________________
ज्ञेयमीमांसा ।
संयोगोऽव्याप्यवृत्तिर्भवेत् ? अथ अव्याप्तमपि किञ्चिद् रूपं तत्रावस्थितं तदा तयोर्भेदः व्याप्ताऽव्याप्तयोर्विरुद्धधर्माध्यासत एकस्वभावत्वायोगात् । न च पृथुतरदेशावस्थानमेकस्य युक्तम् निरंशत्वात्, अन्यथा सर्वत्र स्थूलसूक्ष्मादिभेदो न स्यात् एकत्वेन अविशेषात् । न चाल्पबह्ववयवा - रम्भादिकृतोऽसौ विशेषोऽवयवानाम् तथाभेदेऽपि अवयविनां निरंशतया परस्परं विशेषाभावात्, अवयवाल्पबहुत्वग्रहणकृते च स्थूलादिव्यवहारे अवयवमात्रमेव अभ्युपगतं दृश्यत्वेन स्यात् ५ स्थूलादिव्यतिरेकेण अन्यस्य अदृश्यमानत्वात् । किञ्च, अवयवाल्पबहुत्वकृते तथाभेदे अवयवा एव तथा तथा उत्पद्यमाना अल्पबहुतराः स्थूलसूक्ष्मादिव्यवस्थानिबन्धनं भविष्यन्ति किं तदारब्धावयविकल्पनया तस्य कदाचिदपि अदृष्टसामर्थ्यत्वात् ? किञ्च, अव्याप्यवृत्तिः संयोग इति यदि 'सर्व द्रव्यं न व्याप्नोति' इत्ययमर्थस्तदा द्रव्यस्य 'सर्व' शब्दाविषयत्वाभ्युपगमाद् अयुक्तः । अथ तदेकदेशवृत्तिः, तदसंगतम् ; तस्य एकदेशासंभवात् । न च 'तदारम्भके अवयवे वर्तते' इत्यर्थप्रकल्पना, १० अवयवानामेव रक्तत्वात् तदवयविरूपस्य अरक्तत्वप्रसक्तेर्युगपद् रक्ताऽरक्तरूपद्वयोपलब्धिः प्रसज्येत । किञ्च तदारम्भकोऽपि अवयवो यदि अवयविरूपस्तदा संयोगस्य अव्याप्यवृत्तितया तत्रापि एकदेशवृत्तित्वमिति तुल्यः पर्यनुयोगः । अथ अणुरूपस्तदा अणूनामतीन्द्रियत्वात् तदाश्रितः संयोगोऽयतीन्द्रिय एवेति न रक्तोपलम्भो भवेत् । न च यथा अङ्गुलिरूपस्य आश्रयोपलब्धावेवोपलब्धिर्व्याप्तिस्तथा संयोगस्य आश्रयोपलब्धावेवोपलब्धिर्न विद्यते इति अव्याप्यवृत्तिरसावुच्यते इति १५ वक्तव्यम्, संयोगस्यापि आश्रयानुपलब्धावनुपलब्धेः अन्यथा घट-पिशाचसंयोगस्यापि उपलब्धिः स्यात् । एवं च अङ्गुलिरूपवद् रागस्यापि अदृष्ट्राश्रयस्य अनुपलब्धेराश्रयोपलब्धावेवोपलब्धिरिति व्याप्यवृत्तिरसावपि स्यात् । अथ अरक्तेष्ववयवेषु समवेतस्य द्रव्यस्योपलब्धावपि न रागस्य संयोगस्वभावस्योपलब्धिरित्याश्रयोपलब्धौ नास्योपलब्धिरित्यव्याप्यवृत्तित्त्वम् नः रक्तारक्तावयवसमवेतस्य अवयविन एकत्वात् रक्तेऽप्यवयवे रागस्य तद्वारेण अनुपलब्धिप्रसङ्गात् आश्रयोपलम्भेऽपि