________________
६७२
तृतीये काण्डे
पदार्थषोडशकस्य षट्स्वेव अन्तर्भावात् तमश्छायादीनां च तेजोऽभावरूपत्वात् न तदधिकपदार्थसद्भाव इति वक्तव्यम्, द्रव्यादीनामपि षण्णां प्रमाणप्रमेयरूपपदार्थद्वयेऽन्तर्भावात् पदार्थषट्कस्याऽपि अनुपपत्तेः । अथ तदन्तर्भावेऽपि अवान्तरविभिन्नलक्षणवशात् प्रयोजनवशाद् वा द्रव्यादिषट्कव्यवस्था तर्हि तत एव प्रमाणादिषोडशकव्यवस्था तमश्छायादिद्रव्यान्तरव्यवस्थाऽपि भवि. ५ष्यति इति 'न्यूनाधिक'-इत्यादिविशेषणानुपपत्तिरेव । न च तमश्छायादेहलत्वादितरतमविशेषयोगिनः विशिष्टार्थक्रियानिर्वर्तनसमर्थस्य च भासामभावरूपतेति वक्तव्यम्, भासामप्येवं तमश्छायाऽभावरूपताप्रसक्तेः । न च आवारकद्रव्यसन्निधानापेक्षतेजोऽभावरूपता तयोः, स्वसामग्रीतो विशिष्टपदार्थोत्पत्तौ प्रतियोग्यभावरूपत्वे भासामपि तथात्वोपपत्तेः । यदपि मधुर-शीतद्रव्योप
योगाद् ये गुणाः समुपजायन्ते छायादिसेवनादपि ते प्रादुर्भवन्तीत्युपचारात् 'छाया मधुर-शीतला' १० इत्युच्यते तत् तेजस्यपि समानम् । यथा च छाया-तमसोः पुद्गलद्रव्यात्मकत्वं तथा प्राक् प्रति. पादितमिति न पुनरुच्यते । तदेवं 'पृथिव्यादीनि नव द्रव्याणि' इत्यनुपपन्नम् तत्सद्भावप्रतिपादकप्रमाणाभावात् बाधकस्य च प्रदर्शितत्वात् ।
द्रव्याभावाच्च गुणादयो विशेषपर्यन्ताः असन्त एव, तेषां तदाश्रितत्वाभ्युपगमात् आश्रयाभावे च तदाश्रितानां तत्परतन्त्रतयाऽवस्थानासंभवात् । गुण-कर्मणां च साक्षाद्रव्याश्रितत्वं परैरभ्युप१५ गतम् । तथा च सूत्रम्-"द्रव्याश्रयी अगुणवान् संयोग-विभागेष्वकारणम् अनपेक्ष इति गुण
लक्षणम्"। [वैशेषिकद० १-१-१६ ] "एकद्रव्यम् अगुणम् संयोग-विभागेष्वनपेक्षम् कारणम् इति कर्मलक्षणम्" । [वैशेषिकद० १-१-१७] एकमेव एकस्मिन्नेव च द्रव्ये आश्रितमेकद्रव्यं कर्म । गुणास्तु केचिद् अनेकस्मिन् वर्तन्ते संख्या-संयोगादयः, अनेके वा एकदा एकत्र वर्तन्ते रूपरसादयः । सामान्यविशेषाश्च केचिद् द्रव्यत्व-पृथिवीत्वादयो द्रव्यवृत्तय एव गुणत्व-कर्मत्वादयस्तु २० द्रव्यसंबन्ध(बद्ध)गुण-कर्माश्रिताः । सत्तासामान्यं तु द्रव्य-गुण-कर्मवृत्ति । विशेषास्तु नित्यद्रव्येष्वेव
वर्तन्त इति द्रव्यप्रतिषेधे गुणादिप्रतिषेधः प्रसिद्ध एव । समायस्तु पञ्चपदार्थवृत्तिरूपः पञ्चपदार्थनिषेधे निषिद्ध एव, सर्वाश्रयाश्रिताभावे तस्याऽभावात । ततो ढव्यनिषेधादेव अशेषपदा सिद्धावपि विशेषतो गुणादिप्रतिषेधः प्रदर्श्यते परदर्शनस्य सर्वथाऽयुक्तताप्रदर्शनात् ।
[क्रमशो रूपादिगुणानां प्रक्रियामपन्यस्य तेषां खण्डनम् ] २५ तत्र "रूप-रस-गन्ध-स्पर्शाः संख्याः परिमाणानि पृथक्त्वम् संयोग-विभागौ परत्वाऽपरत्वे
बुद्धयः सुखदुःखे इच्छा-द्वेषौ प्रयत्नश्च गुणाः”। [वैशेषिकद०१-१-६] इति सूत्रसंगृहीताः सप्तदश, 'च'शब्दसमुच्चिताः-गुरुत्व-द्रवत्व-स्नेह-संस्कार-धर्माऽधर्म-शब्दाश्च सप्त गृह्यन्ते इति चतुर्विंशतिर्गुणाः । तत्र चक्षुाचं रूपं पृथिव्युदकज्वलनवृत्ति । रसो रसनेन्द्रियग्राह्यः पृथिव्युदकवृत्तिः । गन्धो
१ पृ. ५४३ पं० १४-टि. १३ । २"द्रव्याणां प्रतिषेधेन सर्व एव तदाश्रिताः । गुण-कर्मादयोऽपास्ता भवन्त्येव तथा मताः"॥
-तत्त्वसं० का० ६३४ पृ० २१०। १"गुणव-कर्मलादयश्च द्रव्यसंबद्धगुण-कर्मपदार्थवृत्तयः"-तत्त्वसं० पजि. पृ० २१० पं० २३ । "क कस्य समवायश्च संबन्धिन्यपहस्तिते । विशेषप्रतिषेधोऽयं तथापि पुनरुच्यते" ॥
-तत्त्वसं० का०६३५पृ० २११ ५"तत्र 'रूप-रस-गन्ध-स्पर्शाः सङ्ख्या-परिमाणानि पृथक्त्वम् संयोग-विभागौ परवापरले बुद्धयः सुख-दुःखे इच्छाद्वेषो प्रयत्नश्च गुणाः' इति सूत्रम् । चशब्दाद् गुरुख-द्रवत्व-स्नेह-संस्कार-धर्माधर्म-शब्दाश्च परिगृह्यन्ते"-तत्त्वसं० पजि. पृ. २११५०६-1
"गुणाश्च रूप-रस-गन्ध-स्पर्श-साया-परिमाण-पृथक्व-संयोग-विभाग-परखाऽपरत्व-बुद्धि-सुख-दुःखेच्छा-द्वेषप्रयत्नाश्चेति कण्ठोक्काः सप्तदश । चशब्दसमुच्चिताश्च गुरुत्व-द्रवल-स्नेह-संस्काराऽदृष्टशब्दाः सप्तैव इत्येवं चतुर्विंशतिर्गुणाः" -प्रशस्त. कं० पृ० १० पं० ११-1
६ तत्त्वसं० पजि.पृ. २११५०८-1
"तत्र रूपं चक्षुर्माह्यम् पृथिव्युदकज्वलनवृत्ति xxxरसो रसनग्राह्यः पृथिव्युदकवृत्तिःxxxगन्धो घ्राणग्राह्यः पृथिवीवृत्तिः" इत्यादि गुणग्रन्थगतं समग्रं गुणनिरूपणमत्रावगन्तव्यं सविस्तरं विज्ञातुकामेन-प्रशस्त० के० पृ. १०४-२८९.