्यात् तदा क्षेत्रे बीजादयो निर्विशिष्टत्वात् सर्वदैवानुरादिकार्यं कुर्युः न चैवम् तस्मात् सर्वदा कार्यानारम्भात् तेऽङ्कुरादिकार्योत्पत्तौ कारणान्तरसापेक्षा यथा मृत्पिण्डदण्डादयो घटकरणे कुम्भकारादिसापेक्षाः योऽसावपेक्ष्यः स संयोग इति । किञ्च, द्रव्ययोर्विशेषणभावेनाध्यक्षत एवासौ प्रतीयते । तथाहि-कश्चित् केनचित् संयुक्त द्रव्ये आहरेत्युक्त ययोरेव द्रव्ययोः संयोगमुपलभते ते एवाहरति न द्रव्यमात्रम् । किञ्च, कुण्डली देवदत्त इत्यादि मतिरुपजायमाना किंनिबन्धनेति अभिधातव्यम् ? न तावत् पुरुषकुण्डलमात्रनिबन्धना सर्वदा तस्याः सद्भावप्रसङ्गात् । किञ्च, यदेव केनचित् क्वचिदुपलब्धसत्त्वं तस्यैवान्यत्र विधिप्रतिषेधमुखेन लोके व्यवहारप्रवृत्तिदृष्टा । यदि तु संयोगो न कदाचिदुपलब्धस्तत् कथमस्य चैत्रोऽकुण्डली कुण्डली वेत्येवं विभागेन व्यवहारो भवेत् । चैत्रोऽकुण्डलीत्यत्र हि न कुण्डलं चैत्रो वा प्रतिषिध्यते देशादिभेदेनानयोः सतोः प्रतिषेधायोगात् । तस्माच्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते । तथा चैत्रः कुण्डलीत्यनेनापि विधिवाक्येन चैत्र-कुण्डलयोर्नान्यतरस्य विधानं तयोः सिद्धत्वात् । पारिशेष्यात् संयोगस्यैव विधियिते इत्यप्युयोतकरस्य मनोरथमात्रम्"-पृ. १८५ द्वि. पं. १०-पृ० १८६ प्र. पं० २।
तत्त्वसंग्रहे खेतदुद्द्योतकरमतं समग्रं वर्तते परंतु न प्रस्तुतटीकाक्रमेण अत एव यत्र यत्र तत्त्वसंग्रहानुसारिणी टीका समायाता तत्र तत्र तास्ताः कारिकाः क्रमव्यत्यासेनापि उद्धृताः ।
१ निरन्तरमिदं वस्तु सान्तरं चेदमित्ययम् । बुद्धिभेदश्च केनैष विद्यते तौ च चेदिह" ॥-तत्त्वसं. का. ६५८ पृ. २१८।
२"या चेयं सान्तरे बुद्धिनैरन्तर्यावसायिनी। निरन्तरेऽपि या चान्या मिथ्याबुद्धिरियं द्विधा ॥
मिथ्याबुद्धिश्च सर्वैव प्रधानार्थानुकारिणी । प्रधानं चेह वक्तव्यं तदुक्तौ तौ च सिद्धयतः" ।-तत्त्वसं. का. ६५९६६. पृ. २१९ ।
३"या चेयमीषत्तरुशिखरावलग्ने बलाकादौ निरन्तरेऽपि सान्तरत्वमिवावस्यन्ती जायतेऽन्या"-तत्त्वसं० पजि. पृ० २१९ पं०९
४ "कुण्डलीति मतिश्चेयं किंनिमित्तोपजायते । नरकुण्डलभावान्नो सर्वदा तत्प्रसङ्गतः॥ अन्यत्र दृष्टभावस्य निषेधोऽन्यत्र युज्यते । संयोगश्च भवेद् दृष्टः स कथं प्रतिषिध्यते ॥
चैत्रोऽकुण्डल इत्येवं तस्मादस्त्येव वास्तवः । यनिषेधविधानादि विभागेन प्रवर्तते" ॥-तत्त्वसं. का. ६६१-६६३ पृ० २१९।