________________
तृतीये काण्डेअवयवी अवयवान्तरे वर्तते, उत स्वभावान्तरेण प्रकारान्तरासंभवात् ? यदि तेनैव इति पक्षः, सन युक्तः; तस्य तेनैव अवयवेन क्रोडीकृतत्वात् अन्यत्र वर्तितुमशक्तेः, शक्तौ वा तत्राऽवयवे तस्य सर्वात्मना वृत्त्यनुपपत्तिः अपरस्वभावाभावान्न तस्य अपरावयववृत्तिखभावः, तद्भावे वा एकत्वहानिप्रसक्तेः । तथाहि-यत् एककोडीकृतम् न तत् तदैव अन्यत्र प्रवर्तते, यथा एकभाजनक्रोडी५ कृतमाम्रादि न तदैव भाजनान्तरमध्यमध्यास्ते, एकावयवक्रोडीकृतं च अवयविखरूपम् इति व्यापकविरुद्धोपलब्धिः । एकावयवसंबद्धखभावस्य अतद्देशावयवान्तरसंबद्धखभावताऽभ्युपगमे तदवयवानामेकदेशताप्रसक्तिर्विपर्यये बाधकं प्रमाणम् । एकदेशतायां च ऐकात्म्यम् अविभक्तरूपत्वात्, विभक्तरूपावस्थितौ च एकदेशत्वं न स्यात् । अथ स्वभावान्तरेण अवयवान्तरे वृत्तिस्तदा
एकोऽनेकवृत्तिर्न स्यात् स्वभावभेदात्मकत्वाद् वस्तुभेदस्य अन्यथा तदयोगात् । १० “'अवयवी अवयवेषु वर्तते' इति समवायरूपा प्राप्तिरुच्यते" [
] इति उद्द्योतकराऽभ्युपगमेऽपि 'किमेकावयवसमवेतेनैव स्वभावेन अवयवान्तरेषु वर्तते, अथ अन्येन' इति विचारः समान एवेति कृत्स्नैकदेशशब्दानुच्चारणेऽपि वृत्त्यनुपपत्तिर्युक्ता, तदुच्चारणेऽपि सा युक्तैव । तथाहि-यदि सर्वात्मना प्रत्येकमवयवेषु अवयवी वर्तेत तदा यावन्तोऽवयवास्तावन्त एव
१ "नैव धात्र्यन्तरकोडमध्यास्ते हि यथा शिशुः । एककोडीकृतं द्रव्यं नाश्रयेत तथाऽपरम्" ॥
-तत्त्वसं० का०६०९ पृ. २०२। २ “तत्संबद्धखभावस्य ह्यतद्देशेऽपि वृत्तितः । प्राप्तं तदेकदेशवमैकात्म्यं चाविभागतः ॥ अन्येनैवात्मना वृत्तौ नैकोऽनेकव्यवस्थितः । सिध्येत् खभावभेदस्य वस्तुभेदात्मकत्वतः" ॥
-तत्त्वसं० का०६१०-६११ पृ. २०२ । ३ "तस्माद् आश्रयाश्रितधर्मिनिर्देशमात्रमवयव्यवयवेषु वर्तत इति । का पुनरियं वृत्तिः? एकस्यानेकत्राश्रयाश्रितभावलक्षणा प्राप्तिः"-न्यायवा० पृ. २१४ पं० २२-तथा पृ० ५०५ पं० २० ।
"उद्योतकरस्वाह-आश्रयाश्रितधर्मनिर्देशमात्रमेतत् अवयव्यवयवेषु प्रवर्तत इति । आश्रितभावलक्षणा हि समवायरूपा प्राप्तिरुच्यत इति ।"-तत्त्वसं० पजि० पृ. २०२ पं० २६-। ४ “समवायात्मिका वृत्तिस्तस्य तेष्विति चेन्ननु । तस्यामपि विचारोऽयं कोपेनैव प्रधावति"॥
-तत्त्वसं० का० ६१२ पृ. २०३ । ५ “यद्वा सर्वात्मना वृत्तावनेकत्वं प्रसज्यते । एकदेशेन चानिष्टा नैको वा न क्वचिच्च सः॥
-तत्त्वसं० का० ६१३ पृ. २०३ । “अपि चैकोऽनेकत्र वर्तत इति प्रतिजानानो नानुयोक्तव्यः कस्मात् ? उभयेन व्याघातात्-एकमनेकत्र वर्तते इति ब्रुवाणः किमेकदेशेन वर्तते उत सर्वात्मना इति नानुयोक्तव्यः । कस्मात् ? उभयेन व्याघातात् यदि एकमनेकत्र वर्तमानं प्रत्यवयवं सर्वात्मना वर्तते नैकमनेकत्र वर्तते अनेकमनेकत्र वर्तत इत्यापन्नम् । एवं चानुयोगेऽधिकरणव्याघातः । अथैकमनेकत्र वर्तमान प्रत्यवयवमेकदेशेन वर्तते तथापि नैकमनेकत्र वर्तत इति प्राप्तम् अनेकमनेकत्र वर्तत इत्यापन्नम् । ये च त(त्र) एकदेशाः प्रत्येकमवयवेषु वर्तन्ते तेऽवयविन इति प्राप्तम् । एतस्मिन् पक्षे नैकमनेकत्र वर्तते किं तर्हि ? अनेकमनेकत्रेति । अथ प्रत्येक परिसमाप्या वर्तत इति अयमर्थोऽनेकमनेकत्र वर्तत इति" इत्यादि-न्यायवा० पृ. २१५५०३-१३। तथा
"कृत्स्नैकदेशावृत्तिखादवयवानामवयव्यभावः ॥ ७ ॥ अवयवा अवयविनि वर्तमानाः कृत्स्नेन वर्तन्ते एकदेशेन वा ? तत्र तावदवयवा अवयविनि कृत्स्ने न वर्तन्ते अवयवावयविनोः परिमाणभेदात् । अल्पपरिमाणोऽवयवो महापरिमाणश्चावयवीति अल्पपरिमाणेन महापरिमाणस्याव्याप्तिः एकद्रव्यश्च अवयवः प्राप्नोति एकावयविवृत्तित्वात् । न चैकद्रव्यं द्रव्यमविनश्यदाधारमस्ति । नापि अवयव्येकदेशेन वर्तते न हि अस्यान्ये अवयवा एकदेशभूताः सन्ति । तस्मिन्नपि चैकदेशेन वर्तमानोऽवयवः किमेकदेशेन वर्तते कृत्स्नेन वेति पूर्ववत् प्रसङ्गः" इत्यादि
-न्यायवा० पृ० ५०३ पं. ९-१९ । अवयविनः प्रत्यवयवमेकदेशेन वृत्तिः कासयेन वा प्रकारान्तराभावात् ? न तावदेकदेशेन वृत्तिः अवयवव्यतिरेकेणास्यैकदेशाभावात् । कार्येन वृत्तौ वा अवयवान्तरे वृत्त्यभावः एकावयवसंसर्गावच्छिन्ने खरूपे अवयवान्तराणामनवकाशात तत्स्वरूपव्यतिरेकेण चास्य खरूपान्तराभावात्" इत्यादि-प्रशस्त. कं० पृ. ४२ पं० १७-२० ।