________________
क्षेयमीमांसा।
६.३ प्राणप्रायः पृथिवीवृत्तिः । स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्युदकज्वलनपवनवृत्तिः । रूपादेव गुणत्वे सति चक्षु यत्वादिकं लक्षणमितरव्यवच्छेदकम् । एषां च मध्ये रूपस्य महत्त्वाद्युपेतद्रव्यसमवेतस्य शलादेर्निरवयवस्य यदि ग्रहणमिष्यते तदा कुञ्चिकादिविवरवर्तिसूक्ष्मप्रदीपाद्यालोकोद्योतिताऽपवरकादिव्यवस्थितपृथुतरघटादिद्रव्यसमवेतशुक्लादिरूपाभिव्यक्तौ सकलस्यैव यावद्व्यवर्तिन उपसन्धिः स्यात निरवयवत्वात् न हि एकस्य तस्य अवयवा विद्यन्ते येन एकदेशाभिव्यक्तिर्भवेत । एवं '५ गध-रस-स्पर्शानामपि तदाधारैकदेशस्थानामभिव्यक्ती यावद्दव्यभाविनामपलब्धिप्रसङ्गः । अथ भवत्येव सकलस्य नीलादेरुपलब्धिः नेनु तेन आलोकादिना नीलादेरणुशो भेदाभ्युपगमे पृथिव्यादिपरमाणुद्रव्यवद् अणुपरिमाणयोगित्वेन गुणवत्त्वाद् द्रव्यताप्रसक्तिर्भवेत् । न चैवमपि गुणसंशाकरणे कश्चिद् गुणः अविवादप्रसक्तेः । न च अणुत्वेऽपि आश्रितत्वाद् गुणत्वमुपपन्नम् सदसतोराश्रयानुपपत्तेः, अतिप्रसङ्गाश्च-अवयविद्रव्यस्यापि अवयवद्रव्याश्रितत्वाद् गुणत्वापत्तेः।
संख्या तु एकादिव्यवहारहेतुः एकत्वादिलक्षणा परैरभ्युपगता । सा पुनः एकद्रव्या च अनेका द्रव्या च । तत्र एकसंख्या एकद्रव्या, अनेकद्रव्या तु द्वित्वादिसंख्या । तत्र एकद्रव्यायाः सलिलादिपरमाण्वादिगतरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः अनेकद्रव्यायास्तु एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः अपेक्षाबुद्धिविनाशाद् विनाशः क्वचिद् आश्रयविनाशादिति । इयं च द्विविधाऽपि संख्या प्रत्यक्षत एव सिद्धा, विशेषबुद्धश्च निमित्तान्तरापेक्षत्वाद् अनुमानतोऽपि सिद्धिः इति परे १५ मन्यन्ते । अत्र समुदायव्यावृत्तैकत्वादिसंज्ञाविषयपदार्थव्यतिरेकेण उपलब्धिलक्षणप्राप्तायाः संख्याय अनुपलब्धेरसत्त्वं शशविषाणवत् । न च विशेषणमसिद्धम् तस्या दृश्यत्वेन इष्टेः । तथा च सूत्रम्"संख्या-परिमाणानि पृथक्त्वम् संयोग-विभागौ परत्वाऽपरत्वे कर्म च रूपिसमवायाचाक्षुषाणि" [वैशेषिकद०४-१-११] न च विशेषबुद्धितोऽनुमानतोऽपि संख्यासिद्धिः यतो यथा 'एको गुणः' 'बहवो गुणाः' इत्यादौ संख्यामन्तरेणापि एकादिबुद्धिस्तथा घटादिप्वपि असहायादिषु स्वेच्छाविर-२० चितैकत्वादिसंकेताहितमनस्कारप्रभवमेकादिज्ञानं भविष्यतीति किमेकादिसंख्यया? न च गुणेषु
१ "द्रव्ये महति नीलादिरेक एव यदीष्यते । रन्ध्रालोकेन तव्यक्तो व्यक्तिदृष्टिश्च नास्य किम् ?" ॥
-तत्त्वसं० का० ६३६ पृ. २११ । २"तत्र च द्रव्ये यद्येकमेवानवयवं नीलादि चतुर्विधमिध्यते तदा सूक्ष्मेणापि कुञ्चिकादिविवरवर्तिना प्रदीपाद्यालोकेन त्वपवरकादिस्थितपृथुतरघटादिद्रव्यसमवेतस्य नीलादिरूपस्याभिव्यक्तौ सत्यां सकलस्यैव यावद्र्व्यवर्तिनो रूपादेरभिव्यक्तिरुपल. ब्धिश्च प्राप्नोति निरवयवत्वात्"-तत्त्वसं० पजि० पृ० २११५० १५-1 ३"न च देशविभागेन स्थितो नीलादिरिष्यते । व्यज्यते यस्तदा तेन तस्य भेदोऽणुशस्ततः" ।
-तत्त्वसं. का. ६३७ पृ० १११। ४ "तत्र एकादिव्यवहारहेतुरेकलादिलक्षणा सङ्ख्या सा पुनरेकद्रव्या चानेकद्रव्या च" इत्यादि-तत्त्वसं० पजि. पृ. २१२ पं० ४-1
"एकादिव्यवहारहेतुः संख्या । सा पुनरेकद्रव्या चानेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणु-रूपादीनामिव नित्यानित्यत्वनिष्पत्तयः । अनेकद्रव्या तु द्विवादिका परार्धान्ता । तस्याः खलु एकवेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः अपेक्षाबुद्धिविनाशाद् विनाश इति"-प्रशस्त० के० पृ. १११ पं०३-1
५ "विशेषबुद्धेश्च निमित्तान्तरापेक्षवादनुमानतोऽपीति परो मन्यते"-तत्त्वसं० पनि पृ० २१२ पं० ८-।
६ संख्याः मु. वै० द० मू० । गू० वै० द० । “ 'संख्याः ' इति बहुवचनमेकवादिकाः सर्वा एव संख्याः संगृह्णाति" इति-गू. वै. द. पृ. १८२ पं० १३ उपस्कारवचनाद् मूलसूत्रस्थं बहुवचनमेवोचितं भाति" । पञिकायां तु “संख्या-परिमाणानि" इत्यादिपाठः-पृ० २१२ पं० १५।
"अतद्रूपपरावृत्तगजादिव्यतिरेकिणी । न सङ्ख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत्"।-तत्त्वसं० का० ६३८ पृ० २१२।
७ "इच्छारचितसंकेतमनस्कारान्वयं खिदम् । घटेष्वेकादिविज्ञानं ज्ञानादाविव वर्तते ॥ अद्रव्यत्वाच संख्यास्ति तेषु काचिद् विमेदिनी । तज्ज्ञानं नैव युक्तं तु भाक्तमस्खलितत्वतः" ॥
-तत्त्वसं० का०६३९-६४० पृ. २१२ ।