Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 259
________________ Jain Educatio तथा - स्नात्रविधौ ' अठसहसच उसाठिजु अपंचवरणकलसेहिं ' इत्युक्तम् अन्तवाच्यमध्ये त्वेका कोटिः षष्टिर्लक्षाच कलशानामित्युक्तं | तत्कथं सङ्गच्छते इति प्रश्नोऽत्रोत्तरं - अन्तर्वाच्यमध्ये एका कोटिः षष्टिर्लक्षाच कलशानामित्युक्तं तत्स्थव्यरूपतया सम्भाव्यते, तेभ्यः पानीयं भूत्वा स्नात्रकरणार्थे तु चतुष्षष्ट्यधिकाष्टसहस्र कलशाः कथितास्सन्तीति सम्भाव्यते, तस्मादुभयमपि सङ्गच्छत इति ॥ १६३ ॥ तथा - वासुदेवबलदेवमातरः सप्त चतुरश्च स्वप्नान् यथाक्रमं पश्यन्ति तेषां कानि नामानीति, प्रश्नोत्रोत्तरं - सिंह १ सूर्य २ कुम्भ ३ समुद्र ४ श्री १ रत्नराश्य ६ नि ७ रूपाणि नामानि गज १ पद्मसर २ चन्द्र ३ वृषभलक्षणानि ४ नामानि च परम्परया ज्ञेयानीति ॥ १६४ ॥ अथ उदयपुरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा -- चतुर्दश पूर्व्वधारिणो जघन्यतो लान्तकदेवलोकं यावद् यान्ति, कार्तिकश्रेष्ठिनीवस्तु चतुर्द्दशपूर्व्यपि सौवर्म्मदेव लोकं गतस्तत्र को हेतुरिति, प्रश्नोऽत्रोत्तरं तत्र पूर्वविस्मृतिरेव हेतुः सम्भाव्यत इति ।। १६५ ।। तथा -- कश्चित्प्रातः कृत नमस्कारिकासहित प्रत्याख्यानः प्रतिलेखनायां त्रिविधाहारप्रत्याख्यानं करोति, स सन्ध्यायां किं प्रत्याख्यानं विदधातीति, प्रश्नोऽत्रोत्तरं - एकाशनादिप्रत्याख्यानी विहितप्रतिलेखनात्रिविधाहारप्रत्याख्यानी च सन्ध्यायां पानकाहारप्रत्याख्यानं करोति, अकृत| प्रतिलेखनात्रिविधा हारप्रत्याख्यानस्तु चतुर्विधाहारप्रत्याख्यानं करोतीति परम्परास्ति ॥ १६६ ॥ तथा -- त्रिकालपूजा करणे प्रभाते मालादि निर्माल्यमपास्य सव्र्वस्नानेन वासपूजा क्रियतेऽन्यथा वेति ? प्रश्नोऽत्रोचरं प्रभाते पुष्पमालादि | निर्माल्यमनपास्य श्राद्धा वासपूजां कुर्व्वन्तो दृश्यन्ते सर्व्वस्नान करणेऽप्येकान्तो ज्ञातो नास्ति, हस्तपादप्रक्षालनेन शुद्धयतीति ॥ १६७ ॥ For Private & Personal Use Only Talw.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264