________________
तृतीये काण्डे -
प्राप्तत्वात् । किंच, यदि षण्णां पदार्थानामर्थक्रियासमर्थपदार्थस्वरूपं स्वतत्त्वं न स्यात् तदा शशशृङ्गरूपता तेषां भवेत् अर्थक्रियाऽसामर्थ्यात्, ततश्च कथं सदुपलम्भकप्रमाणगम्यता तेषाम् । अथ अर्थक्रियासमर्थ रूपं तेषां विद्यते तदा ते तद्रूपा एव, भेदान्तरप्रतिक्षेपमात्र जिज्ञासायां 'तेषामस्तित्वम्' इत्येवं यदि व्यपदेशं व्यतिरेकविभक्त्या समासादयन्ति तदा न कश्चिद् विरोधः । न हि तदव्यतिरिक्त५ मपि स्वरूपं बुद्ध्याऽपकृष्य ततो व्यतिरिक्तमिव अभिधीयमानं विरोधभाग भवति, इच्छामात्रानुवि. धायित्वाद् वाच उत्पाद्यकथाश्रयाति सुन्दरपदार्थवचनवत् ।
६६२
भिन्नकर्तृकत्वाद्यनुमानमपि असंगतम्, यतो यदि अप्राप्तपटव्यपदेशेभ्यस्तन्तुभ्यः प्राक्तनावस्थेभ्यो भेदः पटस्यात्र साध्यते तदा सिद्धसाध्यताप्रसक्तिः सर्वभावानां क्षणिकत्वेन तद्विलक्षणपटाख्यपदार्थानुत्पादे ऽपि प्रतिक्षणं भिन्नत्वात् । अर्थे पटावस्थायां ये तन्तवस्तेभ्यः पटस्य भेदः साध्यस्तदा हेतू१० नामसिद्धता न हि तदवस्थाभावितन्तुभ्यः पटस्य भेदाप्रसिद्धौ भिन्नकर्तृकत्वादयो धर्माः सिद्धिमासादयन्ति । न च तत्सिद्धिः इदानीमेव तत्सिद्धये साधनस्योपन्यासात् । न च 'तन्तवः' 'पटः ' इति च संज्ञामात्रात् पदार्थानां भेदसिद्धिः, संज्ञान्तरस्य प्रयोजनान्तरवशेनापि संकेतनात् । तथाहियोषित्कर्तृकास्तन्तवः शीतापनोदाद्यर्थाऽसमर्थाः तन्तुशब्द समावेशभाजः, कुविन्दकर्तृका विशिष्टावस्थाप्राप्ताः प्रावरणाद्यर्थक्रियासमर्थाः पटव्यपदेश समावेशिनस्तदर्थक्रियाप्रतिपादनाय व्यवहारि१५ भिस्तथा तत्र संकेतकरणात् अन्यथा गौरवाऽशक्ति-वैफल्यदोषप्रसङ्गात् । तथाँहि-यदि यावन्तो भावा विवक्षितैककार्यनिर्वर्तनसमर्थास्तेषु तावन्तः शब्दा निवेश्यन्ते तदा गौरवदोषः, न चैषामसाधारणं रूपं निर्देष्टुं शक्यमिति अशक्तिदोषः, उत्प्रेक्षितसामान्याकारेण निर्देशे वरं 'पटः' इत्येकयैव श्रुत्या प्रतिपादनं कृतम् न च किञ्चित् फलमस्य प्रत्येकं पृथगभिधानप्रयासस्य पश्याम इति वैफल्यदोषः । समस्त्येन त्वभिधाने सति व्यवहारलाघवादिर्गुण इत्येकार्थक्रियाकारिषु अनेकेषु एकशब्द२० संकेत उपपन्नः सकलवस्तुविवक्षायां 'जगत्' 'त्रिभुवन' 'विश्व' आदिशब्दवत् । एवम् एकवचनादिकं सांकेतिकं व्यवहारलाघवार्थमुपादीयमानं न वास्तवं तयोर्भेदं प्रसाधयति । विशिष्टावस्था प्राप्तानां चाणूनामिन्द्रियग्राह्यत्वाद् अतीन्द्रियत्वमसिद्धमिति न अवयव्यभावे प्रतिभासविरतिप्रसक्तिर्दूषणम् न हि सर्वदैव इन्द्रियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते तेषां सर्वदैक
१ पृ० ६५९ पं० ७।
२ "प्रथमेभ्यश्च तन्तुभ्यः पटस्य यदि साध्यते । मेदः साधनवैफल्यं दुर्निवारं तदा भवेत् ॥ प्राप्तावस्थाविशेषा हि ये जातास्तन्तवोऽपरे । विशिष्टार्थक्रियासक्ताः प्रथमेभ्योऽविलक्षणाः" ॥
- तत्त्वसं० का० ५७९-५८० पृ० १९४ । ३ - ध्यते तत् सि - भ० मां० । “यदि प्रथमावस्थाभाविभ्योऽसमधिगतपटाख्यानेभ्यस्तन्तुभ्यः पटस्य भेदः साध्यते तदा सिद्धं साध्यते” – तत्त्वसं० पक्षि० पृ० १९४ पं० १४ ।
४ “एककार्योपयोगित्वज्ञापनाय पृथक् श्रुतौ । गौरवाऽशक्तिवैफल्य दोषत्यागाभिवाञ्छया ॥ साकल्येनाभिधानेन व्यवहारस्य लाघवम् । मन्यमानैः कृता येषु वागेका व्यवहर्तृभिः ॥ तेभ्यः समानकाल पटो नैव प्रसिध्यति । विभिन्नकर्तृसामर्थ्यपरिमाणादिधर्मवान् ॥ - तत्त्वसं० का० ५८१-५८३ १० १९४ ।
५ “यावता स एवायं तन्तुव्यतिरेकी पटो न सिद्धः तद्भेदस्यैव प्रसाधयितुं प्रस्तुतत्वात् "
- तत्त्वसं० पक्षि० पृ० १९४ पं० २७ – ६ “न च 'पटः' 'तन्तवः' इति संज्ञामात्राद् वस्तूनां भेदः " - तत्त्वसं० पञ्जि० पृ० १९५ पं० १ ।
७ " तथाहि - तत्र यावन्तः पदार्था विवक्षितैककार्यसाधनयोग्यास्तावन्त एव शब्दाः प्रयोक्तव्या इति गौरवदोषः । न चाप्येषामसाधारणं रूपं शक्यं निर्देष्टुमित्यशक्तिदोषः । उत्प्रेक्षितसामान्याकारेण च निर्देशे क्रमेकयैव श्रुत्या प्रतिपादनम् न चास्य पृथक्पृथक्प्रतिपादनप्रयासस्य किञ्चित् फलमुपलभ्यते इति वैफल्यदोषः " - तत्त्वसं ० पञ्जि० पृ० १९५०७-१०। ८ "सामस्त्येन त्वभिधाने कृते सति व्यवहारलाघवं गुणः " - तत्त्वसं० पजि० पृ० १९५ पं० ११ । ९० ६५९० १२ टि० ७ ।
१० “अन्योन्याभिसराश्चैवं ये जाताः परमाणवः । नैवातीन्द्रियता तेषामन्यानां ( मन्येषां ) मोचरत्वतः ॥ नीलादिः परमाणूनामाकारः कल्पितो निजः । नीलादिप्रतिभासा च वेद्यते चक्षुरादिधीः" ॥
- तत्त्वसं० का० ५८४-५८५ पृ० १९५ ।