________________
६६८
तृतीये काण्डेइदं वर्तते' इति बुद्धिविषयता न हि विवेकेन अप्रतिभासमाने कुण्डादौ बदरादिके 'इह कुण्डे बदराणि' इति प्रत्ययः प्रादुर्भवति । यदपि 'कात्म्यैकदेशाभ्यां वृत्तिन क्वचिदुपलक्षिता' इति, तदप्यसंगतम् ; बैदरादेः कुण्डादौ सर्वात्मना, वंशादेरेकदेशेन स्तम्भादौ वृत्तेरुपलक्षणात् । यदपि उक्तमुद्द्योतकरेण-"एकस्मिन् अवयविनि कृत्स्नैकदेशशब्दप्रवृत्त्यसंभवात् अयुक्तोऽयं प्रश्नः-'किमेक५ देशेन वर्तते, अथ कृत्स्नो वर्तते' इति । 'कृत्स्नम्' इति हि खल्वेकस्य अशेषाभिधानम्, 'एकदेशः' इति च अनेकत्वे सति कस्यचिदभिधानम् , ताविमौ कृत्स्नैकदेशशब्दौ एकस्मिन्नवयविनि अनुपपन्नौ" [२-१-३२ न्यायवा०1 इति, तदपि प्रत्यक्तं प्राक्तनन्यायेनैव । तथा च 'कृत्स्नः पटः कुण्डे वर्तते, एकदेशेन वा' इत्येवं पटादिषु कृत्स्नैकदेशशब्दप्रवृत्तिदृश्यत एव । न चेयमुपचरिता, अस्खलदृत्तित्वात् । न च शब्दप्रवृत्त्यनुपपत्तिमात्रप्रेरणया वस्त्वर्थस्य प्रतिषेधः शक्यते विधातुम् , तत्र तच्छब्दा१० प्रवृत्तावपि व्याप्त्यव्याप्तिशब्दयोः प्रवृत्त्युपपत्तेः । तथाहि-'अवयवी अवयवेषु वर्तमानः प्रत्यवयवं किं व्यात्या वर्तते, उत अव्यात्या' इत्येवं विवक्षितार्थाभिधाने न कंचिद् दोषमुत्पश्यामः । तन्न नित्यानित्यरूपपृथिव्यादिचतुःसंख्यं द्रव्यमुपपत्तिमत् । __ आकाशाख्यैकनित्यद्रव्यप्रसिद्धये शब्दं गुणत्वाल्लिङ्गत्वेन प्रतिपादयन्ति । तथा च परेषां प्रयोगः-ये विनाशित्वोत्पत्तिमत्त्वादिधर्माध्यासिताः ते क्वचिद् आश्रिताः, यथा घटादयः, तथा च १५शब्दाः, तस्मादेभिराश्रितैः क्वचिद् भवितव्यम्, यश्चैषामाश्रयः स पारिशेष्याद् आका
नायं शब्दः पृथिव्यादीनां वायुपर्यन्तानां गुणः, अध्यक्षग्राह्यत्वे सति अकारणगुणपूर्वकत्वात् , ये तु पृथिव्यादीनां चतुर्णा गुणास्ते बाह्येन्द्रियाध्यक्षत्वे सति अकारणगुणपूर्वका न भवन्ति, यथा रूपादयः, न च तथा शब्दः । एवम् 'अयावद्रव्यभावित्वात्' 'आश्रयाद् भेर्यादेरन्यत्रोपलब्धेश्च'
इत्यादयो हेतवो द्रष्टव्याः । स्पर्शवतां यथोक्तविपरीता गुणा उपलब्धाः। 'प्रत्यक्षत्वे सति' इति च २० विशेषणं परमाणुगतैः पाकजैः अनैकान्तिकत्वं मा भूत् इत्युपात्तम् । न च आत्मगुणः अहंकारेण विभक्तग्रहणात् बाह्येन्द्रियाध्यक्षत्वात् आत्मान्तरग्राह्यत्वाच्च, बुद्ध्यादीनामात्मगुणानां तद्वैपरीत्योपलब्धेः । न दिक्-काल-मनसाम् श्रोत्रग्राह्यत्वात् । अतः पारिशेष्याद् गुणो भूत्वा आकाशस्य लिङ्गम् । आकाशं च शब्दलिङ्गाविशेषात् विशेषलिङ्गाभावाच्च एकम् विभु च सर्वत्रोपलभ्यमानगुण
त्वात् समवायित्वे सति अनाश्रितत्वाच्च द्रव्यम्, अकृतकत्वान्नित्यम् । २५ परांऽपरव्यतिकर-योगपद्याऽयोगपद्य-चिर-क्षिप्रप्रत्ययलिङ्गः कालो द्रव्यान्तरम् । तथाहि
१ पृ. ६६७ पं० १३ तथा पं. ९ टि. २॥ २ "कृत्स्नैकदेशशब्दाभ्यामयं चार्थः प्रकाश्यते । नैरंश्येनास्य किं वृत्तिः किं वा तस्यान्यथैव सा ॥ यथा पात्रादिसंस्थस्य श्रीफलादेर्यथाऽथवा । अनेकासनसंस्थस्य चैत्रादेरुपलक्षिता" ॥
-तत्त्वसं० का० ६२०-६२१-पृ० २०५। ३"एकस्मिन् कृत्स्नैकदेशशब्दासंभवादप्रश्नः-किमवयव्येकदेशेन वर्तते अथ कृत्स्नेनैव वर्तत इति न युक्तः प्रश्नः-नाव. यवी कृत्स्नो नैकदेशः । कृत्स्नमिति खलु अनेकस्याशेषस्याभिधानम् । एकदेश इति चानेकले सति कस्यचिदभिधानम् । ताविमौ कृत्स्नैकदेशशब्दावेकस्मिन्ननुपपन्नौ" इत्यादि-न्यायवा० पृ. २१४ पं० १३-। तथा पृ० ५०५५०६-१२ ।
"वृत्त्यनुपपत्तेश्च नैकत्रावयवे कासयेनावयवी वर्तते । तेष्वपि कथं वर्तते ? अन्यैरेकदेशैः तेष्वपि अन्यैरिति नास्त्यन्यः" इत्यादि-न्यायमज आ० ९ पृ. ५४९ पं० १२-१३ ।
४"एवं वायुपर्यन्तं चतुर्विधं द्रव्यमपास्तम् आत्माख्यं तु प्रागेवात्मपरीक्षायां निरस्तम् । इदानीमाकाश-काल-दिगमनसा प्रतिषेधार्थमाह-"तत्त्वसं० पजि. पृ. २०५५० २० । ५ "समाश्रिताः क्वचिच्छब्दा विनाशिवादिहेतुतः । घठ-दीपादिवत् तच किल व्योम भविष्यति"॥
-तत्त्वसं. का. ६२२ पृ. २०५। "आदित्यादिक्रियाद्रव्यव्यतिरेकनिबन्धनम् । परापरादिविज्ञानं घटादिप्रत्ययो यथा ॥ वलीपलितकार्कश्यगत्यादिप्रत्ययादिदम् । यतो विलक्षणं हेतुः स च कालः किलेष्यते" ॥
-तत्त्वसे० का० ६२३-६२४ पृ. २०६। "द्रव्यशब्देन वलीपलितादयो ग्रहीतव्याः । परः पिता अपरः पुत्रः युगपत् चिरम् क्षिप्रम् क्रियते कृतं करिष्यते चेति यदेतत् परापराविज्ञानम्" इत्यादि-तत्त्वसं० पजि० पृ० २०६ पं० १४-१५ ।