तस्या - २० ऽनुपलम्भात् । न चान्यः संयोगग्रहणोपायः आश्रयोपलम्भात् समस्ति ततो नैकरूपो विषयो युक्तः । अनेकरूपोऽपि अणुसंचयात्मक एवं सामर्थ्यात् सिद्ध: विद्यमानावयवस्य एकत्वायोगात् । ततः पटादीनां परमाणुरूपत्वाद् नीलादिः परमाणूनामाकारः सिद्धः स्थूलरूपस्यैकस्य अपरस्य विषयस्यासंभवात् । नै च 'परमाणु' इति व्यपदेशः स्थूलस्यैकस्याऽभावे अयुक्तः, कल्पितस्थूलापेक्षयाऽपि तद्व्यपदेशस्य संभवात् । ततो न स्थूलमेकं द्रव्यमवयवाऽनारब्धमपि घटते तदारब्धं तु सुतराम - २५ संभवि । तथा च यद् अनेकम् न तद् एकद्रव्यानुगतम्, यथा घट- कुट्यादयः, अनेके च तन्त्वादयः इति व्यापकविरुद्धोपलब्धिः । यद्वा-येद् एकम् न तद् अनेकद्रव्याश्रितम्, यथा एकपरमाणुः, एकं च अवयविसंज्ञितं द्रव्यमिति व्यापकविरुद्धोपलब्धिप्रयोगः प्रसङ्गसाधनरूपः । प्रयोगद्वयेऽपि अवयविनोऽवयवेषु वृत्त्यनुपपत्तिर्विपर्यये बाधकं प्रमाणम् । स च एकावयवक्रोडीकृतेन वा स्वभावेन
१ " तेषामवयवाल्पबहुत्वग्रहणकृते विशेषेऽवयवमात्रमेवाभ्युपगतं स्यात् तत्रैव स्थूलादिव्यवहारात् ततश्चाणुमात्रमेव दृश्यत्वेनाभ्युपेतं स्यात् । स्थूलसूक्ष्मा (क्ष्म ?) व्यतिरेकेणान्यस्य (स्या ? ) दृश्यमानत्वात् " - तत्त्वसं० पञ्जि० पृ० २०० पं० ११-१३ । २- लब्धिव्या - वा० वा० आ० | " स्यान्मतं यथा व्याप्तिरङ्गुलिरूपस्याश्रयोपलब्धावेवोपलब्धिरुच्यते” - तत्त्वसं० पञ्जि० पृ० २०० पं० १९-२० ।
३ पृ० ६५९ पं० १२ टि० ७ ।
४ "अविज्ञातार्थतत्त्वस्तु पिण्डमेकं च मन्यते । लोकस्तत्कल्पितापेक्षः परमाणुरिहोच्यते ॥ निमित्तनिरपेक्षा वा संज्ञेयं तादृशि स्थिता । सङ्केतान्वयिनी यद्वन्निर्वित्तेऽपीश्वरश्रुतिः” ॥
तत्त्वसं० का० ६०३-६०४ पृ० २०१ ।
५ " एकावयव्यनुगता नैव तन्तु करादयः । अनेकत्वाद् यथा सिद्धाः कट-कुट्य-कुटादयः ॥ यदि वाभिमतं द्रव्यं नानेकावयवाश्रितम् । एकत्वादणुवद् वृत्तेरयुक्तिर्बाधिका प्रमा” ॥
- तत्त्वसं० का० ६०५-६०६० २०१ ।
६ " तद्धकवृत्तिभाजैव रूपेणावयवान्तरे । वर्तेत यदि वाऽन्येन न प्रकारान्तरं यतः ॥ तत्र तेनैव नान्यत्र वृत्तिरस्यावकल्पते । तेन क्रोडीकृतलेन नान्यथा तत्र वृत्तिमत्" ॥
६६५
----तत्त्वसं० का० ६०७-६०८ ५० २०१-२०२ ।