________________
६७०
तृतीये काण्डेलम्भाद् अनुमीयते इन्द्रियार्थव्यतिरिक्तं हेत्वन्तरमस्ति इति यत्सन्निधानाऽसन्निधानाभ्यां ज्ञानस्य उत्पत्त्यनुत्पत्ती भवतः । तथा च प्रयोगः-रूपाद्युपलब्धिः आत्मबाह्येन्द्रियार्थव्यतिरिक्तहेत्वन्तरा. पेक्षा, क्रमेण उपजायमानत्वात्, रथादिवत्।
__ अत्र प्रतिविधीयते-यदि सामान्येन आश्रितत्वमात्रं शब्दानां साध्यते तदा सिद्धसाध्यता तेषां ५भूतकार्यतया तदाश्रितत्वात् कार्यस्य कारणप्रतिबद्धात्मलाभतया तदाश्रितत्वाभ्युपगमात् । अर्थ एक-नित्याऽमूर्त-विभुद्रव्यसमवेतत्वेन एषामाश्रितत्वं साध्यते तदा तथाभूतसाध्यान्वितत्वस्य दृष्टान्ते हेतोरभावात अनैकान्तिकता हेतोः, प्रतिज्ञायाश्च अनुमानविरोधित्वम् । तथाहि-यदि नित्यैकव्यापिनभोद्रव्यसमवेताः शब्दा भवेयुस्तदा एकदोत्पन्नानेकशब्दवद् अन्यकाला अपि ते तदैव
स्युः अविकलकारणत्वात् एकाश्रयत्वाच्च । न च सहकार्यपेक्षा नित्यस्य संभवति इति प्रतिपादितम् । १० नापि समवायित्वमनुपकारिणो युक्तम् अतिप्रसङ्गात् । ततोऽक्रमभावित्वप्रसङ्गो व्यवस्थितः । तत्कारणस्य नित्यत्वे व्यापित्वे च शब्दानां सर्वपुरुषैर्ग्रहणप्रसङ्गः । तथाहि-आकाशात्मकं श्रोत्रम् आकाशं च एकमेव इति तत्प्राप्तानां सर्वेषामपि श्रवणं स्यात् । न च निरवयवाकाशे अयं विभाग:'इदमात्मीयं श्रोत्रम्' 'इदं च परकीयम्' इति । अथ यदीयधर्माऽधर्माभिसंस्कृतकर्णशष्कुल्यवरुद्धं
नभः तत् तस्य श्रोत्रमिति विभागः, अत एव नासिकादिरन्ध्रान्तरेण न शब्दोपलम्भः संजायते, १५ तत्कर्णशष्कुलीविघाताद् बाधिर्यादिकं च व्यवस्थाप्यते इति, असदेतत्; अनंशस्य नभस एवंविधविभागानुपपत्तेः । न च पारमार्थिकविभागनिष्पाद्यं फलं परिकल्पितावयवविभागो निर्वर्तयितुं क्षमः अतिप्रसङ्गात् अन्यथा मलयजरसादिकमपि पावकप्रकल्पनया प्लोषादिकार्य विदध्यात् । न च कल्पिततदवयववशादपि प्रतिनियतशब्दोपलम्भदर्शनान्नायं दोषः, शब्दोपलम्भकार्यस्य अन्यथा सिद्धत्वात् । न च 'संयोगस्य अव्याप्यवृत्तित्वकृता आकाशस्य देशाः' इति व्यपदेशः, प्रागेव अस्य २० प्रतिषिद्धत्वात् । अपि च, अनल-कर्णशष्कुल्यादयोऽपि समानदेशाः स्युः अभिन्नैकनभः-संसर्गित्वात् । तथाहि-येन एको वियत्स्वभावेन संयुक्तस्तेनैव अपरोऽपीति तद्देशभावी सोऽपि स्यात् तत्संयुक्तखभाववियत्संसर्गित्वात् तद्देशावस्थिताऽनलवत् । शब्दानामपि अत एव एकदेशत्वात् एकोपलम्मे सर्वोपलब्धिश्च स्यात् । दूरासन्नाद्यवस्थायिता तु भावानां प्रतीतिगोचरा विरोधिनी
च भवेत्। २५. . दिक्-कालसाधनप्रयोगेष्वपि एते दोषाः-सामान्येन साधने सिद्धसाध्यता । विशेषसाधने
हेतोरन्वयाद्यसिद्धिः अनुमानबाधितत्वं च प्रतिज्ञायाः इति-समानाः । तथाहि-पूर्वापरोत्पन्नपदार्थविषयपूर्वापरशब्दसंकेतवशोद्भूतसंस्कारनिबन्धनत्वात् प्रकृतप्रत्ययस्य कारणमात्रे साध्ये कथं न सिद्धसाध्यता? विशेषे च कथं नान्वयासिद्धिः? अनुमानबाधा च प्रतिज्ञायाः पूर्ववद भावनीया।
अत एव नेतरेतराश्रयदोषोऽपि पूर्वपक्षोदितो विशिष्टपदार्थसंकेतप्रभवत्वेऽस्य प्रत्ययस्य । किञ्च, ३० निरंशैकदिक्-कालाख्यपदार्थनिमित्तत्वं पराऽपरादिप्रत्ययस्य प्रसाधयितुमभ्युपगतम्, तच्चायुक्तम्। १ "उपात्तादिमहाभूतहेतुखाङ्गीकृतेव॑नेः । सिद्धा एवाश्रिताः शब्दास्तेष्वित्याद्यमसाधनम्॥
-तत्त्वसं० का० ६२७ पृ. २०७। २ “एकव्यापिधुवव्योमसमवायस्तु सिध्यति । नैषामन्वयवैकल्यादक्रमाद्याप्तितस्तथा" ॥
-तत्त्वसं० का० ६२८ पृ. २०७॥ ३ "काल-दिक्साधनयोरपि सामान्येन सिद्धसाध्यता विशेषेणान्वयासिद्धिहेतोः प्रतिज्ञायाश्च अनुमानबाधेति"
-तत्त्वसं० पजि. पृ० २०८पं० २१ । ४ प्र. पृ० पं०४-1 ५ "विशिष्टसमयोद्भूतमनस्कारनिबन्धनम् । परापरादिविज्ञानं न कालान्न दिशश्च तत् ॥ निरंशैकखभावलात् पौर्वापर्याद्यसंभवः । तयोः संबन्धिमेदाच्चेदेवं तौ निष्फलौ ननु" ॥
-तत्त्वसं० का० ६२९-६३० पृ० २०८ । ६ पृ. ६६९ पं०१३। ७ परादिन-भां. मां. आ० । “परापरादिज्ञानस्य निरंशैकदिक्कालाख्यपदार्थनिबन्धनखं साधयितुमिष्टम्"
-तत्त्वसं० पजि. पृ. २०९५०४-५ ।