Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने ४ उल्लासः
उदटापुर० १६५-१७१
॥१२२॥
तथा-श्राद्धा दन्तधावनं कृत्वैव देवपूनां कुर्वन्त्यन्यथा वेति प्रश्नोऽत्रोत्तरं--'शुचिः पुष्पामिषस्तोत्रै 'रिति योगशास्त्रादिवचनान्मुख्यवृत्त्या दन्तधावनं कृत्वैव देवपूजां कुर्वन्ति, पौषधोपवासादि कर्तुकामाश्च दन्तधावनं विनापि देवपूजां कुर्वन्ति, प्रत्याख्यानस्य बहुफलत्वा| दिति ज्ञायते ॥ १६८ ॥
तथा-'विहारो जिनसद्मनी' तिवचनात् श्रीहीरगुरोः प्रतिमामन्दिरस्य हीरविहार इति नाम कथं दत्तमिति प्रश्नोऽत्रोत्तरं-विहारो बौद्धाद्याश्रय इति प्रश्नव्याकरणप्रथमाश्रवद्वारवृत्ती विहारा विचित्रक्रीडास्तैरिति प्रश्नव्याकरणचतुर्थाश्रवद्वारवृत्ती इत्यादिग्रन्थाक्षरानुसारेण श्रीहीरगुरुप्रतिमाप्रासादस्य श्रीहारविहार इति नाम दत्तमिति ॥ १६९ ॥
तथा-" सुहिएमु अ दुहिएसु अ, जा मे अस्संनएसु अणुकंपा। रागेण व दोसेण व तं निंदे तं च गरिहामि " ॥१॥ एतद्गाथाव्याख्यानं | प्रसाद्यम् इति प्रश्नोऽत्रोत्तरं-साधुधिति विशेष्यमनुक्तमपि संविभागवतप्रस्तावादध्याहार्य, ततः साधुषु कीदृशेषु !-सुष्ठु हितं-ज्ञानादित्रयं येषां ते सुहितास्तेषु, पुनः कथम्भूतेषु ?-दुःखितेषु रोगेण तपसा वा ग्लानीभूतेषु उपधिरहितेषु वा, पुनः कीदृक्षु !-न स्वयं-स्वच्छन्देन यता-उद्यता अस्वयतास्तेषु गुर्वाज्ञयैव विहरत्सु इत्यर्थः, या मया कृताऽनुकम्पा-कृपाऽन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, यथोक्त-" आयरिअणुकंपाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपणाए अवुच्छित्ती कया तित्थे ॥ १ ॥ रागेण-स्वजनमित्रादिप्रेम्णा न तु गुणवत्त्वबुद्ध्या, तथा द्वेषेण-इह द्वेषः साधुनिन्दाख्यो, यथा धनधान्यादिरहिता ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथानिर्गतिका अमी उपष्टम्भार्हाः इत्येवं निन्दापूर्व याऽनुकम्पा साऽपि निन्दैव, अशुभदीर्घायुष्कहेतुत्वाद्, यदागमः- तहारूवं समणं वा माहणं वा संजयविरयादि| हयपञ्चक्खायपावकम्मं हीलिता निंदित्ता खिसित्ता गरिहित्ता अवमन्नित्ता अमणुन्नेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुह
Jain Education
anal
For Private & Personel Use Only
Dainelibrary.org

Page Navigation
1 ... 258 259 260 261 262 263 264