Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा-भवनपतीनां भवनानि कुत्र सन्तीति प्रश्नोऽत्रोत्तरं-रत्नप्रभाया उपरि अधश्चैकं योजनसहस्रं मुक्त्वा विचाले सर्वत्र भवनानि । | सन्तीति ज्ञायते, यतोऽनुयोगद्वारसूत्रवृत्तिमध्ये भवनपतिभवनानि नरकवासकपार्श्वे कथितानीति बोध्यम् ॥ १४३ ॥
अथ जालोरसंघकृतप्रश्नास्तदुत्तराणि च तथा—त्रिविधोपवासप्रत्याख्यानमन्यप्रत्याख्यानं च कया रीत्या पार्यते इति प्रश्नोत्रोत्तरं-उपवास कीधु त्रिविहार नमुक्कारसी पोरसी पुरिमड्ढादिक कीधु पाणहार पच्चक्खाण फासिउं १ पालिङ २ सोहिउं ३ तिरिउ ४ किट्टि ५ आराहिउं १ जंच नाराहिअंतस्स मिच्छामि दुक्कडं' | इत्युपवासप्रत्याख्यानपारणरीतिवृद्धपरम्परया ज्ञातव्या, अधुना केचन श्राद्धाः उपवास कीधु त्रिविहार नमुक्कारसि पुरिमड्यादिक कीधो चउविहार | पच्चक्खाण फासिउं १ पालिउं २ सोहिउ ३ तारिखं ४ किट्टि ५ आराहिच नाराहि तस्स मिच्छामि दुक्कडं ' इत्थमपि पारयन्तो दृश्यन्ते, तथा नमुक्कारेंसि पोरसि पुरिमड्ढादिक कीधुं चउबिहार एकासणं बिआसणु कीg त्रिविहार चउविहार पच्चक्खाण फासिउं १ पालिङ २ सोहिउं ३ तीरिउं ४ किट्टिउं ५ आराहिअं जंच नाराहि तस्स मिच्छामिदुक्कडं इत्यन्यप्रत्याख्यानपारणरीतिरपि परम्परयैव ज्ञयेति ॥१४४॥
तथा-श्राद्धाः पौषधमध्ये सान्ध्यप्रतिलेखनाकाजकोद्धरणं कदा कुर्वन्तीति प्रश्नोत्रोत्तरं-श्राद्धाः पौषधमध्ये सान्ध्यप्रतिलेखनादेशौ | मार्गयित्वा प्रोञ्च्छनकं चरवलकं च प्रतिलिख्य यद्येकाशनकं तदा परिधानांशुकं परावृत्त्य पडिलेहणा पडिलेहावो इत्यादेशमार्गणं विधाय च कानकोद्धरणं कुर्वन्तीति श्राद्धविधिप्रमुखग्रन्थेषु प्रोक्तमस्ति, पश्चादुपधि प्रतिलिख्य काजकं निष्कास्य परिष्ठापयन्तीति परम्पराऽस्तीति ॥ १४५॥
Jain Educa
t ional
For Private Personal Use Only
Www.jainelibrary.org

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264