Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 250
________________ सेनप्रभे 8 उल्लासः ६ ॥ ११७ ॥ Jain Education तथा - आचार्योपाध्यायप्रज्ञांशपादुका जिनगृहे मण्डितास्सन्ति, जिनप्रतिमापूजार्थमानीत श्रीखण्डकेसरपुष्पादिभ्यस्तासामनं क्रियते नवा इति प्रश्नोऽत्रोत्तरं - मुख्यवृत्त्योपाध्यायप्रज्ञांशपादुकाकरणविधिः परम्परया ज्ञातो नास्ति, स्वर्गप्राप्ताचार्यस्य पादुकाकरण विधिस्त्वस्ति, ततो जिनपूजार्थश्रीखण्डादिभिस्तत्पादुका न पूज्यते, देवद्रव्यत्वात् तथा श्रीखण्डादिकं साधारणं भवति, तेनापि प्रतिमां पूजयित्वा पादुका पूज्यते, परं पादुकामर्चयित्वा प्रतिमा नार्यते, देवाशातनाभयादिति ॥ १३० ॥ तथा - वस्तुपालते जपालौ प्राक् दशकौ श्रुतौ, जीर्णप्रबन्धानुसारेण पण्डितपद्मसागरगणिभिर्विंशतिकावुक्तौ, तत्कथमिति ! प्रश्नोऽत्रोत्तरंतत्पितृआसराजेन सङ्घवी आभूपुत्रीविधवा कुमारदेवानाम्न्या सार्द्धं तत्कुक्षिपुत्ररत्नोत्पत्तिरिति श्रीहेमप्रभसूरिवचसा ज्ञात्वा सम्बन्धः कृतः, पश्चात्पुत्रचतुष्टयं पुत्री सप्तकं च जातमिति वस्तुपालतेजपालप्रबन्धे लिखितमस्ति, तथा परम्परयाऽपीत्यमेव कथ्यते । तथा पण्डितपद्मसागरगणिकथितप्रबन्धमध्येऽपि आसराजो विंशतिकप्राग्वाटः कथितो नास्ति परं सामान्यतः प्राग्वाटः कथितोऽस्ति, किञ्च प्राग् विंशतिकप्राग्वाटोऽभूत्तेन विंशतिकः प्राग्वाटः कथ्यते तदा युक्तमिति ॥ १३१ ॥ तथा - अष्टमप्रतिमानवमप्रतिमयोरारम्भवर्जनं दशमप्रतिमायां सावयाहारवर्जनं च क्रियतेऽन्यथा वा इति प्रश्नोऽत्रोत्तरं - अष्टमप्रतिमायामारम्भोऽष्ट मासान् यावत्स्वकायेन त्यज्यते, नवम्यामप्यारम्भो नव मासान् यावत्परेण न कार्यते, दशम्यां च दश मासान् यावत्स्वार्थनिष्पन्नाहारपानीयादि वस्तु न गृह्णाति परार्थनिष्पन्नाहारादिकं तु गृह्णातीति ॥ १३२ ॥ तथा - प्रमत्तषष्ठगुणस्थानकवर्त्तिसाधूनां मज्जं विसयकसाये 'ति गाथोक्तपञ्चविधः प्रमादः कथं सम्भवतीति प्रश्नोऽत्रोत्तरं - प्रमत्तषष्ठगुण. स्थानवर्त्तिसाधूनां ' मज्जं विसयकसाये 'ति गाथोक्तः पञ्चविधः प्रमादो मद्यस्य सदैवाभक्ष्यत्वना कल्प्यत्वाद् यथासम्भवं भवतीति ॥ १३३ ॥ For Private & Personal Use Only साचोर० |१२८-१३७ ॥ ११७ ॥ v.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264