Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educat
तथा—'अवंगुतदुवारे' इत्यस्यार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं - अवड-अदुवारेत्ति अप्रावृतद्वाराः - कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, | सद्दर्शनलामेन न कुतोऽपि पाखण्डिकाद्विभ्यति शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या । अन्ये स्वाहुः - भिक्षुक - | | प्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थ इति श्रीभगवतीसूत्रद्वितीयशतकपञ्चमोद्देशक वृत्तौ उक्तमस्तीति ॥ १३४ ॥
तथा— कश्चित्परपक्षी प्रार्थनां करोति यदुपदेशमालागाभायां विलोकयन्तु तदर्थमुपदेशमालागाथाविलोकने दूषणं लगति नवा इति प्रश्नोत्तरं - यदि स निष्कपटतया प्रार्थनां करोति तदर्थमुपदेशमालागाथाविलोकने सर्व्वथा दूषणं ज्ञातं नास्ति इति ॥ १३५ ॥
तथा----परपक्षिणां प्रतिमास्थापनादिकं प्रतिष्ठाप्यायते नवा इति प्रश्नोऽत्रोत्तरं यदि ततस्तदाशातना न भवति तदा तत्प्रतिष्ठाप्यार्पणे न काऽप्याबाधेति ॥ १३६ ॥
तथा—अनशनिश्राद्धस्य त्रिविधाहारप्रत्याख्यानं कारयित्वा रात्रावृष्णपानीयपानेनानशनस्य दूषणं लगति नवा इति, प्रश्नोऽत्रोत्तरं -तथाकारणेनानशनस्य दूषणं न लगतीति ॥ १३७ ॥
अथ भिन्नमालसङ्घकृतप्रश्नास्तदुत्तराणि च
तथा—विकसितपुष्पतन्नालमध्ये जीवाः सङ्ख्याता असङ्ख्याता वा इति प्रश्नोऽत्रोत्तरं - केषुचित्पुष्पेषु सङ्ख्याताः केषुचिदसङ्ख्याताः | केषुचिदनन्ताश्च प्रज्ञापनादिषु कथितास्सन्ति, जातिपुष्पमध्ये तु सङ्ख्याता एव कथितास्सन्तीति ॥ १३८ ॥
तथा - सामायिकादिषु उपवस्त्रमध्ये सन्ध्याप्रतिलेखनायां मुखवस्त्रिकां प्रतिलिख्य प्रत्याख्यानं क्रियते, एकाशनादिप्रत्याख्याने च वन्दन कानि
national
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264