________________
ज्ञेयमीमांसा।
६६७
अवयविनः स्युः स्वभावमेदमन्तरेण प्रत्यवयवं तस्य सर्वात्मना वृत्त्यनुपपत्तेः । एवं च युगपदनेककुण्डादिव्यवस्थितबिल्वादिवद् अनेकावयव्युपलब्धिप्रसक्तिः । अथ एकदेशेन असौ तेषु वर्तते इति
नवस्थाप्रसक्तिः तेषु अपि अवयवेषु वृत्तौ अपरैकदेशवत्तिकल्पनया । अथ यैरेकदेशैरवयवी अवयवेषु वर्तते ते तस्य स्वात्मभूता इति नानवस्था तर्हि तद्वत् पाण्यादयोऽपि अवयवास्तस्य खात्मभूताः किं नाऽभ्युपगम्यन्ते ? तथाऽभ्युपगमे चापरावयवप्रकल्पना न स्यात् अवयवप्रचया-५ त्मकत्वात् तस्य।
नन्विदं प्रसङ्गसाधनम्, खतन्त्रसाधनं वा? स्वतन्त्रसाधने अवयविनोऽप्रसिद्धराश्रयासिद्धत्वादिदोषः । न च वृत्या परस्य सत्त्वं व्याप्तम् येन तन्निवृत्तौ तत्सत्त्वव्यावृत्तिर्भवेत् वृत्त्यभावेऽपि रूपादेः परेण सत्त्वाभ्युपगमात् । एकदेशेन सर्वात्मना वा अवयविनो वृत्तिप्रतिषेधे विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानलक्षणत्वात् प्रकारान्तरेण वृत्तिरभ्युपगता स्यात् । यथा च वृत्तिद्वयमुपलम्भादभ्युप-१० गम्यते तथा अवयविनि वृत्तेरुपलम्भात् प्रकारान्तरेण असो किं नाभ्युपगम्यते? वृत्तिश्च समवायः तस्य सर्वत्रैकत्वात् निरवयवत्वाच्च कृत्स्नैकदेशशब्दाविषयत्वम् । अथ प्रसङ्गसाधनम् तदपि अवयविनः वृत्तेश्च अनुपलम्भेऽयुक्तम् । न च परस्य भवतो वा कारुयैकदेशाभ्यामनेकस्मिन् एकस्य वृत्तिरुपलब्धिगोचरः यस्या असंभवाद् अवयविद्रव्यमसत् स्यात् । अथ एवंभूता वृत्तिः क्वचिद् उपलब्धा तदा अवयविन्यपि सा भविष्यतीति न तत्प्रतिषेधो युक्तः, वृत्तिमात्रस्य चानुपलम्भे १५ 'एकदेशेन सर्वात्मना वा' इति विशेषप्रतिषेधोऽनुपपन्नः सिद्ध धर्मिणि तस्योपपत्तेः धर्म्यसिद्धौ च तस्यैव प्रतिषेधो विधेयः तेनैतावदेव वक्तव्यम् 'वृत्तिरेव नास्ति' इति, न चैतदपि युक्तम् । अध्यक्षत एव अवयवेषु अवयविनो वृत्तिसिद्धेः । तथाहि-इन्द्रियव्यापारे सति 'इह तन्तुषु पटः' इति बुद्धिरबाधितरूपोपजायत एव । न च अबाधितरूपाया अस्या अप्रत्यक्षत्वं युक्तम् रूपादिस्खलक्षणग्राहिणोऽप्यध्यक्षस्य अनध्यक्षताप्रसक्तेः-अविशेषात् , असदेतत् ; यतो नेमस्माभिः स्वतन्त्रसाधनमभिधी-२० यते किन्तु प्रसङ्गसाधनम् , तस्य च 'व्याप्यव्यापकभावसिद्धौ व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः व्यापकनिवृत्तिर्वा व्याप्यनिवृत्त्यविनाभाविनी' इत्येतत्प्रदर्शनफलस्य प्रवृत्तियुक्तैव । व्याप्यव्यापकभावसिद्धिश्चात्र लोकप्रसिद्धैव भवताऽभ्युपगमनीया । लोकश्च कस्यचित् सर्वात्मना वृत्ति कुत्रचिभ्युपगच्छति, यथा-श्रीफलस्य कुण्डादौ, क्वचिच्च कस्यचिद् एकदेशेन, यथा-अनेकपीठाधिशयितस्य चैत्रादेः। यत्र च प्रकारद्वयं वृत्तावृत्तं तत्र वृत्तेरभाव एव कथं न व्याप्तिसिद्धिर्येनात्र २५ प्रसङ्गसाधनस्यावकाशो न स्यात् ? निरस्ता च प्रागेव अनेकस्मिन् एकस्य वृत्तिः न पुनः प्रतिपाद्यते । यच्च अध्यक्षत एव वृत्तिः सिद्धा 'इह इदम्' इति अक्षानुसारिबुद्धयुत्पत्तेः, तदप्यसंगतम्। यतो न 'इह तन्तुषु पटः' इतिविकल्पिकाऽपि लोके बुद्धिः प्रवर्तते किं तर्हि ? 'पटे तन्तवः' इति । न चाऽध्यक्षे तन्तुसमवेतं व्यतिरिक्तं पटादिद्रव्यमवभासते । न च विवेकेन अप्रतिभासमानस्य 'इद्द
१-मे वाप-वा० बा० । “एवं हि सति एकोऽवयवी न स्याद् अवयवप्रचयमात्ररूपत्वात् तस्य तथा च सति दृष्टपाण्यादिसमुदायमात्रात्मक एवास्ता वस्तु किमपरस्तस्य खात्मभूतैरवयवैः परिकल्पितैः"-तत्त्वसं० पजि. पृ० २.३ पं०१८-1 २“ “खातब्येण' इत्यादिना शङ्करस्वामिनः परिहारमाशङ्कते
खातच्येण प्रसङ्गेन साधनं यत् प्रवर्तते । स्वयं तदुपलब्धौ हि सत्यां संगच्छते न तु ॥ न च कालर्यैकदेशाभ्यां वृत्तिः क्वचन लक्षिता। यस्या असंभवाद् द्रव्यमसत् स्यादपरोऽपि च ॥ दृष्टौ वा क्वचिदेतस्या द्रव्यादावनिवारणम् । अथ तस्मिन्नदृष्टौ तु भेदे प्रश्नो न युज्यते ॥ एतावत् तु भवेद् वाच्यं वृत्तिनास्तीति तच्च न । युक्तं प्रत्यक्षतः सिद्धेरिहेदमिति बुद्धितः ॥ प्रत्यक्षं न तदिष्टं चेद् बाधकं किञ्चिदुच्यताम् । रूपादिचेतसोऽपि स्यान्नैव प्रत्यक्षताऽन्यथा" ॥
-तत्त्वसं. का. ६१४-६१८ पृ. २०३-२०४ । ३-दिदोषः वृ. आ० । “स ह्याह-खातव्येण प्रसङ्गमुखेन वा यत् साधनं क्रियते तत् खयमुपलब्धौ सत्यां संग. च्छते अन्यथा ह्यसिद्धता दोषः स्यात्"-तत्त्वसं० पजि. पृ० २०४ पं० ७-८।। ४ “तदत्र वृत्तिर्नास्तीति प्रागभेदेन साधितम् । इहेत्यस्ति न च ज्ञानं तद्रूपाप्रतिभासनात्" ॥
-तत्त्वसं• का० ६१९ पृ. २०४। ५ पृ० ६६६ पं० १३ । ६० पृ. पं० १८॥
८६ स०प्र०