________________
६६०
तृतीये काण्डे -
रसविषयताप्रसक्तेः अविशेषात् । न चे अन्याकारस्य अन्यविषयव्यवस्थापकत्वेऽपि तस्य परस्येष्टसिद्धिः, यतः शुक्लादय एव श्यामादिरूपेण प्रतिभान्ति तज्ज्ञानस्य भ्रान्तत्वात् न पुनस्तद्व्यतिरिक्तस्य गुणिनस्ततः सिद्धिर्भवेत् । यश्चं 'कञ्चुकावच्छन्ने पुंसि 'पुमान्' इति ज्ञानमध्यक्षम् अवयविव्यवस्थापकम् उक्तम्, तद् अध्यक्षमेव न भवतिः शब्दानुविद्धत्वात् अस्पष्टाकारत्वाच्च अपि तु रूपादिसंहतिमात्र५ लक्षणपुरुषविषयमनुमानमेतत् इति नातोऽवयविसिद्धिः । तथाहि - रूपादिप्रचयात्मकपुरुषहेतुकः कञ्चुकसंनिवेश उपलभ्यमानः स्वकारणमनुमापयति धूम इवाग्निम् । यच्च 'कुङ्कुमादिरक्ते वस्त्रे तद्रूपाप्रतिपत्तावपि 'वस्त्रम्' इति ज्ञानम्' तदपि प्राक्तनशुक्लरूपविनाशे सामग्र्यन्तरोपजातरूपान्तरस्य अध्यक्षेण ग्रहणे सति उत्तरकालं तत्पृष्ठभाविसमयवशात् 'वस्त्रम्' इति समुदायविषयं सांवृतं परमार्थतो निर्विषयमेव प्रत्यवमर्शज्ञानम् इत्यसिद्धमस्य प्रत्यक्षत्वम् । न चैतद् अनुमानम् पूर्वाध्यक्ष गृहीतवि१० षयत्वात् अलि (लै)ङ्गिकत्वाच्च । तन्नात्र अभिभूतं किञ्चिद् रूपं विद्यते । न चाभिभूतवस्त्ररूपस्य तदवस्थायामभावे धातवस्त्रावस्थायां पुनः शुक्लरूपानुपलब्धिः स्यादिति वक्तव्यम्, यतः अन्यादिसामग्रीप्रादुर्भूतभास्वररूपस्य लोहादेः पुनः श्यामादिरूपान्तरोत्पत्तिवत् तत्रापि सामग्र्यन्तरात् शुक्लरूपोत्पत्तेरविरोधात् । न च 'प्राक्तनमेवं रूपमभिभूतत्वात् तदानुपलब्धम् पश्चाद् अभिभवाभावाद् उपलभ्यते' इत्यस्य प्रतिषेधेन 'रूपान्तरमेव प्राक्तनरूपविनाशेनोपजातमत्रोपलभ्यते' इति भवतोऽपि १५ किं प्रमाणमिति वक्तव्यम्, अनुमानस्य सद्भावात् । तथाहि - यद् अपरित्यक्ताऽनभिभूतस्वभावं तस्य न परेणाऽभिभवः, यथा पूर्वावस्थायां तस्यैव अपरित्यक्ताऽनभिभूतस्वभावं चाभिभवावस्थायां रूपमिति व्यापकविरुद्धोपलब्धिः । परित्यक्ताऽनभिभूतस्वभावत्वाभ्युपगमेऽपि सिद्धमस्याऽन्यत्वम् स्वभावमेदस्य भावभेदलक्षणत्वात् अन्यथाऽतिप्रसङ्गात् ।
नैं च स्वतन्त्रेच्छामात्र भाविनः पष्ठीवचनभेदादेर्वाह्यवस्तुगत भेदाऽव्यभिचारित्वम् येन ततो २० गुण- गुणिनोर्भेदसिद्धिः स्यात् । तेन 'यद् यद्व्यवच्छिन्नम् इत्यादिप्रयोगानुपपत्तिः । यदि तु वस्तुगत - भेदमन्तरेण षष्ठ्यादिवृत्तिर्न भवेत् ' स्वस्य भावः' 'पण्णां पदार्थानामस्तित्वम्', 'दाराः' 'सिकताः ' इत्यादौ पष्ट्यादेर्वृत्तिर्न स्यात् भावादेरत्र व्यतिरिक्तस्य तन्निबन्धनस्याभावात् । अथै सदुपलम्भकप्रमाणविषयत्वं धर्मान्तरं षण्णामस्तित्वमिष्यत इति न हेतोर्व्यभिचारः, नः सप्तमपदार्थप्रसक्तेः षट्पदा
१ “शुक्लादयस्तथा वेद्या इत्येवं चापि संभवेत् । तस्माद् भ्रान्तमिदं ज्ञानं कम्बुपीतादिबुद्धिवत्" ॥
- तत्त्वसं० का० ५६६ पृ० १९० ।
२ पृ० ६५८ पं० २५ ।
३ “कञ्चुकान्तर्गते पुंसि न ज्ञानं त्वानुमानिकम् । तद्धेतुसन्निवेशस्य कञ्चुकस्योपलम्भनात्” ॥
- तत्त्वसं० का० ५६७ पृ० १९० ।
४ " कषाय कुङ्कुमादिभ्यो वस्त्रे रूपान्तरोदयः । पूर्वरूपविनाशे हि वाससः क्षणिकत्वतः " ॥
-तत्त्वसं० का० ५६८ पृ० १९१ ।
५ “नाप्येतदनुमानं पूर्वप्रत्यक्षगृहीतविषयत्वादलैङ्गिकत्वाच्च " - तत्त्वसं० पञ्जि० पृ० १९१ पं० १० । ६ "पुनर्जलादिसापेक्षात् तस्मादेवोपजायते । रूपाद् रूपान्तरं शुक्लं लोहादेः श्यामतादिवत्" ॥
- तत्त्वसं० का० ५६९ पृ० १९१ ।
७ “तादवस्थ्ये तु रूपस्य नान्येनाभिभवो भवेत् । प्राक्तनानभिभूतस्य स्वरूपस्यानुवर्तनात् ” ॥ — तत्त्वसं० का० ५७० पृ० १९१ । ८- श्चादनभिभवादुप-भां० म० । “स्यादेतत् कथमिदमवगम्यते रूपान्तरमेवोपजायते न पुनः प्राक्तनं रूपमभिभूतत्वात् प्रागनुपलब्धं सत् पश्चादभिभवाभावादुपलभ्यत इत्याह ” - तत्त्वसं० प०ि पृ० १९१ पं० १८ । ९-स्थायास्त- बृ० । “यथा तस्यैव प्राक्तनावस्थायाम् ” - तत्त्वसं ० पञ्जि० पृ० १९१ पं० २२ । १० “षष्ठीवचनभेदादि विवक्षामात्र संभवि । ततो न युक्ता वस्तूनां तत्खरूपव्यवस्थितिः ॥
तथाहि भिन्नं नैवान्यैः षण्णामस्तित्वमिष्यते । तेषां वर्गश्च नैवैकः कश्चिदर्थोऽभ्युपेयते” ॥ तत्त्वसं ० का ० ५७१-५७२ पृ० १९१-१९२ ।
११ पृ० ६५९ पं० ५ । १२ पृ० ६५९ पं० ३ । १३ “संज्ञापकप्रमाणस्य विषये तत्त्वमिष्यते । षण्णामस्तित्वमिति चेत् षड्भ्योऽन्यस्ते प्रसज्यते” ॥
- तत्त्वसं० का० ५७३ पृ० १९२ ।