Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रभे
18 उल्लासः ॥ ११९ ॥
Jain Education
तथा -- श्राद्ध विध्यनुसारेण जलमार्गेण शतयोजनेभ्यः स्थलमार्गेण षष्टियोजनेभ्यश्च समागतानि हरितक्यादिवस्तूनि प्रासुकीभवन्ति, तथा लवणमपि प्रासुकं भवति, तथा अहम्मदावादनिष्पन्नस चित्तवस्तूनि नालिकेर पूगीफलादीनि उग्रसेनपुरादौ गतानि प्रासुकीभवन्ति नवा ? इति प्रश्नोऽत्रोत्तरं श्राद्धविधिप्रभृतिग्रन्थानुसारेण जलमार्गेण शतयोजनेभ्यः स्थलमार्गेण षष्टियोजनेभ्यश्च समागतानि सर्वाण्यपि वस्तूनि प्रासुकीभवन्ति, परमाचीर्णानि ग्राह्याणि न त्वन्यानि । तथा लवणमग्निपक्वमेवाचीर्णे, तथा राजनगरनिष्पन्नसचित्तनालिकेरपूगीफलादीनि वस्तूनि उग्रसेन• पुरादौ गतानि प्रासुकीभवन्ति, परमनाचीर्णानीति ॥ १४६ ॥
अथ पालीसङ्घकृतप्रश्नौ तदुत्तरे च ।
तथा — प्रतिमाधरश्राद्धानीताहारं मुनयो गृह्णन्ति नवा इति प्रश्नोऽत्रोत्तरं - प्रतिमाधरः स्वार्थानीताहारं ददाति तदा ग्रहीतुं कल्पत इति ॥ १४७ ॥
तथा—-श्राद्धा नमस्कारमनानुपूर्व्या गणयन्ति नवा इति प्रश्नोऽत्रोत्तरं श्राद्धानामानुपूर्व्याऽनानुपूर्व्या नमस्कारगणनाधिकारः शास्त्रानुसारेण ज्ञायत इति ॥ १४८ ॥
अथ मालपुरसङ्घकृतप्रश्नौ तदुत्तरे च ।
तथा - पुञ्जणिकया वायुकरणे लामोलामो वा इति प्रश्नोऽत्रोत्तरं - मुख्यवृत्त्या पुञ्जणिकया वायुकरणं ज्ञातं नास्ति परं गुर्व्वादीनां मक्षिकोडापनार्थं वायुकरणे लाभोऽस्ति, न त्वलाभो, यतो मक्षिकोडापनं गुरुभक्तिरेवेति ॥ १४९ ॥
For Private & Personal Use Only
जालोर०
| १४४-१४६ पाली० १४७-१४८
मालपुर०
१४९-१५०
॥ ११९ ॥
jainelibrary.org

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264