________________
तथा-नरकपृथिवीषु देवलोकेषु वाऽष्टासु दिक्षु चतसृषु वा दिक्षु पङ्क्तिगतनरकावासविमानविचारः प्रवर्त्तते, तत्र नाम १ स्थापना २ द्रव्य ३ क्षेत्र १ ताप ५ प्रज्ञापक १ भावदिशां आवश्यकाद्युक्तानां सप्तानां मध्ये का दिग् वर्त्तते । एतासां दिशा मध्यवर्तिनी काचिद्दिगन्या वा देवलोकादिषु दिक् प्रवर्त्तते ? तत्सहेतुकं प्रसाद्यमिति ! प्रश्नोऽत्रोत्तर-पतिगतनरकावासविमानविचाराधिकारे नामादीनां सप्तानां दिशां मध्ये | क्षेत्रदिग् ज्ञायत इति ॥ १८ ॥
तथा-दीपालिकाकल्पे दुषमाकालसङ्घस्तोत्रे च श्रावकसङ्ख्यातो यतिसङ्ख्याऽतिबही दृश्यते तत्र किं तात्पर्यमिति ? | प्रश्नोऽत्रोत्तरं-दीपालिकाकल्पदुष्षमाकालसङ्घस्तोत्रकुलकादावुत्कृष्टभङ्गस्थानां श्राद्धादीनां सङ्ख्या कथिताऽस्तीति सम्भाव्यते, आचार्यादीनां |तु जघन्यादिभेदत्रितयस्थानामपीति न काप्यघटमानताऽऽशङ्का, तथाऽऽचार्यसङ्ख्याविषये महानिशीथप्रवचनसारोद्धारवृत्ती अपि संवादिके | एवेति बोध्यम् ॥ १९ ॥
तथा-"पणवीसजोभातुंगो, बारस य जोअणाई विच्छिन्नो । जो अणमेगं नालुअ, इग कोडी सद्विलक्खाई " ॥१॥ कलशानामियं सङ्ख्या कथं मिलति ! तद्वयक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-अच्युताधिपत्यादीनां द्विषष्टीन्द्राणा द्विषष्टिस्तथा द्वात्रिंशदधिकशतनरलो| कस्थसूर्यचन्द्राणां द्वात्रिंशदधिकं शतमेवं चतुर्नवत्यधिकशतेन्द्राणां चतुर्नवत्यधिकशतमभिषेकाः तथा दक्षिणोत्तरदिग्भेदेनासुराधिपत्योर्दशेन्द्राणानां |
दश तथा नागादीनां नवानामपि स्थाने स्थाने एकालापकेन स्वरूपाभिधानादक्षिणोत्तरदिग्भेदेन तदधिपतीनां जात्यपेक्षया द्वादशाग्रमहिषीणां | द्वादश, एवं व्यन्तराधिपतीनां चतुरग्रमहिषीणां चत्वारः, एवं ज्योतिष्काधिपतीनां चतुरिन्द्राणीनां चत्वारः, आद्यदेवलोकद्वयाधिपत्योः षोडशेन्द्राणीनां । | षोडश, एवं षट्चत्वारिंशदिन्द्राणीनां षट्चत्वारिंशदविभकाः, तथा सामानिकानामेकस्त्रायस्त्रिंशानामको लोकपालानां चत्वार अङ्गरक्षकानामेकः पार्ष-14
in Eduentan tentando
For Private & Personel Use Only
W
inelibrary.org