Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रों ४ उल्लासः
॥१०३॥
तथा-महाविदेहेषु ये श्राद्धा देशवतिनस्ते उभयकालमावश्यकं कुर्वन्ति, किं वा यतिवत्कारणे समुत्पन्ने कुर्वन्तीति प्रश्नोऽत्रोत्तरं- जेसलमरु० “ देसिअ राइअ पक्खिअ चउमासिअ वच्छरी अ नामाओ । दुण्डं पण पडिकमणा मज्झिमगाणं तु दो पढमा" ॥ १ ॥ इति सप्ततिशत- १-५६ स्थानकस्थगाथानुसारेण यदि यतीनां देवसिकरात्रिकप्रतिक्रमणद्वयकरणं प्रत्यहं दृश्यते, तर्हि श्रावकाणां तत्करणे किं वक्तव्यमिति ॥ १४ ॥
तथा-अष्टौ गोस्तनाकारा जीवप्रदेशास्सन्ति तेषां कर्मवर्गाणा लगति न वा इति प्रश्नोऽत्रोत्तरं-जीवानां मध्याष्टप्रदेशानां कर्मवर्गणा न लगतीति ज्ञानदीपिकायां प्रोक्तमस्ति, यथा “ स्पृश्यन्ते कर्मणा तेऽपि, प्रदेशा आत्मनो यदि । तदा जीवो जगत्यस्मिन्नजीवत्वम| वाप्नुयात् " ॥ १ ॥ ॥ १५ ॥
तथा—समये समये अनन्ता हानिः कथ्यते सा किं वस्त्वाश्रित्येति प्रश्नोऽत्रोत्तरं-अवसप्पिणीकाले वर्णगन्धरसस्पर्शादिपर्यायाणाम| नन्ता हानिः कथ्यते, एवंविधभावो जम्बूद्वीपप्रज्ञप्तिवृत्तावस्तीति ॥ १६ ॥ | तथा-श्रीआदिनाथवारके यं चतुर्विंशतिस्तवं पठितवन्तस्तमेव श्रीमहावीरवारके पठितवन्त उतान्यमिति प्रश्नोऽत्रोत्तरं-श्रीआदिनाथवारके | यं चतुर्विशतिस्तवं पठितवन्तस्तमेवार्थतः श्रीमहावीरवारकेऽपि, परं सूत्रपाठनियमो नास्तीति परम्परास्तीति, युक्तिरपि च तथैव दृश्यते ॥ १७ ॥
तथा-ये केचन रात्रिभोजनप्रत्याख्यानिनो घटिद्वयशेषे दिवसे भोजनं कुर्वन्ति तेषां रात्रिभोजनप्रत्याख्यानभङ्गो भवति न वा इति, Iy | प्रश्नोऽत्रोत्तरं-घटीद्वयशेषे दिवसे भोजनं कुर्वतां रात्रिभोजनस्यातीचारो लगति, न तु तद्भङ्ग इति ॥ १८ ॥
१'तं दुष्हमुभयकालं इयरार्ण कारणे इउ मुणिणो' इति पाठात् मुनीना कारणे जाते प्रतिक्रान्तावपि श्रावकाणां न तथा, किन्तु मुनीनामेवेति कुर्वन्त्येवोभयसन्ध्यं धावकाः प्रतिक्रांतिमिति ।
Jain Educat
For Private
Personal Use Only
ainelibrary.org

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264