________________
ज्ञेयमीमांसा ।
६६३
स्वभावताविरहात् । ततः परस्पराविनिर्भागवर्तितया सहकारिवशादुत्पन्नाः परमाणव एव अध्यक्षविषयतामुपयान्तीत्यभ्युपगन्तव्यम् अन्यथा विजातीयानां द्रव्याऽनारम्भकत्वात् पविकतप्तोपल - हेमसूतादेरुपलम्भो न स्यात् । न च तत्र संयोगस्योपलभ्यता, अदृष्टाश्रयस्य तस्यापि उपलम्भाविषयत्वात् वाय्वाकाशसंयोगवत् । ननु पौर्वापर्यादिदिग्भेदेन परमाणवो व्यवस्थिताः न च ते तद्रूपेण उपलभ्यन्त इति कथमध्यक्षतैषाम् ? नः सर्वैकारानुभवेऽपि यत्रैवांशे अभ्यासादिकारणसद्भावान्नि- ५ श्चयस्तत्रैवाध्यक्षविषयताव्यवस्थापनात् अन्यत्र तु गृहीतस्यापि व्यवहारायोग्यत्वेन निश्चयानुत्पत्तेरगृहीतकल्पत्वात् । ननुं अवयव्यभावे बहुषु परमाणुषु अक्षव्यापारेण 'एकः पटः' इति कथं प्रत्ययः ? न; अनेकसूक्ष्मतरपदार्थसंवेदनतः 'एकः' इति विभ्रमोत्पत्तेः प्रदीपादौ नैरन्तर्योत्पन्नसदृशापरापरज्वालादिपदार्थसंवेदनेऽपि एकत्वविभ्रमवत् । ननु भेदेन अनुपलक्ष्यमाणाः परमाणवः कथमध्यक्षाः ? न; विवेकेन अनवधार्यमाणस्य अनध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेन अनुपलक्ष्यमाणे अनध्यक्षता - १० प्रसक्तेः अवयवविवेकेन वाऽगृह्यमाणोऽपि अवयवी कथं तथाप्रत्यक्षत्वेनेष्टः ?
यदि च नीलादिनिर्भासे नाऽणवः प्रतिभान्ति तदा वाह्यार्थवादिना नीलादिज्ञानं निर्विषयं वाऽभ्युपगम्येत, सविषयं वा ? न तावन्निर्विषयम्, विज्ञानमात्रताप्रसक्तेः । सविषयत्वेऽपि नात्ममात्रविषयम्, विज्ञानवादप्रसक्तेरेव । बाह्यविषयत्वेऽपि नीलादिर्विषयः स्थूलरूपतया प्रतिभासमान एकः, अनेको वा ? एकोऽपि अवयवैरारब्धः, अनारब्धो वा ? तत्र न तावत् अयमुभयरूपोऽपि एको १५ युक्तः, स्थूलस्य एकस्वभावत्वविरोधात् । तथाहि यदि स्थूलमेकं स्यात् तदा एकदेशरागे सर्वस्य रागः प्रसज्येत, एकदेशाऽऽवरणे च सर्वस्य आवरणं भवेत् रक्ताऽरक्तयोः आवृताऽनावृतयोश्च भवदभ्युपगमेन एकत्वात् । न च परस्परविरुद्धधर्माध्यासेऽपि एकत्वं युक्तम् अतिप्रसङ्गात्, तथाऽभ्युपगमे वा विश्वमेकं द्रव्यं स्यात् ततश्च सहोत्पत्त्यादिप्रसङ्गः । न चैकदेशावरणे सर्वमावृतमुपलभ्यते इत्यध्यक्षविरोधः । अनुमानविरोधोऽपि । तथाहि यद् विरुद्धधर्माध्यासितं न तद् एकम्, २० यथा अश्व - महिषादिकमुपलभ्यमानाऽनुपलभ्यमानस्वरूपम्, आवृताऽनावृतस्वरूपेण च विरुद्धधर्माध्यासितं स्थूलमिति व्यापकविरुद्धोपलब्धिः । सर्वस्य एकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणम् । “एकस्मिन् भेदाभावात् सर्वशब्दप्रयोगानुपपत्तिः " [ ] इति उद्यो
१ “पौर्वापर्य विवेकेन यद्यप्येषामलक्षणम् । तथाऽप्यध्यक्षताऽबाधा पानकादाविव स्थिता " ॥
- तत्त्वसं० का० ५८६ पृ० १९५ ।
२ " तथाहि-- पानके तप्तोपले सूतहेमादौ च मित्रे परमाणव एव तथोपलभ्यन्ते " - तत्त्वसं० पजि० पृ० १९६
२ ।
३ " सर्वेषामेव वस्तूनां सर्वव्यावृत्तिरूपिणाम् । दृष्टावपि तथैवेति न सर्वाकारनिश्चयः ॥ अकल्पनाक्षगम्येऽपि निरंशेऽर्थस्य लक्षणे । यद्भेदव्यवसायेऽस्ति कारणं स प्रतीयते" ॥
- तत्त्वसं० का० ५८७-५८८ पृ० १९६ ।
४ “समान ज्वालासंभूतेर्यथा दीपेन विभ्रमः । नैरन्तर्य स्थितानेकसूक्ष्मवित्तौ तथैकधा " ॥
- तत्त्वसं० का० ५८९ पृ० १९७ ।
५ " विवेकालक्षणात् तेषां नो चेत् प्रत्यक्षतेष्यते । दीपादौ सा कथं दृष्टा किं वेष्टोऽवयवी तथा" ॥
— तत्त्वसं० का० ५९० पृ० १९७ ।
६ " एतावत्तु भवेदत्र कथमेषां न निश्चये । नीलादिपरमाणूनामाकार इति गम्यते ॥ तदप्यकारणं यस्मान्नैव ज्ञानमगोचरम् । न चैकस्थूलविषयं स्थौल्यैकत्वविरोधतः " ॥
- तत्त्वसं० का० ५९१-५९२ पृ० १९७ ।
७
" स्थूलस्यैकस्वभावले मक्षिकापदमात्रतः । पिधाने पिहितं सर्वमासज्येताऽविभागतः ॥ रके च भाग एकस्मिन् सर्वं रज्येत रक्तवत् । विरुद्धधर्मभावे वा नानात्वमनुषज्यते " ॥
- तत्त्वसं ० का ० ५९३ - ५९४ पृ० १९८ ।