________________
६७४
तृतीये काण्डेसंख्या संभवति अद्रव्यत्वात् तेषाम् संख्यायाश्च गुणत्वेन द्रव्याश्रितत्वात् । न च गुणेषु उपचरितमेकत्वादि शानम् अस्खलदृत्तित्वात् । न च गुणेषु संख्यासद्भावे अनवस्थादिबाधकप्रमाणोपपत्ते. रुपचरितमेकत्वादिज्ञानम् घटादिष्वपि वृत्ति-विकल्पादेर्द्धित्वादिसंख्यायां बाधकस्य सद्भावात् तद्विज्ञानस्य तथात्वप्रसक्तेः । न च वृत्ति-विकल्पादेर्बाधकस्य अबाधकत्वम् तस्य निरस्तत्वात् । न च ५ क्वचिद् मुख्यसंख्याभावे गौणप्रत्ययस्य तद्विषयस्याऽभाव इति घटादौ मुख्यसंख्यायोगोऽभ्युपगन्तव्य इति वाच्यम्, मुख्यपूर्वकत्वेन गौणप्रत्ययस्य एवंविधे विषये बौद्धं प्रति क्वचिदपि असिद्धेः नै हि गवादिष्वपि 'गौः' इति ज्ञानं पारमार्थिकगोत्वनिवन्धनतया मुंख्यं सिद्धम् नापि वाहीके तद् शानं वस्तुभूतगोत्वाध्यारोपाद् उपचरितम् । किञ्च, यथा वाहीके गौरिव अयम् न तु गौरेव सास्नाद्य
भावात् स्खलति प्रत्ययः इति गौणः न एवम् एक इव एको गुणः न तु एक एव इति प्रत्ययः किन्तु १० यादृशी घटादिषु अस्खलिता बुद्धिर्भवति तादृशी गुणादिष्वपि । अथ न सादृश्यापेक्षमेतद् ज्ञानम्
किन्तु यत् तदाश्रयभूतं द्रव्यं तद्गतैकत्वादिसंख्यातःगुणादीनां तदेकार्थसमवायात्, नन्वेवम् 'एकस्मिन् द्रव्ये रूपादयो बहवो गुणाः' इति ज्ञानोत्पत्तिर्न स्यात् तदाश्रयद्रव्ये बहुत्वसंख्याया अभावात्। 'षट् पदार्थाः' 'सुख-दुःखे' 'इच्छा-द्वेषौ' 'पञ्चविधं कर्म' 'परमपरं च द्विविधं सामान्यम्' 'एको
भावः' 'एकः समवायः' इति व्यपदेशेषु च किं निमित्तमिति वक्तव्यम्, न ह्यत्र एकार्थसमवायिनी १५संख्या विद्यते इति अव्यापिनी इयमपि कल्पना न युक्तिसंगता। भवतु वा एकार्थसमवायाद् अन्यतो
वा स्वप्रकल्पिताद् हेतोरयं प्रत्ययस्तथापि गुणादिगतमुख्यसंख्याऽभावतः स्खलढत्तिः स्यात् माणवके सिंहप्रत्ययवत्, न चैवमुपलभ्यते इति संकेतमात्रनिबन्धन एव सर्वत्र अभ्युपगन्तव्यः । यदपि 'गजतुरग-स्यन्दनादिव्यतिरिक्तनिमित्तप्रभवः सेनाप्रत्ययः, गजादिप्रत्ययविलक्षणत्वात्, वस्त्र-चर्मकम्बलेषु नीलप्रत्ययवत्' इति संख्यासिद्धये यद् अविद्धकर्णोक्तं प्रमाणम् , तदप्ययुक्तम्। गाँदि२० व्यतिरिक्तसंकेतादिप्रभवत्वेन इष्टत्वात् सिद्धसाध्यतादोषाघ्रातत्वात् । अथ विशिष्टसंख्यानिमित्त प्रभवत्वमस्य साध्यत्वेन अभिप्रेतम् तदा अनैकान्तिको हेतुः बुद्ध्यादौ 'एका बुद्धिः' इत्यादिविशिष्टप्रत्ययस्य संख्यामन्तरेणापि भावात् । 'अनेकद्रव्या च द्वित्वादिसंख्या, एकत्वेभ्योऽनेकविषयैकबुद्धिसहितेभ्य उत्पद्यते' इत्यभ्युपगमश्च अनुपपन्नः, संकेताभोगमात्रेण संख्येयेषु 'डे' 'त्रीणि द्रव्याणि'
१-संख्यायाः बा-वा० बा।
२ मुख्यसंख्याऽभावे गौणप्रत्ययस्य तद्विषयस्य भाव इति-भां० मा० । मुख्यपूर्वकत्वेन संख्याभावे गौणप्रत्ययस्य तद्विषयस्याभाव इति-आ० हा० वि० ।
३"न हि यथा वाहीको गौरिति स्खलति प्रत्ययः गौरिव गौतु गौरेव सास्नाद्यभावादिति न तथायं स्खलति एकमिवैक ज्ञानादि न त्वेकमेवेति किं तर्हि यादृशी घटादिष्वस्खलिता बुद्धिर्भवति तादृशी ज्ञानादिष्वपि"-तत्त्वसं० पजि. पृ. २१२ पं० २७
४ मुख्यसि-बृ• विना। ५ "तव्यसमवेताचेदेकत्वात् परिकल्प्यते । गुणादिष्वेकविज्ञानमेकार्थसमवायतः"॥
-तत्त्वसं० का०६४१ पृ. २१३ । ६ "अस्तु नामैवमेकत्र ज्ञाने व्याप्ति(व्यादि)मतिस्तु कम् । एतेष्वपेक्षते हेतुं षट्पदार्थादिकेषु वा॥ एकार्थसमवायादेर्गीणोऽयं प्रत्ययो भवन् । तथा च स्खलितो यस्मान्माणवेऽनलबुद्धिवत्"॥
-तत्त्वसं. का. ६४२-६४३ पृ. २१३ । ७ “गजादीत्यादिना अविद्धकर्णो संख्यासिद्धये प्रमाणमाशङ्कतेगजादिप्रत्ययेभ्यश्च वैलक्षण्यातू प्रसाध्यते । संख्याबुद्धिस्तदन्योत्था नीलवस्त्रादिबुद्धिवत्"
-तत्त्वसं. का. ६४४ पृ. २१३ । ८ "इच्छारचितसंकेतमनस्काराद्युपायतः । तत्रेष्टसिद्धिर्बुद्धपादौ संख्यैतेनैव वा भवेत्" ॥
-तत्त्वसं. का. ६४५पृ. २१४ । ९"बुद्धपपेक्षा च संख्याया निष्पत्तिर्यदि वर्ण्यते । संकेताभोगमात्रेण तदुद्धिः किं न संमता" ॥
-तत्त्वस० का० ६४६ पृ. २१४ ।