Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
तथा — प्रातरुपवस्त्रं कृत्वा सायं रात्रिपौषधं करोति, तथाचाम्लं कृत्वाऽहोरात्रिकं करोति स उपधानाऽऽलोचनामध्ये समेति किंवा न इति प्रश्नोऽत्रोत्तरं - उपवस्त्रं कृत्वा यः प्रातरहोरात्रिकपौषधः कृतो भवति स उपधानालोचनामध्ये समेति नान्य इति ॥ १२५ ॥
तथा—उपधानवाचना प्रातर्ग्रहीतुं विस्मृता, सा सायं क्रियाकरणानन्तरं गृह्यतेऽथवा द्वितीयदिने ?, यदि द्वितीयदिने तदा स वासरः कस्या वाचनायां गण्यते इति प्रश्नोऽत्रोत्तरं - प्रातरुपधानवाचना लातुं विस्मृता सा सन्ध्यायां क्रियाकरणादर्वाग् गृह्यते, तत्रापि यदि विस्मृता तदा द्वितीयेऽह्नि प्रवेदनादर्वाग् गृह्यते स वासरस्त्वग्रेतनवाचनामध्ये गण्यत इति ॥ १२६ ॥
तथा—सर्व्वीर्हतां मातरश्चतुर्द्दश स्वप्नान् श्री कल्पसूत्रोक्तानुपूर्व्यां पश्यन्त्युतानानुपूर्व्येति प्रश्नोऽत्रोत्तरं - प्रायस्ताः श्रीकल्पसूत्रोक्तानुपूर्व्या पश्यन्ति, कियच्चित्तीर्थकृन्मातर एकस्पद्ममनानुपूर्व्यापि च, यथा ऋषभदेवमात्रा पूर्वं वृषभो दृष्टो वीरमात्रा सिंहश्चेति बोध्यम् ॥ १२७ ॥
अथ साचोरसङ्घकृतप्रश्नास्तदुत्तराणि च ।
यथा - आलोचनास्वाध्याय ईर्यापथिकाप्रतिक्रमणमन्तरा शुद्धयति नवा इति प्रश्नोऽत्रोत्तरं - आलोचनास्वाध्याय इर्यापथिकाप्रतिक्रमणपूर्वकः शुद्धयतीत्यक्षराणि शास्त्रे सन्ति, कदाचित्तत्प्रतिक्रमणं विस्मरति तथापि विधिपूर्वकस्योद्यमः कर्त्तव्य इति ॥ १२८ ॥
प्रश्नोऽत्रोत्तरं - द्वादशव्रतधारी चतुर्दश नियमान्
तथा - द्वादशव्रतधारी चतुर्द्दश नियमान् प्रतिदिनं स्मरति सङ्क्षिपति च प्रतिदिनं स्मरति सङ्क्षिपति, चेन्न - स्मरति तथापि तत्स्मरणोद्यमः कर्त्तव्य इति ॥
नवा इति १२९ ॥
For Private & Personal Use Only
v.jainelibrary.org

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264