Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने ४ उल्लासः .११०॥
फतेपुरस०
७८-८१ राजापुरस
८२ आगरास०
तथा-देवपूजनावसरे तिलकं क्रियते न वा इति प्रश्नोत्रोत्तरं-देवपूजावेलायां तिलककरणनिषेधो ज्ञातो नास्त्यात्मीयगच्छे इति ॥७९॥ तथा-श्राद्धकृतस्तुतिस्तोत्राणि मण्डल्या कथयितुं शुद्धयन्ति न वा इति प्रश्नोऽत्रोत्तरं-शुद्धयन्तीति ॥ ८॥
तथा द्विविधाहारमध्ये निम्बुकपटुं विना क्षाराजमकः मधुराजमकश्च ग्रहीतुं कल्पते न वा प्रश्नोऽत्रोत्तरं-द्विविधाहारप्रत्याख्याने | निम्बुकपट्टरहितः क्षारको मधुरो वाऽजमको ग्रहीतुं कल्पते इति ॥ ८१॥
अथ राजापुरसङ्घकृतप्रश्नस्तदुत्तरं च । यथा-चैत्राद्यष्टाह्निकाषट्कं दशस क्षेत्रेषु शाश्वतं भवति न वा, तत्र देवा महोत्सवं कुर्वन्ति न वा इति प्रश्नोऽत्रोत्तर-चैत्राद्यष्टा| ह्रिकाषट्कं श्राद्धविधिप्रमुखग्रन्थानुसारेण तथा अन्यग्रन्थानुसारेण च दशसु क्षेत्रेषु शाश्वतं ज्ञायते, तत्र नन्दीश्वरादिषु वैमानिकप्रमुखदेवाः | | तीर्थयात्रादिमहोत्सवं कुर्वन्तः सम्भाव्यन्ते ॥ ८२ ॥
अथाऽऽगरासङ्घकृतप्रश्नौ तदुत्तरे च। यथा-खसखसडोडकमध्ये ये कणास्ते बहुबीजा अन्यथा वा इति प्रश्नोऽत्रोत्तरं-खसखसडोडको बहुबीजः कथ्यते, यत एकडोडक| मध्ये बहवः कणास्सन्तीति ॥ ८३ ॥
तथा-नमस्कारसहितप्रत्याख्यानं कृतं भवति, कार्यविशेषाच्च न पारितं, पश्चात्सन्ध्यायां पारितं, परमेतावत्कालमुपयोगवान् स्थितस्तस्य नमस्कारसहितफलमधिकं भवति न वा इति प्रश्नोऽत्रोत्तरं--नमस्कारसहितप्रत्याख्यानस्य जघन्यकालमानं घटिकाद्वयं कथितमस्ति, तथानमस्कारं गणयति तदा प्रत्याख्यानं पूर्णं भवतीत्यपि कथितमस्ति, तस्माद् घटिकाद्वयस्योपरि यावत्कालमुपयोगवान् तिष्ठति, नमस्कारं च
For Private Personal use only

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264