Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
डुंगरपुर
सेनप्रश्ने उल्लासः ॥११॥
सुमेरुवत् ॥ ३२ ॥ महर्द्धिर्वलयाकारो, योजनानि नवोन्नतः । पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्मदः ॥ ३३ ॥ तस्योपरिष्टात्सौवर्णप्राकारगृहतोरणा । मया लङ्केति नाम्ना पूरधुनैवास्ति कारिता ॥ ३४ ॥ षड् योजनानि भूस्तस्यामतिक्रम्य चिरंतनी। शुद्धस्फटिकवप्राङ्का, नानारत्नमयाच्या ॥ ३५ ॥ सपादयोजनशतप्रमाणा प्रवरा पुरी । मम पाताललङ्केति, विद्यते चातिदुर्गमा || ३६ ॥ पुरीद्वयमिदं वत्सा-दत्स्व तन्नृपतिर्मव । भवत्वद्यैव ते तीर्थनाथदर्शननं फलम् ॥ ३७ ॥ इत्युक्त्वा राक्षसपतिर्माणिक्यैर्नवभिः कृतम् । ददौ तस्मै महाहारं, सद्यो विद्यां च राक्षसीम् ॥ ३८ ॥ भगवन्तं नमस्कृत्य, तदैव घनवाहनः । आगत्य राक्षसद्वीपे, राजाऽभूलङ्कयोस्तयोः ॥ ३९ ॥ राक्षसद्वीपराज्येन, राक्षस्या विद्ययापि च । तदादि तस्य वंशोऽपि, ययौ राक्षसवंशताम् ॥ ४० ॥ इति श्री अजितनाथचरित्रानुसारेण राक्ष पद्वीपो लवणसमुद्रेऽस्ति प्रमाणाङ्गुलश्चेति ध्येयम् ॥६॥
अथ डुंगरपुरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-सन्ध्याप्रतिक्रमणे सामायिकोच्चारानन्तरं स्वाध्यायनमस्कारत्रयं कथयित्वा वन्दनकप्रत्याख्यानमुख पत्रिका प्रतिलिख्यते सा क्षमाश्रमणं दत्त्वा प्रतिलिख्यते ? किं वा क्षमाश्रमणं विना !, तथा सा किं कथयित्वा प्रतिलिख्यत इति प्रश्नोऽत्रोत्तरं-सामायिकं कृत्वा बेसणे | संदिसावं प्रमुखक्षमाश्रमण चतुष्टयं दत्त्वा नमस्कारत्रयं कथयित्वा क्षमाश्रमणपूर्वक इच्छाकारेण संदिसह भगवन् ! मुहपत्ती पडिलेहुं ' इत्यादेशपूर्व मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं च दत्त्वा प्रत्याख्यानं कर्त्तव्यमिति ॥ ६१ ॥
तथा-शत्रुञ्जयस्तोत्रमध्ये शाम्बप्रद्युम्नाभ्यां सहाष्टौ कोटयः सिद्धाः कथितास्सन्ति, कंचन सार्द्धकोटित्रयं कथयन्त्यत्र निर्णयः प्रसाद्य इति, प्रश्नोत्रोत्तरं-श्रीशत्रुञ्जयमाहात्म्यानुसारेण श्रीशत्रुञ्जये शाम्बप्रद्युम्नाभ्यां सह सार्द्ध कोटित्रय सिद्धमिति ज्ञायते ॥ ११२ ॥
-
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264