________________
ज्ञेयमीमांसा । भ्युपगमो हीयेत । अथ षट्पदार्थव्यतिरिक्तानामपि धर्माणामभ्युपगमान्नायं दोषः । तथा च पदार्थप्रवेशके ग्रन्थे-"ऐवं धर्मैर्विना धर्मिणामुद्देशः कृतः" [प्रशस्तपादभा० पृ० २६ पं० १] इति, असदेतत् ; तैस्तेषां संबन्धानुपपत्तेः तमन्तरेण च धर्म-धर्मिभावायोगात् अन्यथाऽतिप्रसङ्गात् । न च संयोगलक्षणोऽत्र संवन्धः, संयोगस्य गुणत्वेन द्रव्येष्वेव भावात् । नापि समवायस्वरूपः, सत्तावत् तस्य सर्वत्रैकत्वाभ्युपगमात्, समवायेन च सह समवायसंबन्धे द्वितीयसमवायाभ्युपगमः स्यात्५ तत्र चानवस्था । न च षभिः पदार्थैर्धर्माणामुत्पादनात् 'तेषां ते' इति व्यपदेशः, तथाभ्युपगमे बदरायोऽपि कुण्डादिसंबन्धिनस्तथैव स्युः इति संयोगसमवायाख्यसंवन्धान्तरकल्पनावैयर्थ्यप्रसक्तिः । भवेतु वा षण्णामस्तित्वं धर्मान्तरम् तथापि व्यभिचार एव, तदस्तित्वे अपरास्तित्वाद्यभावेऽपि तदस्तित्वस्य अस्तित्व-प्रमेयत्व-अभिधेयत्वानि' इति षष्ठ्यादिप्रवृत्तेः । अथ तत्रापि अपरास्तित्वाभ्युपगमस्तदाऽनवस्थाप्रसक्तिः । न चेष्टत्वाद् अदोषः, सर्वेषामपि उत्तरोत्तरधर्माधारत्वाद् धर्मित्वप्रसक्तेः१० "डेव धर्मिणः प्रोक्ताः" [
] इत्येतस्याऽनुपपत्तिः षट्पदार्थव्यतिरिक्तानामन्येषामपि वा धर्मिणामस्तित्वादीनां विशिष्टधर्माधाराणां संभवात् । न च धर्मिरूपा एव ये ते एव षट्वेन अवधारिता इति वक्तव्यम् , गुणादीनामनिर्देशप्रसङ्गात् न हि गुणादीनां धर्मिरूपतैव किन्तु द्रव्याश्रितत्वात् धर्मरूपत्वमपि । यस्त्वांह-"सदुपलम्भकप्रमाणगम्यत्वं षण्णामस्तित्वमभिधीयते, तच्च षट्पदार्थविषयं ज्ञानम् तस्मिन् सति 'सत्' इति व्यवहारप्रवृत्तेः । एवं 'ज्ञानजनितं ज्ञानज्ञेयत्वम्' 'अभिधा-१५ नजनितम् अभिधेयत्वम्' इत्येवं व्यतिरेकनिबन्धना षष्ठी सिद्धा, न चाऽनवस्था, न च षट्पदार्थव्यतिरिक्तपदार्थान्तरप्रसक्तिः ज्ञानस्य गुणपदार्थेऽन्तर्भावात" [
1 सोऽप्ययुक्तवादी एवमपि अस्तित्वादेः षट्पदार्थाव्यतिरेके व्यभिचारस्य तदवस्थत्वात् , व्यतिरेके सप्तमपदार्थप्रसक्तेाय
१ "षडेते धर्मिणः प्रोक्ता धर्मास्तेभ्योऽतिरेकिणः । इष्टा एवेति चेत् कोऽयं संबन्धस्तस्य तैर्मतः ॥ द्रव्येषु नियमाद् युक्ता न संयोगो न चापरः । समवायोऽस्ति नान्यश्च संबन्धोऽजीकृतः परैः" ॥
-तत्त्वसं० का० ५७४-५७५ पृ० १९२ । २ 'पदार्थधर्मसंग्रह' नामैको ग्रन्थः प्रशस्तपादापरनाम्ना प्रशस्तदेवेन रचितो विद्यते । तथाहि"प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः । पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः"-प्रशस्त० कं. पृ० १ ।
अस्मिन्नेव प्रन्थे च ‘एवं धर्मविना' इत्यादि उपरि निर्दिष्टं वाक्यं विद्यते । पत्रिकाकृता कमलशीलेन टीकाकृता चाभयदेवेन स संग्रह एव पदार्थप्रवेशक इति नाम्नाऽत्र निर्दिष्टः प्रतिभाति । स च संग्रहः 'प्रशस्तपादभाष्यम्' इत्यपि प्रख्यातिं गतः। ३ एव ध-आ० विना । तथाहि पदार्थप्रवेशके ग्रन्थः(न्थे) “एवं धमैर्विना धर्मिणामेष निर्देशः कृत इति"
-तत्त्वसं० पञ्जि. पृ० १९२ पं० २६ । "तथा च पदार्थप्रवेशकग्रन्थः एवं धर्मविना धर्मिणामेव निर्देशः कृतः"-प्रमेयक. पृ० १५७ द्वि०५०८। "तथा च पदार्थप्रवेशकग्रन्थः-एवं धर्मविना धर्मिणामुद्देशः कृतः"-स्याद्वादर० पृ० ८७८ पं० १०।। ४ “संबन्धानुपपत्तौ च तेषां धर्मों भवेत् कथम् । तदुत्पादनमात्राच्चेदन्येऽपि स्युस्तथाविधाः" ॥
-तत्त्वसं० का० ५७६ पृ० १९३ । ५ "तस्याप्यस्तित्वमित्येवं वर्तते व्यतिरेकिणी । विभक्तिस्तस्य चान्यस्य भावेऽनिष्ठा प्रसज्यते” ॥
-तत्त्वसं० का० ५७७ पृ० १९३ । "अन्यधर्मसमावेशे प्राप्ता तत्र च धर्मिता । द्रव्यादेरपि धर्मिलमस्मादेव च संमतम्" ॥
-तत्त्वसं० का० ५७८ पृ० १९३ । ७ “ततश्च षडेते धर्मिण एव प्रोक्ता इत्येतन्नोपपद्यते"-तत्त्वसं० पजि. पृ० १९३ पं० २२ । पृ० ६६०
टि०१३।
८ "षण्णामपि पदार्थानामस्तित्वाऽभिधेयत्वज्ञेयवानि” इत्यादि-प्रशस्त० के० पृ० १६ पं० १ ।
९"अन्यः पुनराह-षण्णामस्तित्वं हि सदुपलम्भकप्रमाणगम्यत्वम् । गम्यत्वं च षदपदार्थविषयं विज्ञानम् तस्मिन् सति सद्व्यवहारप्रवर्तनात् । तथा ज्ञानजनितं ज्ञेयत्वम् अभिधानजनितमभिधेयत्वमिति । अतो व्यतिरेकनिबन्धना षष्ठी भवत्येव । न चाप्यनवस्था, नापि षट्पदार्थान्तरप्रसङ्ग इति । तस्यापीदं कल्पनामात्रमेव"-तत्त्वसं० पजि. पृ० १९३ पं. २७-पृ० १९४ पं०३।
१. ज्ञानजनितं ज्ञानं शेयत्वम् बृ०।