________________
ज्ञेयमीमांसा।
व्यवस्थिताः । अत्र तावद् हेतोरसिद्धता, परस्परस्वरूपव्यावृत्तरूपादिव्यतिरेकेण अर्थान्तरभूतस्य पृथक्त्वगुणस्य अध्यक्षे अप्रतिभासनेन घटादिविलक्षणज्ञानग्राह्यत्वस्यासिद्धेः । अत एव उपलब्धिलक्षणप्राप्तत्वेन अभ्युपगतस्य तस्य अनुपलम्भाद् असत्त्वम् । न च 'पृथक' इति विकल्पप्रत्ययावसेयत्वेन तस्य सत्त्वम् सजातीय-विजातीयव्यावृत्तरूपाद्यनुभवनिबन्धनत्वात् तत्प्रत्ययस्य । व्यावृत्तता च भावानां स्वस्वभावव्यवस्थितेः अन्यथा स्वत एव अव्यावृत्तरूपाणां पृथक्त्वादिवशात् तेषां पृथग्रुप-५ ताऽसिद्धेः पृथक्त्वादेर्भिन्नाऽभिन्नपृथग्रूपभावकरणे अकिञ्चित्करत्वात्-भेदपक्षे संवन्धासिद्धेः, अभेदपक्षे तु पृथग्रूपस्य भावस्यैव उत्पत्तेरर्थान्तरभूतपृथक्त्वगुणकल्पनावैयर्थ्यात् तत एव 'पृथक्' व्यवहारसिद्धेहेतोरनैकान्तिकत्वम् । किश्च, यथा परस्परव्यावृत्तात्मतया सुख-दुःखादिगुणेषु 'पृथक्' इति प्रत्ययविषयता पृथक्त्वगुणाभावेऽपि-गुणेषु गुणासंभवात्-तथा घटादिष्वपि भविष्यतीति हेतोरनैकान्तिकता परिस्फुटैव । न च गुणेषु 'पृथक्' इति प्रत्ययो भाक्तः मुख्य-१० प्रत्ययाऽविशिष्टत्वात् । 'पृथक्' इत्यपोद्धारव्यवहारस्य स्वरूपविभिन्नपदार्थनिबन्धनत्वात् परोपन्यस्तानुमाने प्रतिज्ञाया अनुमानवाधा । तथा च प्रयोगः-ये परस्परव्यावृत्तात्मानः ते खव्यतिरिक्तपृथक्त्वानाधाराः, यथा सुखादयः, परस्परव्यावृत्तात्मानश्च घटादयः इति स्वभावहेतुः । एकस्य अनेकवृत्त्यनुपपत्तिः संबन्धाभावश्च समवायस्य प्रतिषेत्स्यमानत्वात् सुखादिषु तद्व्यवहाराभावप्रसक्तिश्च विपर्यये बाधकं प्रमाणम् । तन्न पृथक्त्वं गुणः तत्साधकप्रमाणाभावाद् बाधकोपपत्तेश्चेति १५ व्यवस्थितम् ।
अप्राप्तिपूर्विका प्राप्तिः संयोगः प्राप्तिपूर्विका च अप्राप्तिर्विभागः । एतौ च द्रव्येषु यथाक्रम 'संयुक्त'-'विभक्त'-प्रत्ययहेतू अन्यतरोभयकर्मजौ संयोग-विभागजौ च यथाक्रमम् । न च संयोगविभागयोः सत्त्वप्रतिपादकप्रमाणाविषयत्वात् सद्व्यवहाराविषयता शशविषाणवत् इति वाच्यम्, "संयोगस्य द्रव्ययोर्विशेषणत्वेन अध्यक्षतःप्रतीयमानत्वात् । तथाहि-कश्चित् केनचित् 'संयुक्ते द्रव्ये २० आहर' इत्युक्तो ययोरेव द्रव्ययोः संयोगमुपलभ्य(भ)ते ते एव आहरति न द्रव्यमात्रम् अन्यथा हि यत्
१“अपोद्धारव्यवहृतिः पृथक्वाद् या तु कल्प्यते । कारणात् सा विभिन्नात्मभावनिष्ठा न किंमता" ?॥
-तत्त्वसं. का. ६५१ पृ. २१७ । २ "परस्परबिभिन्ना हि यथा युद्धि-सुखादयः । पृथग्वाच्यास्तदङ्गं च विनाऽन्येन तथाऽपरे" ॥-तत्त्वसं. का० ६५२ पृ. २१७॥
३ “यो संयोगविभागौ च द्रव्येषु नियती परैः । संयुक्तादिधियो हेतू कल्पिती तावनर्थको" ॥-तत्त्वसं. का. ६५३ पृ० २१८।
४ "संयुक्त आहरेत्युक्ते संयोग प्रेक्षते ययोः । तदन्यपरिहारेण ते एवाहरति ह्ययम्"॥-तत्त्वसं. का. ६५७ पृ० २१८॥
५"तथाहि-कश्चित् केनचित् संयुक्त द्रव्ये आहरेत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते ते एव आहरति न द्रव्यमात्रम्" इत्यादि-तत्त्वसं० पत्रि० पृ० २१८ पं० २३-1
संयोगसमर्थनपरमेतद् उद्योतकरमतं न्यायवार्तिके इत्थमुपलभ्यते
"विशेषणभावाच्ार्थान्तरं संयोगः-संयुक्त द्रव्ये आहरेत्युक्ते ययोई व्ययोः संयोगं पश्यति ते इतरेभ्यो विशिष्य संयुक्त आहरति । ४ ४ ४ यदि चार्थान्तरं संयोगो न स्यात् क्षेत्रोदकबीजानीन्धनादीनि सर्वत्रावस्थितानि सर्वत्राङ्गुरपाकादिकार्य कुर्युः तान्येव तानीति । तस्माद् यस्तैरपेक्ष्यते सोऽर्थोऽन्यस्तस्मिन् संयोग इति संज्ञेति । क्षेत्रोदकबीजानीन्धनानि अङ्गुरपाकादिकार्योत्पत्ती सापेक्षाणि सर्वदा तत्कार्यानारम्भाद् दण्डादिवत्-यथा दण्डाद्यनेक कारणं संयोगादिनिमित्तान्तरापेक्ष सर्वदा न घट-पटादिकार्य करोति तथा बीजाद्यपि तस्मात् तदपि सापेक्षम् ।xxx सान्तरनिरन्तरबुद्धयोश्च निमित्त वक्तव्यम् । यदि संयोग विभागं निमित्तान्तरं न प्रतिपद्यसे सान्तरमितिबुद्धेर्निरन्तरमिति च बुद्ध दहेतुर्वक्तव्यः । न हि निमित्तभेदमन्तरेण बुद्धीनां भेदो दृष्टो रूपादिवदिति-या चेयमचलति चलतीति बुद्धिर्या असंयुक्त संयुक्तमिति अविभक्के विभक्तमिति च सा च प्रधानमन्तरेण न भवति । सर्वा एता मिथ्याबुद्धयः प्रधानानुकारेण भवन्तीति प्रधानं वक्तव्यम् । न हि निष्प्रधानं भाक्तं दृटम् स्थाणु-पुरुषवदिति । यथा स्थाणौ सति पुरुष स्थाणुरिति बुद्धिः पुरुष वाऽसति स्थाणौ पुरुषबुद्धिरिति । यदि चार्थान्तरं संयोगो न स्यात् कुण्डलीत्यस्या बुद्धेः किचिनिमित्तमवश्यं विधीयमानं प्रतिषिध्यमानं वा निमित्तान्तर