________________
ज्ञेयमीमांसा । इत्यादिबुद्धरुपपत्तेः तथापि अदृष्टसामर्थ्यस्य अन्यस्य तद्धेतुत्वकल्पने हेत्वनवस्थाप्रसक्तिः । किञ्च, अपेक्षाबुद्ध्यन्वय-व्यतिरेकानुविधायित्वे द्वित्वादिप्रत्ययस्य व्यादिसंख्याप्रभवत्वाभ्युपगमे तद्धेतुभूतसंख्याया एकस्या अनेकवृत्तित्वमभ्युपगतं भवति, तच्च प्रमाणबाधितमिति असकृद आवेदितम् । अतोऽपेक्षाबुद्धिरेव व्यादिवुद्धिनिमित्तभूता वरमभ्युपगन्तव्येति स्थितम् । __ "परिमाणव्यवहारकारणं परिमाणं महद् अणु दीर्घम् इस्वमिति चतुर्विधम्”[ ]५ इति परैरभ्युपगतम् । “तत्र महद् द्विविधम्-नित्यम् अनित्यं च । नित्यम् आकाश-काल-दिगात्मसु
महत्त्वम्, अनित्यम् ज्यणुकादिषु द्रव्येषु । अणु आप नित्यानित्यभेदात् द्विविधम्-परमाणुमनस्सु पारिमाण्डल्यलक्षणं नित्यम्, अनित्यं व्यणुक एव । कुवलाऽऽ-मलक-बिल्वादिषु तु महत्स्वपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोऽणुव्यवहारः। तथाहि-यादृशं बिल्वे महत् परिमाणम तादृशं न आमलके यादृशं च तत् तत्र न तादृशं कुवल इति । ननु महद्-दीर्घयोख्यणुकादिषु वर्तमानयोः व्यणुके च १० अणुत्व-इस्वत्वयोः को विशेषः? महत्सु 'दीर्घमानीयताम्' दीर्धेषु 'महद् आनीयताम्' इति व्यवहारभेदप्रतीतेरस्ति तयोः परस्परतो भेदः । अणुत्व-हस्वत्वयोस्तु विशेषो योगिनां तद्दर्शिनामध्यक्ष एव" [
] महदादि च परिमाणं रूपादिभ्योऽर्थान्तरम्, तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वात् , सुखादिवत् । अत्र यदि 'रूपादिविषयेन्द्रियबुद्धिविलक्षणबुद्धिग्राह्यत्वात्' इति हेत्वर्थस्तदा हेतुरसिद्धः तथाव्यवस्थितरूपादिव्यतिरेकेण महदादिपरिमाणस्य अध्यक्षप्रत्ययग्राह्यत्वेन असंवेदनात् । अथ १५ ''अणु' 'महत्' इत्याकारतत्प्रत्ययविलक्षणकल्पनाबुद्धिग्राह्यत्वात् इति हेतुस्तदा विपर्यये बाधकप्रमाणाभावाद् अनैकान्तिकः । न ह्यस्याः किश्चिदपि परमार्थतो ग्राह्यमस्ति कल्पनाबुद्धित्वात् । एकदिग्मुखादिप्रवृत्तेषु विशिष्टरूपादिषु उपलब्धेषु तद्विलक्षणरूपादिभेदप्रकाशनाय समयवशात् 'महत्' इत्यादि अध्यवस्यन्ती बुद्धिःप्रवर्तते इति नातो वस्तुव्यवस्था । न च रूपादिव्यतिरिक्तं ग्राह्यमप्यस्या अस्तीति असिद्धता हेतोः । प्रत्यक्षबाधा च प्रतिज्ञायाः अध्यक्षत्वेन अभ्युपगतस्य महदादे रूपादि-२० व्यतिरेकेण अनुपलब्धेः । ततो दृष्टे स्पृष्टे वा एकदिङ्मुखप्रवृत्ते रूपादौ भूयसि अतद्रूपपरावृत्ते 'दीर्घम्' इति व्यवहारः प्रवर्तते परिमाणाभावेऽपि तदपेक्षया चाल्पीयसि रूपादौ समुत्पन्ने 'हस्वम्' इति व्यवहारः । एवं महदादौ अपि योज्यम् । एकाऽनेकविकल्पाभ्यां रूपादिवद् महदाद्यनुपपत्तेश्च अभावः । अविद्यमानेऽपि महदादौ भवत्प्रकल्पिते प्रासादमालादिषु महदादिप्रत्ययप्रादुर्भूतेरनुभवाद्
१ "एवं ह्यदृष्टसामर्थ्यस्य हेतुत्वं न कल्पितं स्यादन्यथा हि हेतूनामनवस्था भवेत्"-तत्त्वसं० पजि. पृ० २१४ पं० १६ ।
२"महद्दीर्घादिभेदेन परिमाणं यदुच्यते । तदप्यर्थे तथारूपमेदादेव न किं मतम् ?" ॥-तत्त्वसं. का. ६४७ पृ० २१४ ।
___ “परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम् अणु महद् दीर्घ ह्रखं चेति । तत्र महद् द्विविधम् नित्यमनित्यं च । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् अनित्यं व्यणुकादावेव । तथा चावपि द्विविधम् नित्यमनित्यं च । नित्यं परमाणुमनस्सु तत् पारिमाण्डल्यम् । अनित्यं व्यणुक एव"-प्रशस्त. कं० पृ० १३० पं० २०
३ "कुवलयामलकबिल्वादिषु महत्खपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोऽणुत्वव्यवहारः”-प्रशस्त. कं० पृ. १३०
पं० २५।
"कुवलामलबिल्वादिषु च महत्खपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोऽयं व्यवहारः"-तत्त्वसं० पजि० पृ. २१५५०१।
“अनित्यमणुपरिमाणं व्यणुक एवेत्ययुक्तम् कुवलयामलकबिल्वादिषु परस्परापेक्षयाणुव्यवहारदर्शनादत आह-कुवलयामलकबिल्वादिष्विति । बिल्वे यः प्रकर्षभावो महत्परिमाणातिशययोगित्वं तस्यामलकेऽभावमपेक्ष्याणुव्यवहारो भाक्तः। उभाभ्यां भज्यते इति भक्तिः सादृश्यं तस्यायमिति भाक्तः सादृश्यमात्रनिबन्धनो गौण इत्यर्थः एवमामलकपरिमाणातिशयाभावं कुवलयेऽपेक्ष्याणुव्यवहारः । यत्र हि मुख्यमणुत्वं व्यणुके तत्र महत्परिमाणस्याभावो दृष्टः आमलकेऽपि यादृशं बिल्वे महत्परिमाणं तादृशं नास्तीत्येतावता साधय॑णोपचारप्रवृत्तिः"-प्रशस्त० के० पृ. १३४ पं० १
४“दीर्घा प्रासादमालेति महती वेद्यते यथा । न हि तत्र यथारूपं परिमाणं प्रकल्पितम् ॥
एकार्थसमवायेन तथा चेद् व्यपदिश्यते । न महत्त्वं न देयं च धामखस्ति विवक्षितम्" ॥-तत्त्वसं० का. ६४८६४९ पृ. २१५।
८७ स.प्र.