________________
ज्ञेयमीमांसा।
६७१ खाकारानुकारिप्रत्ययजनकस्य तद्विषयत्वात् निरंशस्य च पौर्वापर्यादिविभागाभावतस्तथाभूतप्रत्ययोत्पादकत्वासंभवात् । तथाभूतप्रत्ययाद् विपरीतार्थसिद्धेः इष्टविपर्ययसाधनात् विरुद्धश्चैवं हेतुः स्यात् । अथ बाह्याऽऽध्यात्मिकभावपौर्वापर्यनिबन्धनस्य दिक्-कालयोः पौर्वापर्यव्यपदेशस्य भावान हेतो. विरुद्धता । नन्वेवं दिक्-कालपरिकल्पना व्यर्था तत्साध्याभिमतस्य कार्यस्य बाह्याऽऽध्यात्मिकैः संबन्धिभिरेव निर्वर्तितत्वात् । तथाहि-दिक् पूर्वापरादिव्यवस्थाहेतुरिष्यते कालश्च पूर्वापरक्षण-लव-५ निमेष-कला-मुहूर्त-प्रहर-दिवस-अहोरात्र-पक्ष-मास-ऋतु-अयन-संवत्सरादिप्रत्ययप्रसवनिमित्तोऽभ्युपगतः, अयं च स्वरूपभेदः स्वात्मनि तयोः समस्तोऽप्यसंभवी तत्संबन्धिषु पुनर्भावेषु विद्यमानस्तत्र प्रत्ययहेतुरिति व्यर्था तत्प्रकल्पना । अथ तत्संबन्धिष्वपि अयं भेदः अपरक्रियादिभेदनिमित्तस्तर्हि तत्रापि एवम् इति अनवस्थाप्रसक्तिः । अथ पदार्थेषु पूर्वापरभेदः कालनिमित्तः ननु कालोऽप्यसौ न स्वतः इति अपरकालनिमित्तो यद्यभ्युपगम्यते तदा अनवस्था । अथ पदार्थभेद-१० निमित्तस्तदा इतरेतराश्रयत्वप्रसङ्गः । अथ तत्र स्वत एव अयं भेदः पदार्थेष्वपि स्वत एव अयं किं नाभ्युपगम्यते? ततश्च पुनरपि दिक्-कालप्रकल्पनं व्यर्थम् ।
मनःसांधनेऽपि हेतौ कारणमात्रे साध्ये सिद्धसाध्यता मनस्कारादेश्चक्षुरादिव्यतिरिक्तस्य कारणमात्रस्येष्टेः । विशेषेण तु नित्यैकमनःसाधने अनन्वयदोषः प्रतिज्ञायाश्च अनुमानबाधा इष्टविपर्ययसाधनाद् विरुद्धश्च हेतुः इति दोषाः पूर्ववद् वाच्याः । चक्षुरादिव्यतिरिक्ताऽनित्यकारण-१५ सापेक्षत्वस्य साधनाद् विरुद्धता प्रकटैव अन्यथा हि अत्रापि नित्यकारणत्वे चेतसामविकलकारणत्वात् क्रमोत्पत्तिर्विरुद्धैव भवेत् । तन्न पृथिव्यादेर्मनःपर्यन्तस्य द्रव्यनवकस्य प्रमाणतः सिद्धिः । ततः 'पृथिव्यादीनि द्रव्याणि इतरेभ्यो भिद्यन्ते, द्रव्यत्वाभिसंबन्धात्' इत्यादिहेतूपन्यासोऽयुक्त एव, तत्स्वरूपासिद्धौ हेतोराश्रयासिद्धत्वदोषात्, स्वरूपासिद्धश्च अयं हेतुः द्रव्यत्वाभिसंबन्धस्य समवायलक्षणस्य असिद्धेः, विशेषणासिद्धश्च द्रव्यत्वसामान्यस्य निषिद्धत्वात् निषेत्स्यमानत्वाच्च । न चात्र २० अन्वयः सिद्धः, साधर्म्यदृष्टान्तस्य अभावात् । न च सपक्षाभावे केवलव्यतिरेकी हेतुर्गमकः, प्रतिबन्धप्रसाधकप्रमाणविषयसाधर्म्यदृष्टान्ताभावे सर्वत्र साध्याभावात् साधनस्य व्यावृत्त्यसिद्धेः । ""साध्यसद्भावे एव सर्वत्र साधनसद्भावः' इत्येवंभूतान्वयाऽप्रसिद्धौ ‘साध्याभावे सर्वत्र साधनस्य अभावः' इति सकलाक्षेपेण व्यतिरेकस्यासंभवात्” [
] इत्यादेायस्य असकृत् प्रतिपादितत्वात् । यदपि 'नवैव द्रव्याणि' इत्यादिप्रयोगप्रतिपादनम्, तदप्यसंगतमेव; तत्स्वरूपा-२५ सिद्धौ तत्संख्यासिद्धेर्दुरापास्तत्वात् । न च लक्षणयोगित्वमपि तेपाम् असिद्धपृथिवीत्वाभिसंबन्धादेर्लक्षणस्य अनुपपत्तेः । अत एव अन्योन्यव्यावृत्तादेर्विशेषणस्यानुपपत्तिः विशेष्याभावे विशेषणस्याप्यसंभवात् । 'न्यूनाधिक-' इत्याद्यपि तद्विशेषणमसंगतम्, प्रमाण-प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्त अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभासच्छल-जाति-निग्रहस्थानानां नैयायिकाभ्युपगतपदार्थानां षट्पदार्थाधिकानाम् तमश्छायादीनां च नवद्रव्याधिकानां सद्भावात् । न च ३०
१"तथाहि-कालः पूर्वापरक्षणलवनिमेषकाष्ठाकलामुहूर्ताहोरात्राऽर्धमासादिप्रत्ययप्रसवहेतुः दिक् च पूर्वोत्तरादिव्यवस्थाहेतुरिष्यते"-तत्त्वसं० पजि. पृ० २०९ पं० १३। २ "चक्षुराद्यतिरिक्तं तु मनोऽस्माभिरपीष्यते । षण्णामनन्तरोद्भूतप्रत्ययो यो हि तन्मनः" ॥
-तत्त्वसं० का० ६३१ पृ० २०९। ३ "नित्ये तु मनसि प्राप्ताः प्रत्यया योगपद्यतः। तेन हेतुरिह प्रोक्तो भवतीष्टविघातकृत् ॥ सौगतापरनिर्दिष्टमनःसंसिद्धपसिद्धये । साकारमन्यथाऽऽवृत्तं मन्ये सूत्रमिदं कृतम्" ॥
-तत्त्वसं• का० ६३२-६३३ पृ. २०९-२१० । ४ पृ. ६५६ पं० २७। ५पृ. ६५६ पं. ३२॥ ६ न्यायद० १-१-१। ७ पृ. ५४३ टि. १३ । "से पूणं भंते ! दिया उज्जोए राति अंधयारे ? हंता, गोयमा | जाव-अंधयारे । से केणटेणं? गोयमा ! दिया सुभा पोग्गला सुमे पोग्गलपरिणामे, राति असुभा पोग्गला असुमे पोग्गलपरिणामे । से तेणढण."।
-भगव० श. ५ उ०९ सू० २२४ पृ०२४६ । "सइंधयारउजोओ पहा छायाऽऽतवे इ वा । वण्ण-रस-गंध-फासा पुग्गलाणं तु लक्खणं" ॥
-उत्तरा० अ०२८ गा० १२ । नवत. गा०९।