Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा—रात्रौ सकलानपानमध्ये सूक्ष्माः तद्रूपा जीवा उत्पद्यन्ते प्रभाते विलयं यान्ति तत्सत्यमसत्यं वा इति प्रश्नोत्रोचरं-रात्रौ समस्तानपानमध्ये तद्रूपाः सूक्ष्मा जीवा उत्पद्यन्ते प्रभाते च विलयं यान्तीत्येतत् शास्त्रमध्ये क्वापि ज्ञातं नास्तीति ॥ १५ ॥
अथ ऊणीयारसङ्घकृतप्रश्नौ तदुत्तरे त्र।। तथा-वृद्धकल्पदिने पौषधकरणे लाभः पूजाकरणे वा इति प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्या पौषधकरणे महान् लाभः, कारणविशेषे तु यथा प्रस्तावो भवति तथा करणे लाभ एवास्ति, यतो जिनशासने एकान्तवादो ज्ञातो नास्तीति ॥ १५१॥
तथा-संवत्सरवासरे पूगीफलसहितनाणकप्रभावनां लान्ति नवा ! इति, प्रश्नोऽत्रोत्तर-पूगीफलादिसहितां तया रहितां वा प्रभावनां लान्ति, पश्चाद् यस्मिन् ग्रामे या रीतिस्तदनुसारेण प्रवर्तितव्यमिति ॥ ११२॥
. अथ मेदिनीद्रङ्गसंघकृतप्रश्नास्तदुत्तराणि च । तथा–पाक्षिकदिने द्वादशानां चतुर्मासके विंशतः सांवत्सरिकदिने चत्वारिंशतो लोकोद्योतकराणां कायोत्सर्गः क्रियते, तत्किमिति प्रश्नोत्रोत्तरं-पाक्षिकादिदिवसेषु यत्कायोत्सर्गः क्रियते तत्तु प्रतिक्रमणं कुर्वतां यदतीचारशुद्धिर्नाभूत्तदतीचारशुद्धिनिमित्तं, दिनप्रतिबद्ध| सयानियमे त्वाज्ञा प्रमाणमिति ॥ १५३ ॥
तथा-श्रीवीरहीरसूरीणां प्रतिमाने यो देवान् वन्दते स वासक्षेपं कृत्वाऽन्यथा वा इति प्रश्नोऽत्रोत्तरं-श्रीगुरुप्रतिमारे देवा वन्दिता न | शुध्यन्ति, यदि च तीर्थकृत्प्रतिमा पट्टादावालोखता भवति तदा तदने वासक्षेपं कृत्वैव देवा वन्दिताः शुद्धयन्तीति ॥ १५४ ॥
For Private Personel Use Only
THw.jainelibrary.org

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264