________________
६६४
तृतीये काण्डे -
करः । तथाहि - सर्वशब्दोऽनेकार्थविषयः, न च अवयवी नानात्मा इति कथं तत्र सर्वशब्दप्रयोगः येन एकदेशावरणे सर्वावरणप्रसक्तिरित्युच्येत ? असदेतत्; यतो य एव वस्त्रादयो भावा लोके प्रसिद्धास्त एव भवद्भिरपि अवयवित्वेन कल्पिताः, तंत्र च 'सर्व वस्त्रं रक्तम्' इत्यादिको लोके सर्वैकशब्दप्रयोगः प्रसिद्ध एवेति कथं तत्र तत्प्रयोगानुपपत्तिः ? यदर्थविवक्षायां रक्तादिशब्दप्रयोगो लोके तस्यामेव ५ अस्माभिरपि तत्प्रतीतिमनुसृत्य भवतां विरोधप्रतिपादनाय 'सर्व' आदिशब्दप्रयोगः क्रियते इति कथमस्यानुपपत्तिः ? किञ्च, स्थूलस्य एकत्वमभ्युपगच्छतो भवत एव अयं दोषः नास्माकम् तदनभ्युपगमात् । न च पटकारणेषु तन्तुषु उपचारतः पटाभिधानप्रवृत्तेः 'सर्व' आदि शब्दप्रयोगानुपपत्तिर्दोषः परस्यापि न भविष्यतीति वक्तव्यम्, एवं सर्वदैव बहुवचनप्रयोगापत्तेः । न हि भवदभ्युपगमेन बहुषु एकवचनमुपपत्तिमत् । न च अवयविगतां संख्यामादाय पटादिशब्दस्तदवयवेषु १० तन्त्वादिषु अपरित्यक्तात्माभिधेयगतलिङ्गादिर्वर्तत इति वाच्यम्, अस्य व्यपदेशस्य गौणत्वे स्खलवृत्तितयाऽगौणाद् भेदप्रसक्तेः न चासावस्ति । तथाहि - 'रक्तं सर्व वस्त्रम्' इत्यत्र नैवं बुद्धि: - 'न वस्त्रं रक्तम्, किन्तु तत्कारणभूतास्तन्तवः' इति । किञ्च भेदेनोपलब्धयोग- वाहीकयोर्मुख्योप चरितशब्दद्विषयता संभवति । न च अवयवाऽवयविनोः कदाचिद् भेदेनोपलब्धिरिति नात्रोपचरितशब्दप्रयोगो युक्तः ।
१५
शंकरस्वामी अत्राह — “ 'वस्त्रस्य रागः' कुङ्कुमादिद्रव्येण संयोग उच्यते, स च अव्याप्यवृत्तिः तत एकत्र रक्तेन सर्वस्य रागः न च शरीरादेरेकदेशावरणे सर्वस्य आवरणं युक्तम्" [ इति, असदेतत्ः यतो यदि पंटादिर्निरंशमेकं द्रव्यम् तदा किं कुङ्कुमादिना तत्र अव्याप्तम् येन
]
१ एतदुद्योतकरमतं वार्तिके शब्दान्तरेणेत्थं प्रतिभाति - " यत् पुनरेतद् अवयवी अवयवेषु वर्तमान एकदेशेन वर्तते कृत्स्नो वा वर्तत इति ? तन्न एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ ११ ॥
एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः । कृत्स्नमिति च एकदेश इति च भेदविषयावेतौ शब्दौ न चैता - वेकस्मिन्नुपपन्नौ—अनेकस्याशेषता कृत्स्नशब्दस्यार्थः अशेषस्य कस्यचिदभिधानमेकदेशशब्दस्य । न चैतद् इहोपपद्यते इति । तस्मान्नावयविनि कृत्स्नशब्दो नाप्येकदेशशब्द इति” – ४ - २ - ११ न्यायवा० पृ० ५०५ पं० ४-१२ ।
" एकस्मिन् कृत्स्नैकदेशशब्दासंभवादप्रश्नः” इत्याद्यपि अवयवसाधनवार्तिकमत्रावगन्तव्यम् - न्यायवा० पृ० २१४ पं० १३ ।
“उद्योतकरस्त्वाह – एकस्मिन् भेदाभावात् सर्वशब्दप्रयोगानुपपत्तिरिति ” - तत्त्वसं० पञ्जि० पृ० १९८० १४ । २ “ननु चैकखभावत्वात् सर्वशब्दोऽत्र किंकृतः । स ह्यनेकार्थविषयो नानात्मावयवी न च " ॥
— तत्त्वसं० का० ५९५ पृ० १९८ ।
३ " ननु ये लोकतः सिद्धा वासो - देह - नगादयः । त एवावयविवेन भवद्भिरुपवर्णिताः ॥ रक्तं वासोऽखिलं सर्वं निःशेषं निखिलं तथा । तत्रेच्छामात्र संभूतमिति सर्वे प्रयुञ्जते ॥ तथाविधविवक्षायामस्माभिरपि वर्ण्यते । सर्वं स्याद् रक्तमित्यादि निर्निबन्धा हि वाचकाः " ॥
— तत्त्वसं० का० ५९६-५९८ पृ० १९८ । ४ “तत्र च लोके सर्वैकदेशशब्दयोः प्रवृत्तिः प्रसिद्धैव । तथा च वक्तारो भवन्ति - सर्वं वासो रक्तमित्यादेः” - तत्त्वसं० पञ्जि० पृ० १९९ पं० १ । नास्माकम् न हि अस्माभिः स्थूलस्यैकत्वमिष्यते” - तत्त्वसं० पक्षि० पृ० १९९ पं० ४-५ ।
५ “अपि च भवत एवायं स्थूलस्यैकत्वमभ्युपगच्छतो दोषः
६ “भाक्तं तदभिधानं चेद् वचोमेदः प्रसज्यते । न च बुद्धेर्विभेदोस्ति गौण - मुख्यतयेष्टयोः” ॥
- तत्त्वसं० का० ५९९ - पृ० १९९ /
७ " ननु चेत्यादिना शंकरखामिनः परिहारमाशङ्कते -
ce
ननु चाव्याप्यवृत्तित्वात् संयोगस्य न रक्तता । सर्वस्यासज्यते नापि सर्वमावृतमीक्ष्यते” ॥ — तत्त्वसं० का० ६०० पृ० १९९ ।
८ " ननु चानंशके द्रव्ये किमव्याप्तं व्यवस्थितम् । स्वरूपं तदवस्थाने भेदः सिद्धोऽत एव वा ॥ बहुदेशस्थितिस्तेन नैवैकस्मिन् कृतास्पदा । ततः सिद्धा पटादीनामणुभ्योऽनेकरूपता" ॥
- तत्त्वसं का० ६०१-२ पृ० १९९-२०० । ९ पटादि नि - वा० बा० । “यदि हि पटादिरेकमेव द्रव्यम्" - तत्त्वसं० पजि० पृ० २०० पं० ३ ।