Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 258
________________ ज्ञेयमीमांसा। ६६९ 'परः पिता' 'अपरः पुत्रः' 'युगपत्' 'अयुगपत्' वा तथा, 'चिरम्' 'क्षिप्रम्' वा 'कृतम्' 'करिष्यते' वा इति यत् पराऽपरादिज्ञानम् तत् आदित्यादिक्रिया-द्रव्यव्यतिरिक्तपदार्थनिबन्धनम्, तत्प्रत्ययविलक्षणत्वात् , घटादिप्रत्ययवत् । योऽस्य हेतुः स पारिशेष्यात् कालः। यतः न तावत् पराऽपरादिप्रत्ययः दिग्देशकृतोऽयम्, स्थविरे अपरदिग्भागावस्थितेऽपि 'परोऽयम्' इति प्रत्ययोत्पत्तेः । तथा, यूनि परदिग्भागावस्थितेऽपि 'अपरोऽयम्' इति ज्ञानप्रादुर्भावात् । न च वली-पलितादिकृतोऽयं ५ प्रत्ययः, तत्कृतप्रत्ययवैलक्षण्येन उत्पत्तेः । नापि क्रियानिर्वर्तितः, तत्प्रतिभावितज्ञानवैलक्षण्येन संवेदनात् । तथा च सूत्रम्-"अपरस्मिन् परं युगपद् अयुगपत् चिरं क्षिप्रमिति काललिङ्गानि" [वैशेषिकद० २-२-६] इति । आकाशवदेव अस्यापि विभुत्व-नित्यत्वैकत्वादयो धर्मा अवगन्तव्याः। ___दिगैपि एकादिधर्मोपेतं द्रव्यं प्रमाणतः सिद्धम् । तथाहि-मूर्तेष्वेव द्रव्येषु मूर्तं द्रव्यमवधि कृत्वा 'इदमस्मात् पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण १० अधस्तात् उपरिष्टात्' अमी दश प्रत्यया यतो भवन्ति सा दिग इति । तथा च सूत्रम्-"'अत इदम्' इति यतस्तद् दिशो लिङ्गम्" [वैशेषिकद० २-२-१०] इति । एते हि विशेषप्रत्यया न आकस्मिकाः संभवन्ति । न च परस्परापेक्षमूर्तद्रव्यनिमित्ताः, इतरेतराश्रयत्वेन उभयप्रत्ययाभावप्रसक्तेः । ततोऽन्यनिमित्तोत्पाद्यत्वासंभवाद् एते दिशो लिङ्गभूताः । दिशश्च विभुत्वैकत्व-नित्यत्वादयो धर्माः कालवद् अवगन्तव्याः। एतस्याश्च एकत्वेऽपि प्राच्यादिभेदेन नानात्वं कार्यविशेषाद् व्यवस्थितम् । १५ प्रयोगश्चात्र-यदेतत् पूर्वाऽपरादिज्ञानम् तद् मूर्तद्रव्यव्यतिरिक्तपदार्थ निबन्धनम्, तत्प्रत्ययविलक्षणत्वात्, सुखादिज्ञानवत् इति । ___आत्मद्रव्यस्य च विभुत्वादिधर्मोपेतस्य पराऽभ्युपगतस्य प्रागेव प्रतिषेधः कृतः इति न तत्पूर्वपक्षः पुनः प्रदर्श्यते। मनोद्रव्यस्य तु युगपज्ज्ञानानुत्पत्तिर्लिङ्गम् । तथा च सूत्रम्-"युगपज्ज्ञानानुत्पत्तिर्मनसो२० लिङ्गम्" [ न्यायद० १-१-१६ ] इति । अनेकेन्द्रियार्थसन्निधाने सत्यपि एकदा क्रमेण ज्ञानोत्पत्युप १ अपरं परं आ० हा० वि० । अपरमपरं वा० बा० । "तथा च सूत्रम्-अपरं परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानि"-तत्त्वसं० पजि. पृ० २०६० २० । "तथा सूत्रम्-अपरस्मिन् परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि"-न्यायकु. लि. पृ. १३९ द्वि. पं० १२ । "तथा च सूत्रम्-अपरस्मिन् परं युगपद् अयुगपत् चिरं क्षिप्रमिति काललिङ्गानि"-प्रमेयक० पृ० १६९प्र.पं०७॥ गूजरातीप्रेस-बनारससंस्कृतसिरीझसत्कयोवैशेषिकदर्शनसंस्करणयोः चोखम्बासंस्कृतसिरीझगते च वैशेषिकसूत्रपाठे समान एव पाठो मुद्रितो दृश्यते । यथा-"अपरस्मिन्नपर युगपच्चिरं क्षिप्रमिति काललिङ्गानि"-२-२-६ । गूजरातीप्रेसप्रकाशितानि तदुपस्कार-विवृति-भाष्याण्यपि तमेव पाठमनुसरन्ति । तत्र च पाठान्तरसूचिका टिप्पणी इत्थं दृश्यते"बॉम्बेरायलआशिआटिकसोसाइटीसंज्ञकग्रन्थसंग्रहालयस्थलिखितप्राचीनपुस्तके तु 'अपरस्मिन् परम्' इति पाठः सूत्र उपलभ्यते । उपस्कारे च 'अपरस्मिन् परम्' इत्यनेन 'परस्मिन् परम्' इत्यपि द्रष्टव्यमिति"-गू. वै० पृ. ९८ । २"पूर्वापरादिबुद्धिभ्यो दिगेवमनुमीयते।"-तत्त्वसं० का० ६२५ पृ. २०६। ३ "तथा च सूत्रम्-इत इदमिति यतस्तद् दिशो लिङ्गम्-इति"-तत्त्वसं० पजि.पृ० २०७५०३। "तथा च सूत्रम्-अत इदमिति यतस्तद् दिशो लिङ्गम्"-न्यायकु. लि. पृ. १४३ प्र.पं. १३ । प्रमेयक. पृ० १७० प्र० पं० १३। । गूजरातीप्रेस-बनारससंस्कृतसिरीझ-चोखम्बासिरीझसत्केषु संस्करणेषु तु "इत इदमिति यतस्तद् दिश्यं लिङ्गम्" इति मुद्रितं दृश्यते। ४ पृ. १३४ पं०३१ ५ "क्रमेण ज्ञानजात्या च मनसोऽनुमितिर्मता ॥ चक्षुरादिविभिनं च कारणं समपेक्षते । क्रमेण जाता रूपादिप्रतिपत्ती रथादिवत्"। -तत्त्वसं० का० ६२५-६२६ पृ० २०६। ६"तथा च सूत्रम्-युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्-इति-तत्त्वसं० पजि० पृ. २०७पं० १२। एतस्य न्यायदर्शनीयसूत्रस्य भाष्यम् , वार्तिकम् न्यायवार्तिकतात्पर्यटीका चात्रानुसंधानीया। मनोनिरूपणपर प्रशस्तपादभाष्यम् तत्कन्दल्यपि चात्रावबोद्धव्या-प्रशस्त. कं० पृ. ८९-९४ ।

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456