________________
ज्ञेयमीमांसा।
६६९
'परः पिता' 'अपरः पुत्रः' 'युगपत्' 'अयुगपत्' वा तथा, 'चिरम्' 'क्षिप्रम्' वा 'कृतम्' 'करिष्यते' वा इति यत् पराऽपरादिज्ञानम् तत् आदित्यादिक्रिया-द्रव्यव्यतिरिक्तपदार्थनिबन्धनम्, तत्प्रत्ययविलक्षणत्वात् , घटादिप्रत्ययवत् । योऽस्य हेतुः स पारिशेष्यात् कालः। यतः न तावत् पराऽपरादिप्रत्ययः दिग्देशकृतोऽयम्, स्थविरे अपरदिग्भागावस्थितेऽपि 'परोऽयम्' इति प्रत्ययोत्पत्तेः । तथा, यूनि परदिग्भागावस्थितेऽपि 'अपरोऽयम्' इति ज्ञानप्रादुर्भावात् । न च वली-पलितादिकृतोऽयं ५ प्रत्ययः, तत्कृतप्रत्ययवैलक्षण्येन उत्पत्तेः । नापि क्रियानिर्वर्तितः, तत्प्रतिभावितज्ञानवैलक्षण्येन संवेदनात् । तथा च सूत्रम्-"अपरस्मिन् परं युगपद् अयुगपत् चिरं क्षिप्रमिति काललिङ्गानि" [वैशेषिकद० २-२-६] इति । आकाशवदेव अस्यापि विभुत्व-नित्यत्वैकत्वादयो धर्मा अवगन्तव्याः। ___दिगैपि एकादिधर्मोपेतं द्रव्यं प्रमाणतः सिद्धम् । तथाहि-मूर्तेष्वेव द्रव्येषु मूर्तं द्रव्यमवधि कृत्वा 'इदमस्मात् पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण १० अधस्तात् उपरिष्टात्' अमी दश प्रत्यया यतो भवन्ति सा दिग इति । तथा च सूत्रम्-"'अत इदम्' इति यतस्तद् दिशो लिङ्गम्" [वैशेषिकद० २-२-१०] इति । एते हि विशेषप्रत्यया न आकस्मिकाः संभवन्ति । न च परस्परापेक्षमूर्तद्रव्यनिमित्ताः, इतरेतराश्रयत्वेन उभयप्रत्ययाभावप्रसक्तेः । ततोऽन्यनिमित्तोत्पाद्यत्वासंभवाद् एते दिशो लिङ्गभूताः । दिशश्च विभुत्वैकत्व-नित्यत्वादयो धर्माः कालवद् अवगन्तव्याः। एतस्याश्च एकत्वेऽपि प्राच्यादिभेदेन नानात्वं कार्यविशेषाद् व्यवस्थितम् । १५ प्रयोगश्चात्र-यदेतत् पूर्वाऽपरादिज्ञानम् तद् मूर्तद्रव्यव्यतिरिक्तपदार्थ निबन्धनम्, तत्प्रत्ययविलक्षणत्वात्, सुखादिज्ञानवत् इति । ___आत्मद्रव्यस्य च विभुत्वादिधर्मोपेतस्य पराऽभ्युपगतस्य प्रागेव प्रतिषेधः कृतः इति न तत्पूर्वपक्षः पुनः प्रदर्श्यते।
मनोद्रव्यस्य तु युगपज्ज्ञानानुत्पत्तिर्लिङ्गम् । तथा च सूत्रम्-"युगपज्ज्ञानानुत्पत्तिर्मनसो२० लिङ्गम्" [ न्यायद० १-१-१६ ] इति । अनेकेन्द्रियार्थसन्निधाने सत्यपि एकदा क्रमेण ज्ञानोत्पत्युप
१ अपरं परं आ० हा० वि० । अपरमपरं वा० बा० । "तथा च सूत्रम्-अपरं परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानि"-तत्त्वसं० पजि. पृ० २०६० २० । "तथा सूत्रम्-अपरस्मिन् परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि"-न्यायकु. लि. पृ. १३९ द्वि. पं० १२ । "तथा च सूत्रम्-अपरस्मिन् परं युगपद् अयुगपत् चिरं क्षिप्रमिति काललिङ्गानि"-प्रमेयक० पृ० १६९प्र.पं०७॥
गूजरातीप्रेस-बनारससंस्कृतसिरीझसत्कयोवैशेषिकदर्शनसंस्करणयोः चोखम्बासंस्कृतसिरीझगते च वैशेषिकसूत्रपाठे समान एव पाठो मुद्रितो दृश्यते । यथा-"अपरस्मिन्नपर युगपच्चिरं क्षिप्रमिति काललिङ्गानि"-२-२-६ । गूजरातीप्रेसप्रकाशितानि तदुपस्कार-विवृति-भाष्याण्यपि तमेव पाठमनुसरन्ति । तत्र च पाठान्तरसूचिका टिप्पणी इत्थं दृश्यते"बॉम्बेरायलआशिआटिकसोसाइटीसंज्ञकग्रन्थसंग्रहालयस्थलिखितप्राचीनपुस्तके तु 'अपरस्मिन् परम्' इति पाठः सूत्र उपलभ्यते । उपस्कारे च 'अपरस्मिन् परम्' इत्यनेन 'परस्मिन् परम्' इत्यपि द्रष्टव्यमिति"-गू. वै० पृ. ९८ ।
२"पूर्वापरादिबुद्धिभ्यो दिगेवमनुमीयते।"-तत्त्वसं० का० ६२५ पृ. २०६। ३ "तथा च सूत्रम्-इत इदमिति यतस्तद् दिशो लिङ्गम्-इति"-तत्त्वसं० पजि.पृ० २०७५०३।
"तथा च सूत्रम्-अत इदमिति यतस्तद् दिशो लिङ्गम्"-न्यायकु. लि. पृ. १४३ प्र.पं. १३ । प्रमेयक. पृ० १७० प्र० पं० १३। ।
गूजरातीप्रेस-बनारससंस्कृतसिरीझ-चोखम्बासिरीझसत्केषु संस्करणेषु तु "इत इदमिति यतस्तद् दिश्यं लिङ्गम्" इति मुद्रितं दृश्यते।
४ पृ. १३४ पं०३१ ५ "क्रमेण ज्ञानजात्या च मनसोऽनुमितिर्मता ॥ चक्षुरादिविभिनं च कारणं समपेक्षते । क्रमेण जाता रूपादिप्रतिपत्ती रथादिवत्"।
-तत्त्वसं० का० ६२५-६२६ पृ० २०६। ६"तथा च सूत्रम्-युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्-इति-तत्त्वसं० पजि० पृ. २०७पं० १२। एतस्य न्यायदर्शनीयसूत्रस्य भाष्यम् , वार्तिकम् न्यायवार्तिकतात्पर्यटीका चात्रानुसंधानीया। मनोनिरूपणपर प्रशस्तपादभाष्यम् तत्कन्दल्यपि चात्रावबोद्धव्या-प्रशस्त. कं० पृ. ८९-९४ ।