Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 284
________________ ज्ञेयमीमांसा । अभिव्यक्तिलक्षणा वा ? स्थितिरपि निःस्वभावताप्रच्युतिरभ्युपगम्यते, आहोस्विद् अधोगतिप्रतिबन्धस्वरूपा ? तत्र न तावद् आद्यः पक्षः, सामान्यस्य नित्यतया स्वभावाऽप्रच्युतेः स्वतः सिद्धत्वात् । नापि अधोगति प्रतिबन्धस्वरूपा स्थितिस्तत्र संभविनी, अमूर्त- सर्वगतत्वाभ्यां निष्क्रियत्वात् स्वत एव अधोगमनासंभवात् प्रतिबन्धकानां वैयर्थ्यात् । न च सामान्यस्य स्वव्यक्तिषु समवायः स्थितिरभ्युपगन्तव्या, तस्यैव विचार्यमाणत्वात् । तथाहि अयुतसिद्धानामाश्रयाश्रयिभावो यः संबन्धः 'इह' ५ इति प्रत्ययहेतुः स समवायः परैरभ्युपगतः । 'आश्रितत्वं च सामान्यस्य व्यक्तिप्रतिबद्धस्थितित्वेन वा, तदभिव्यङ्ग्यतया वा' इत्येतदेव पर्यालोचयितुं प्रक्रान्तम् परस्परासंकीर्णरूपाणां भावानामकिञ्चित्करार्थान्तरसमवायायोगात् योगे वा सर्वः सर्वस्य समवायः प्रसज्येत । तथाहि - व्यावृत्तस्वरूपान् भावान् संश्लेषयन् पदार्थः समवायः प्रकल्पितः । न च अर्थान्तरभावेऽपि स्वात्मव्यवस्थिता भावाः परस्परस्य स्वभावमात्मसात्कुर्वन्ति । न च अर्थान्तराश्लेषकारिणो भावान्तरस्य 'समवायः' १० इति नामकरणेऽपि काचित् क्षतिः । न च श्लेषकरणात् समवायरूपत्वं संश्लेषस्य, संश्लिष्यमाणपदार्थेभ्यो भिन्नस्य करणे तैस्तस्य संबन्धासिद्धेः; अभिन्नस्य करणे सामान्यादेः कार्यत्वेन अनित्यत्वप्रसक्तेः । तन्न सामान्यस्य व्यक्तिषु स्थितिर्वृत्तिः । नापि तद्भिव्यक्तिलक्षणाऽसौ युक्ता । तथाहितद्विषयविज्ञानोत्पादनलक्षणा वा तदभिव्यक्तिः, स्वरूपपरिपोषलक्षणा वा ? न तावत् स्वभावपरिपोपलक्षणा, नित्यस्य स्वभावान्यथाकरणासंभवात् । नापि तद्विषयविज्ञानोत्पादनस्वरूपा असौ युक्ता, १५ सामान्यस्य स्वत एव विज्ञानोत्पादनसामर्थ्य अभिव्यक्तिकारणापेक्षाऽयोगात् असामर्थ्येऽपि परैरनाधेयविशेषत्वात् सामान्यस्य तदपेक्षत्वानुपपत्तेः परैराधेयविशेषत्वाभ्युपगमेऽपि अनित्यत्वप्रसतितो व्यक्तिवद् असाधारणत्वात् सामान्यरूपताऽनुपपत्तेः तेन सामान्यस्य व्यक्तिषु वृत्तिनिबन्धनाभावाद् अवृत्तिः । तथा च प्रयोगः - यस्मिन् यस्य वृत्तिनिबन्धनं नास्ति न तत्र तद् वर्तते, विन्ध्ये इव हिमवान्, नास्ति च भेदेषु वृत्तिनिबन्धनं सामान्यस्य इति व्यापकानुपलब्धिः । सर्वेऽपि च पर- २० प्रकल्पिताः सामान्य साधनाय हेतवः अनया दिशा प्रतिषेद्धव्याः । कुमारिलप्रकल्पितास्तु-गोपिण्डभेदेषु गोबुद्धिः एकगोत्वनिबन्धना, गवाभासत्वात् एकाकारत्वाच्च, एकगोपिण्डविषयबुद्धिवत् । अथवा येयं गोबुद्धिः सा शाबलेयान्न भवति तद्व्यतिरिक्तार्थान्तलम्वना वा, तदभावेऽपि भावात्, घटे पार्थिवबुद्धिवत् । सर्वगतत्वं च सामान्यस्य प्रमाणान्तरात् सिद्धम् । तथाहि - येयं गोमतिः सा प्रत्येकसमवेतार्थविषया, प्रतिपिण्डं कृत्स्नस्वरूपपदार्थाकारत्वात्, २५ प्रत्येक व्यक्तिविषयबुद्धिवत् । एकत्वमपि सामान्यस्य प्रमाणोपपन्नमेव । तथाहि यद्यपि सामान्यं सर्वात्मना प्रतिव्यक्ति परिसमाप्तं तथापि एकमेव तत्, एकाकारबुद्धिग्राह्यत्वात्, यथा 'नञ्' - युक्तेषु वाक्येषु ब्राह्मणादिनिवर्तनम् । न चैतत् शक्यं वक्तुम्- 'भिन्नेषु अभिन्नाकारः प्रत्ययो भ्रान्त इति न तद्बलाद् वस्तुतत्त्वव्यवस्था' इति, यतो नास्य दुष्टकारणप्रभवत्वमस्ति, नापि बाधकप्रत्ययसद्भावः ततो मिथ्यात्वनिबन्धनाभावात् कथं भ्रान्तता ! तदुक्तम् “पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभासैकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥ न शाबलेयाद् गोबुद्धिः ततोऽन्यालम्बनाऽपि वा । तद्भावेऽपि सद्भावादु घटे पार्थिवबुद्धिवत् ॥ प्रत्येकसमवेतार्थविषयैवाथ गोमतिः । प्रत्येकं कृत्स्नरूपत्वात् प्रत्येकव्यक्तिबुद्धिवत् ॥ १ " स्यादाधारो जलादीनां गमनप्रतिबन्धकः । अगतीनां किमाधारैः सामान्यानां प्रकल्पितैः ॥ स्वज्ञानोत्पत्तियोग्यत्वे किमभिव्यक्तिकारणैः । खज्ञानोत्पत्त्ययोग्यत्वे किमभिव्यक्तिकारणैः ॥ यः समर्थः समर्थात्मा व्यञ्जकैः क्रियते यदि । भावोऽस्थिरो भवेदेवं दीपव्यय घटादिवत् " ॥ - तत्त्वसं० का० ८०२-८०४ पृ० २६० । ६९५ ३० २ " अनया च दिशाऽन्येऽपि सर्वे दूष्याः कुहेतवः” । “अन्येऽपि कुहेतव इति कुमारिलगदिताः तत्राभी तेन कुहेतव उक्ताः " -- तत्त्वसं० का० ७९७ तथा पञ्जि० पृ० २५७ पं० १६-१ ३ " तस्मात् पिण्डेषु गोबुद्धि" - लो० वा० । खात्" - हो० वा० । ३५ ४ “गवाभासैकरूप्याभ्या" - लो० वा० । ५ " प्रत्येकं कृत्स्रबुद्धि

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456