________________
६७६
तृतीये काण्डेअनैकान्तिकश्च हेतुः । न च यत्रैव प्रासादादौ समवेतो मालाख्यो गुणः तत्रैव महत्त्वादिकमपीत्येकार्थसमवायवशात् 'महती प्रासादमाला' इति प्रत्ययोत्पत्तेर्न अनैकान्तिकत्वम् , स्वसमयविरोधात् । तथाहि-न प्रासादो भवद्भिरवयविद्रव्यमभ्युपगम्यते विजातीयानां द्रव्यानारम्भात् किं तर्हि ? संयोगात्मको गुणः । न च गुणः परिमाणवान् “निर्गुणा गुणोंः" [
] इति वचनात् । ५ततो मालाख्यस्य गुणस्य प्रासादादिष्वभावात् 'प्रासादमाला' इत्ययमेव प्रत्ययस्तावद् अयुक्तःदूरत एव 'सा महती इखा वा' इत्यादिप्रत्ययव्यपदेशसंभवो मालायाः संख्यात्वेन प्रासादादीनां च संयोगत्वेन महत्त्वादेश्च परिमाणत्वेन परैरभ्युपगमात् त्रयाणामपि गुणत्वाद गुणेषु च गुणासंभवात्
प्रासादमाला' इति नैकार्थसमवायात् प्रत्ययोत्पत्तिः । अथापि अवयविस्वभावा माला इष्यते तथापि द्रव्यस्य द्रव्याश्रयत्वान्न मालायाः संयोगस्वरूपप्रासादाश्रयत्वं युक्तम् । अथ माला जाति१० स्वभावा अभ्युपगम्यते तथापि जातेः प्रत्याश्रयं परिसमाप्तत्वात् एकस्मिन्नपि प्रासादे 'माला' इति प्रत्ययोत्पत्तिर्भवेत् । 'एका प्रासादमाला महती दीर्घा इस्वा वा' इत्यादिप्रत्ययानुपपत्तिस्तदवस्थैव स्यात् मालायाम् तदाश्रये च प्रासादादौ एकत्वादेर्गुणस्य असंभवात् काष्ठादिषु च प्रासादाश्रयेषु विवक्षितदीर्घाद्ययोगात् बह्रीषु च प्रासादमालासु 'माला' 'माला' इति अनुगतप्रत्ययोत्पत्तिर्न स्यात्
जातावपरजातेरनुपपत्तेः । न च तदाश्रयजातिनिबन्धन औपचारिकोऽयं प्रत्ययोऽस्खलदृत्तित्वात् । १५न हि मुख्यप्रत्ययाऽविशिष्टो गाणो युक्तोऽतिप्रसङ्गात् । अत एव मालादिषु महत्त्वादिप्रत्ययोऽपि नौपचारिकः । उक्तं च
"मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः। __ मुख्याऽविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः" ॥ [
] इति । तन्न परिमाणं रूपादिषु पृथग गुण इति स्थितम् । २० संयुक्तमपि द्रव्यं यद्वशात् 'अत्रेदं पृथक्' इत्यपोड्रियते तदपोद्धारव्यवहारकारणं पृथक्त्वं नाम गुणः इति काणादाः 'घटादिभ्योऽर्थान्तरम्, तत्प्रत्ययविलक्षणज्ञानग्राह्यत्वात्, सुखादिवत्' इति
१“प्रासादश्वेष्यते योगो गुणः सोऽपरिमाणवान् । न तस्यास्यपरा माला नोपचारस्य चाश्रयः" ॥-तत्त्वसं. का० ६५० पृ. २१६ ।
२"विजातीयद्रव्यानारम्भात्"-तत्त्वसं० पजि. पृ० २१६५०९ । "विजातीयानां द्रव्यानारम्भकत्वात्"प्रमेयक० पृ० १७८ प्र. पं० १४ ।
३“स च गुणः परिमाणवान भवति “निर्गुणा गुणाः" इति समयात्"-तत्त्वसं० पजि. पृ. २१६ पं० १०। "न च गुणः परिमाणवान् निर्गुणा गुणा इत्यभिधानात्"-प्रमेयक. पृ. १७८ प्र. पं० १४ । ४ "द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्"-वैशेषिकद. १-१-१६। "रूपादीनां गुणानां सर्वेषां गुणत्वाभिसंबन्धो द्रव्याश्रितत्वं निर्गुणत्वम् निष्क्रियत्वम्"-प्रशस्त. कं० पृ. ९४ पं. ६। "अथ द्रव्यात्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः"-न्यायसि० मु० का० ८६। "द्रव्याश्रया निर्गुणा गुणाः"-तत्त्वार्थसू० ५-४० ।
५ “अथ जातिखभावा मालाऽजीक्रियते एवमपि जातेस्सर्वात्मना प्रत्याश्रयपरिसमाप्तखादेकोऽपि प्रासादो मालेत्युच्येत वृक्षवत् । यथोक्तम्-गेहो यद्यपि संयोगस्तन्माला किन्नु तद् भवेत् । जातिश्चेदू गेह एकोऽपि मालेत्युच्येत वृक्षवत्" ॥तत्त्वसं० पजि. पृ. २१६ पं० १४-।
"बहीषु च प्रासादमालासु माला माला इत्यनुगामी व्यपदेशो न स्यात् जातेरजातितः । यदाह-मालाबहुले तच्छब्दः कथं जातेरजातितः"-तत्त्वसं० पजि. पृ० २१६ पं० १९७ "नहि मुख्यप्रत्ययाविशिष्टो गौणो युक्तोऽतिप्रसङ्गात् यदाहमालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः । मुख्याविशिष्टविज्ञानग्राह्यलानौपचारिकः"॥
-तत्त्वसं० पजि. पृ० २१६ पं० २३ -1 ८"तत्र इदमस्मात् पृथगिति यदशात् संयुक्तमपि द्रव्यमपोद्भियते तदपोद्धारकारणं पृथक्वं नाम, तच्च घटादिभ्योऽर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यलादिति पूर्ववत् परस्याभिप्रायः"-तत्त्वसं० पञ्जि० पृ. २१६ पं० २६